Rajasthan Board RBSE Class 10 Sanskrit व्याकरणम् अव्ययम्

संस्कृतभाषायां शब्दप्रकारद्वयमस्ति- विकारी अविकारी च। ये शब्द: विभक्तिप्रत्यय-उपसर्गे: मिलित्वा रूपपरिवर्तन कुर्वन्ति ते ‘विकारी’ इति शब्देन निर्दिश्यन्ते। अविकारिण: तु कदापि रूपपरिवर्तनं न कुर्वन्ति । एते ‘अव्यय’-शब्देन कथ्यन्ते। अर्थात् येषु शब्देषु लिङ्गवचनकारकादि-सम्बन्धेन रूपपरिवर्तनां न भवति ते अव्ययानि सन्ति। उक्तं च-(संस्कृत भाषा में शब्द | के दो प्रकार हैं- विकारी और अविकारी। जो शब्द विभक्ति-प्रत्यय-उपसर्ग से मिलकर रूप परिवर्तन करते हैं वे ‘विकारी’ इस शब्द से निर्देशित किये जाते हैं। अविकारी तो कभी भी रूप परिवर्तन नहीं करते हैं। ये अव्यय शब्द कहे जाते हैं। अर्थात् इन शब्दों में लिङ्ग, वचन, कारक आदि के सम्बन्ध से रूप परिवर्तन नहीं होता है, वे अव्यय पद हैं। जैसा कि कहा है-)

सदृशं त्रिषु लिङ्गेषु सर्वासु स विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।।

अव्ययानां अन्ते आगतानां र्-स्-वर्णानां स्थाने विसर्गः प्रयुज्यते यथा-उच्चैस्= उच्चैः, नीचैस्नीचैः, अन्तर= अन्तः पुनर्=पुन: इति । (अव्ययों के अन्त में आये हुए ‘र’ और ‘स्’ वर्गों के स्थान पर विसर्ग प्रयुक्त किया जाता है जैसे-उच्चैस्-उच्चैः, नीचैस्-नीचैः, अन्तर्-अन्तः, पुनर्पुनः आदि।)

अव्ययानामपि प्रकार द्वयमस्ति- प्रथमं तावत् रूढ़म्, अव्युत्पन्नं वा। यथा-च, वा, विना, पृथगादीनि धातो: अव्युत्पन्नानि। द्वितीयं यौगिक व्युत्पन्नं वा। यथा पठित्वा, पठितुमादीनि धातो: व्युत्पन्नानि कृदन्दताव्ययानि । सर्वदा, चतुर्धादीनि नाम्नः व्युत्पन्नानि तद्विताव्ययानि च। तद्धिताव्ययानां भेदा अपि सन्ति । यथा- (अव्ययों के दो प्रकार हैं- पहला अधिकार रूढम् अथवा अव्युत्पन्नम् है। जैसे- च, वा, विना, पृथगादीनि धातु से अव्युत्पन्न हैं। दूसरा अधिकार यौगिक अथवा व्युत्पन्न है। पठितुम् आदि धातु से व्युत्पन्न कृदन्त अव्यय हैं। और सर्वदा, चतुर्धा आदि नाम से व्युत्पन्न तद्धित अव्यय हैं। तद्धित अव्ययों के भेद भी हैं। जैसे-)

विभक्ति बोधकानि             –             कुतः, ग्रामतः, कुत्र अत्रादीनि ।
कालबोधकानि                  –             यदा, कदा, सर्वदादीनि ।
प्रकोरबोधकानि                –              यथा, तथा, कथम्, इत्थम्, द्वेधादीनि।
विविधानि                         –             अनेकशः पञ्चत्व आदीनि ।

अत्र केषाञ्चिदव्ययानां अर्थो: उदाहरणानि च प्रस्तूयन्ते- (यहाँ कुछ अव्ययों के अर्थ और उदाहरण प्रस्तुत किये जा । रहे हैं-)

RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q1
RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q2
RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q2a
RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q2b
RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q2c
RBSE Solutions for Class 10 Sanskrit व्याकरणम् अव्ययम् Q2d

ध्यातव्यम्
अव्ययानां पञ्च भेदा सन्ति (अव्ययों के पाँच भेद हैं-)
(i) क्रिया-विशेषण
(ii) सम्बन्धबोधक
(iii) समुच्चयबोधकः
(iv) विस्मयादिबोधकः
(v) उपसर्गाः।

1. क्रिया-विशेषण अव्यय- जो अव्यय शब्द क्रिया की विशेषता बतलाते हैं, उन्हें क्रिया-विशेषण अव्यय कहा जाता है। इन्हें मुख्यत: तीन भागों में विभाजित किया जा सकता है-
(i) कालवाचक
(ii) स्थानवाचक
(iii) रीतिवाचक
(iv) रीतिवाचक क्रियाविशेषण।

(2) सम्बन्धबोधक अव्यय – जो अव्यय शब्द संज्ञा, सर्वनाम आदि शब्दों के सम्बन्ध का बोध कराते हैं, उन्हें सम्बन्धबोधक अव्यय कहते हैं । यथा–
(i) नगरस्य मध्ये एव चिकित्सालयः अस्ति । (नगर के मध्य ही चिकित्सालय है ।)
(ii) ग्रामस्य समीपे एवं नदी प्रवहति । (गाँव के समीप ही नदी बहती है ।)
यहाँ ‘मध्ये’ और ‘समीपे’ सम्बन्धबोधक अव्यय हैं ।

(3) समुच्चयबोधक अव्यय–जो अव्यय शब्द दो पदों या वाक्यों को परस्पर जोड़ने का काम करते हैं, उन्हें समुच्चयबोधक अव्यय कहते हैं। जैसे–च (और) वा (अथवा) आदि ।।
(i) सुरभित: शीतलः च पवन: वहति । (सुगन्धित और शीतल हवा चल रही है ।)
(ii) महेशः दिनेशः वा गायति । (महेश अथवा दिनेश गा रहा है ।)

(4) विस्मयादिबोधक अव्यय-जो अव्यय शब्द हर्ष; विषाद, सम्बोधन, दु:ख, खेद, घृणा, आश्चर्य, आशीर्वाद, भय, लज्जा आदि भावों या मनोविकारों को प्रकट करते हैं, उन्हें विस्मयादिबोधक या मनोविकारसूचक अव्यय कहते हैं, जैसे– आः, अहो, आम्, अहह, धिक्, हा, हन्त आदि ।
(i) आः! स्वयं मृतोऽसि ।(अरे ! स्वयं मर गये हो ।)
(ii) अहो ! देशस्य दुर्भाग्यम् । (अरे! देश का दुर्भाग्य ।)
(iii) अहो ! बलीयः खलु भीतोऽस्मि । (अरे ! बहुत अधिक डर गया हूँ ।)

(5) उपसर्ग अव्यय-उपसर्ग वे अव्यय शब्दांश हैं जो क्रियादि पदों से पूर्व जुड़कर उनके अर्थ को बदल देते हैं या उसमें कुछ विशेषता ला देते हैं । ये प्र आदि 22 होते हैं अतः इन्हें ‘प्रादयः’ कहते हैं । इनका अपना कोई अर्थ या स्वतन्त्र प्रयोग नहीं होता । ये हैं – प्र (अधिक), परा (पीछे), अप (दूर), सम् (अच्छी तरह), अनु (पीछे), अव (दूर, नीचे), निस् (बिना), निर् (बाहर), दुस् (कठिन), दुर् (बुरा), वि (बिना), आङ् (तक), नि (नीचे), अधि (ऊपर), अपि (भी), अति (बहुत), सु (अच्छा), उद् (ऊपर), अभि (ओर), प्रति (ओर, उल्टा), परि (चारों ओर), उप (निकट)। यथा— प्रणाम:, पराजयः, अपमानः, संयोगः, अनुरागः, अवमानना, निस्सन्देहः, निराकार:, दुस्साहसः, दुर्जयः, वियोगः, आवासः, निरोधः, अधिकार, अपिधानम् (पिधानम्), अतिक्रमणम्, सुभगः, उत्थानम्, अभिमानम्, प्रत्युत्तरम्, परितः, उपयोगः ।। नोट- उपर्युक्त स्थूलांकित शब्दांश उपसर्ग हैं ।

पाठ्यपुस्तके कथायाम्, अनुच्छेदे, सम्वादे, पद्ये वे अव्यानाम् प्रयोगाः
पाठ्यपुस्तक की कथा अनुच्छेद, सम्वाद व पद्य में अव्ययों का प्रयोग

प्रश्न 1:
निम्नलिखित में किन्हीं दो अव्यव पदों को रेखांकित कीजिए –
उत्तर:
1. अस्ति गोदावरी तीरे विशाल: शाल्मलीतरुः। नानादिग्देशादागत्य रात्रौ पक्षिणो तत्र निवसन्ति । अथ कदाचित् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि लघुपतनक नामा वायसः प्रबुद्धः, कृतान्तमिव द्वितीयम् आयान्तं व्याधम् अपश्यत् । तम् अबलोक्य अचिन्तयत्-“अद्य प्रातरेव अनिष्टदर्शनं जातम्, न जाने किम् अनभिमतं दर्शयिष्यति ।” अतः तदनुसरणक्रमेण व्याकुलश्चलितः।

2. अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम्। स च प्रच्छन्नो भूत्वा स्थित:  । तस्मिन्नेव काले चित्रग्रीव नामा कपोतराजः सपरिवारो वियति विसर्पन् तान् तण्डुलकणान् अवलोकयामास (अपश्यत्) । ततः कपोतराज: तण्डुलकण-लुब्धान् कपोतान् प्रति आह (अकथयत्) “कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भव:? तन्निरूप्यतां तावत् । भद्रमिदं न पश्यामि। सर्वथा अविचारितं कर्म न कर्त्तव्यम्” । एतद्वचनं श्रुत्वा कश्चित् कपोत: सदर्पम् आह ( अकथयत्) ।

3. तत् श्रुत्वा कपोतराजस्य शङ्कां च अनादृत्य सर्वे कपोतास्तत्रोपविष्टाः। अनन्तरं सर्वे जालेन बद्धाः बभूवुः। ततो यस्य वचनात् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति। तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-“नायमस्य दोषः। विपत्काले विस्मय एव कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम् । इदानीमप्येवं क्रियताम् । सर्वैरेकचित्तीभूय जालमादायोड्डीयताम् ।” इति विचिन्त्य सर्वे पक्षिणः जालमादायोत्पतिताः। अनन्तरं स व्याधः सुदूराज्जालापहारकान् तान् अवलोक्य पश्चाद् धावनम् अकरोत् । ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्याधो निवृतः।

4. उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥

5. अपि स्वर्णमयी लकां न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

6. राष्ट्रदृष्टिं नमस्यामो राष्ट्र मंगलकारिणीम्।
यया विना न पश्यन्ति राष्ट्र स्वनिकटस्थितम् ॥

7. समानसंस्कृतिमतां यावती पितृ-पुण्यभूः।
तावर्ती भुवमावृत्य राष्ट्रमेकं निगद्यते।

8. तत्रैव सः प्रतिज्ञां कृतवान्-”यावत् अहं हस्तच्युतान् स्वराज्यभागान् पुनः नं प्राप्स्यामि, तावत् सुवर्णपात्रेषु भोजनं न करिष्यामि, राजप्रासादे वासं न करिष्यामि, मृदुतल्पे च शयनं न करिष्यामि।”

9. प्रतापस्य राज्यकाले ‘अकबर’ इति नामकः मुगलशासकः आसीत् । अकबरस्य सेनया सह प्रतापस्य अनकेवारं युद्धम् अभवत् । मुख्ययुद्धम् हल्दीघाटीस्थाने अभवत्, अतएव एतत् ‘हल्दीघाटीयुद्धम्’ इति नाम्ना प्रसिद्धमस्ति । अस्मिन् युद्धे प्रतापः ‘चेतके’ इति नामके अश्वे आरुह्य बहुशौर्यं प्रदर्शितवान् । प्रतापस्य सेना पर्वतीययुद्धेषु कुशली आसीत् । अतएव मुगलसेनायाः अतिक्षरि. जाता। मुगलसेना स्थानीयजनानां विरोधकारणेन परावर्तिता। अस्मिन् युद्धे प्रतापस्य राज्येऽपि जनक्षति: धनक्षतिश्च संजाता । तस्य सेनाऽपि धनाभावे विघटिता। परं प्रताप: कदापि पराजयं न स्वीकृतवान् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसंकल्पसिद्धये सैन्यसंग्रहणम् उपाक्रमत। सैन्यसंग्रहणं तत्प्रशिक्षणं च बहुवित्तसाध्यं कार्यम्।।

10. महती दारिद्र्येण परितप्यमानस्य प्रतापस्य इदमेव बहुचिन्ताकारणमासीत् । प्रतापस्य चिन्तां विभाव्य ‘भामाशाह’ नामा कश्चित् श्रेष्ठी किमपि महत्कार्यं कर्तुं काल: समायोत: इति भावितवान्। सः प्रतापं निकषा गत्वा उवाच-”प्रभो ! अहं भवद्वंशस्य सेवकः, मम हस्ते प्रभूतं धनं विद्यते । तेन भवान् पञ्चविंशतिसहस्रसैनिकान् द्वादशवर्षपर्यन्तं पालयितुं प्रभविष्यति” इति । तदा प्रताप: उवाच-”अहं नैतद्धनं स्वीकर्तुं शक्नोमि, एतद् धनं भवता अर्जितमस्ति ।’ तदा भामाशाहः प्रावोचत्-‘नैतद्धनं परकीयम् । देशरक्षार्थं मया अर्जितमिदं धनं यदि सहायकं भवेत् तर्हि मम जीवनं सार्थक भविष्यति” इति । भामाशाहस्य वचनं श्रुत्वा प्रतापस्य मन: असीमसान्त्वानाम् आप्तवान् ।

11. तेन पुनः सैन्यशक्तिसंग्रहकार्यम् आरब्धम्, महासैन्यं स रचयामास। तया सेनया च मुगलशासनं प्रति स्वातन्त्र्ययुद्धं प्रारभत । स्वराज्यहस्तच्युतान् अनेक भागान् पुनः हस्तगतान् कृतवान्। तेषु मोही, गोगुन्दा, उदयपुरम् इत्यादयः मुख्या: आसन्। स्वराज्ये शान्तिं संस्थाप्य ‘चावण्ड’ नामक स्थानं स्वराजधानीम् अकरोत् । तस्मिन् काले ‘चावण्ड’ स्थानं स्थापत्यकलायाः, ललितकलायाः, वाणिज्यस्य, विद्यायाश्च प्रमुखकेन्द्रम् आसीत् ।

12. स्वामिकेशवानन्दस्य जन्म पौषमासे 1940 तमे विक्रम संवत्सरे (ईस्वी 1883) राजस्थानस्य सीकर-जनपदे मगलूणा-ग्रामे अभवत् । अस्य पितुर्नाम ठाकुरसी ढाका इति मातुश्च नाम सारां इत्यासीत् । बाल्ये केशवानन्दस्य नाम ‘बीरमा’ इत्यासीत् । यदा एषः बालः सप्तवर्षकल्पः आसीत् तदैव उष्ट्रमेकमाश्रित्य रतनगढ़-स्थले जीवनयापनं कुर्वन्नस्य पिता दिवङ्गत:।

13. चतुर्दिक्षु जलं नैव, अन्नं नैव, तृणं नैव । आसीत् केवलं क्षुत्पिपासयो: अखण्डं साम्राज्यं, प्राणिनामार्तनादश्च। शमीवृक्षाणां त्वचं भरुट-संज्ञकं घासं च खादित्वा मनुष्याः यथाकथञ्चित् प्राणान् रक्षितवन्तः। पशव: प्राय: काल-कवलिताः। एतौ मातापुत्रौ अपि जनपदात् जनपदं ग्रामात् ग्रामं च अटन्तौ आस्ताम् । अस्मिन्नेवान्तरे पततं दुर्भिक्षप्रतारणै: जर्जरिता बलवदस्वस्था च वीरमा-जनन्यपि षोडशवर्षदेशीयम् इमं किशोरम् एकलं विहाय दिवं प्रयाता ।

14. पितुः प्रयाणात् प्रागेव विपन्नतायां श्रेष्ठिगृहेषु गोधूमादि-पेपणं पात्रमार्जनम् इत्येवमादिभि: कार्यैः यथाकथञ्चित् । काल-यापनं कुर्वती अस्य बालस्य वराकी माती इदानीं वैधव्य कारणाद् इतोऽपि विपदाभिभूता अभवत्, उच्यते हि छिद्रेष्वनर्था: बहुलीभवन्ति।’ इदानीं मातुः सहयोगाय बीरमा-बालकेन गोचारण-कार्यमारब्धम्। तदानीन्तन: दीन-हीन: ग्रामीण: कृषकवर्ग: श्रमिकवर्गश्च सामन्तानां, राज्ञां (नवाब-संज्ञकानां वा), वैदेशिकानां च शासकानां त्रिविधे दासता-पञ्जरे आबद्धः आसीत् । रौरव-नरकप्रायं हि तेषां जीवनमासीत् । अयं पुनः ‘गण्डस्योपरि पिटकः’ संवृत्त: यत् भयङ्करो दुर्भिक्षकाल: समापन्नः।। ‘छप्पनियाँ अकाल’ इति कुख्याते वि०सं० 1956 तमस्य तस्मिन् दारुणे दुर्भिक्षे प्राणधारणमपि दुर्भरमासीत् ।

15. तदनन्तरम् एकलोऽपि सन् असार-संसार दु:खदावानल-द्वितीयः क्षुत्पिपासार्दितः बीरमा उत्तरस्यां दिशि अज्ञाते पथि: आहिण्डमानः पञ्जाबे फिरोजपुरं प्राप्तः। तत्र केनापि कृपालुना आर्यसमाजस्य अनाथालये प्रवेशितोऽयं बीरमा रोटिकाया: अक्षरज्ञानस्य च युगपत् दर्शनम् इदम्प्रथमतया अकरोत् । अयमेव एकस्य पशुचारकस्य महापुरुषत्वं प्रति यात्रायाः प्रस्थानबिंदुरासीत् । अत्र तस्य हृदि संस्कृताध्ययनेच्छा अङ्कुरिता।।

16. तत्र गुरुमुखीलिप्यां गुरुग्रन्थसाहिब-इत्यस्य पठने च पाटवमधिगतम्। आगमिनि वर्षे प्रयागे कुम्भमेलायामेकेन महात्मना ‘स्वामिकेशवानन्दः’ इति नाम दत्तम् । गुर्वाज्ञया संस्कृताध्ययनाय हरिद्वारे अमृतसरे चाप्युषितम् । देशाटनं कुर्वता स्वामिना नगराणां, तीर्थानां, मन्दिराणां, मठानाम्, आश्रमाणां, विद्यालयानां, विश्वविद्यालयानां, पुस्तकालयानां, संग्रहालयानां, वनानां, पर्वतानां, नदीनाम्, ऐतिहासिक-स्थलानां च अध्ययनमपि कृतम् ।

17. स्वशिष्यस्य गुण-गण – महिम्ना परमप्रीत: गुरु: कुशलदासः स्वजीवितकाले एव आश्रमस्य स्वामित्वं केशवानन्दाय दत्तवान् गुरुपीठे च तं प्रतिष्ठापितवान्। ‘परोपकाराय सतां विभूतयः।’ इति धिया समृद्धमठस्य विभूतीनामुपयोगं विधाय उर्दू प्रधाने फाजिल्का-अबोहर-क्षेत्रे राष्ट्रभाषायाः प्रचारकार्यमारब्धम्। आदौ तावद् आश्रमे एव वेदान्त पुष्पवाटिका’ इत्याख्य-सार्वजनिक-हिन्दी पुस्तकालयस्य वाचनालस्य च प्रारम्भः कृतः। पश्चात्तत्रैव एका संस्कृत-पाठशालाऽपि स्थापिता। अबोहर – नगरे ‘नागरी-प्रचारिणी सभा’ प्रारब्धा ।

18. जनसहयोगेन’साहित्य – सदनम्, अबोहर’ इत्याख्या संस्थापि आरब्धा या हि विन्द्रनाथठाकुरस्य शान्ति निकेतनोपमासीत्, यन्माध्यमेन च ग्राम्यक्षेत्रेषु 25 विद्यालयानां, चलपुस्तकालयस्य, सत्साहित्य प्रकाशनाय ‘दीपक-प्रेस’ इत्यस्य च स्थापना जाता। साहित्य-सदने एवं स्वामिना 30 तमम् अखिलभारतीयं हिन्दी-साहित्य सम्मेलनमपि आयोजितम् । हिन्दी-सेवार्थ स्वामिने ‘साहित्य वाचस्पतिः’ तथा च ‘राष्ट्रभाषा-गौरवम्’ इत्युपाधिद्वयं प्रदत्तम् । केशवानन्दस्य हिन्दी-प्रचार-कार्याणामेकं सुफलम् एतदासीद् यद् देशविभाजन-काले पञ्जाबस्य फाजिल्का-क्षेत्रं पाकिस्तान गमनात् वारितम् ।

19. स्वातन्त्र्यान्दोलनेऽपि सक्रिय: स्वामिकेशवानन्दः नैकवारं वर्षाणि यावत् कारागारेष्वपि निबद्धः।

20. शिक्षा-प्रसाराय कृतभूरिश्रमेण स्वामिना ‘ग्रामोत्थान विद्यापीठ, संगरिया’ इत्यस्य संस्थापनं कृतम्। ग्राम्यक्षेत्रेषु तेन उपत्रिशतं (300) शिक्षाशालाः, उपपञ्चाशच्च (50) छात्रावासा: स्थापिताः। शिक्षा क्षेत्रे स्वामिनः श्रम: पं. मदनमोहनमालवीयस्य पुरुषार्थं स्मारयति । योग्यमेव स्वामिवर्य: ‘शिक्षा-सन्तः’ इति विरुदेन भूषित:।

21. समाज-सुधारक: केशवानन्द: मरुप्रदेशे व्याप्तानां मृत्यु- भोजनं, बाल-विवाह: नार्युत्पीडनं, यौतुकप्रथा, अवगुण्टनप्रथा. अस्पृश्यता, मद्यसेवनम् इत्यादीनां कुप्रथानाम् निवारणाय सदैव सचेष्टः आसीत् ।

22. स्वामिनो जीवनं सर्वपन्थसद्भावस्य निदर्शनमस्ति । अयं हि जाट-जातो जातः परं सिक्खगुरो: नानकदेवस्य पुत्रेण श्रीचन्देन प्रवर्तिते उदासी-सम्प्रदाये दीक्षितः। गुरुग्रन्थस्योत्तमः पाठी अभूत् । एकादशवार्षिक-साधनया 700 पृष्ठात्मकस्य सिक्खेतिहासस्य लेखनं कारितवान्। विभाजनकालीने हिंसाचारे क्षतानां मुस्लिमवन्धूनां चिकित्सा कारिता। सिक्ख-विश्नोईनामधारी-दशनामी-आर्यसमाजी-जैनाद्याचार्याणां सम्मानने कार्यक्रमाः आयोजिता:।’ ‘जाट-विद्यालयः, संगरिया’ इत्यस्य नाम परीवर्त्य’ ‘ग्रामोत्थान-विद्यापीठ’ इत्यकरोत् ।

23. महराणा प्रतापस्य छत्रपति शिवाजिमहाराजस्य चाऽनन्तरं महाराज: मूरज पल्ल्न: एव सः वीरः यः उत्साह साहसचातुरी-दृढ़तादिबलेन मुगलसाम्राज्यस्य उपरि प्रत्यक्ष प्रहारम् अकरोत् तत्समक्षं मुगलानाम् अहङ्कारस्य नैकवारं पराजयः अभवत्। मीरबख्शी सलावतखान-सदृशः शासकोऽपि तेन सह सन्धिं करोति यद् अद्यारभ्य अहं पिप्पलवृक्षच्छेदनं गोहननंमन्दिरादिध्वंसनं च नैव करिष्यामि । इदं सूरजमल्लस्य प्रभावशालताया: एक निदर्शनम् । तदानीन्तन: न कोऽपि भारतीय–शासकः मल्लेन तुल्य: दृश्यते । अष्टादश-शताब्दस्य प्रायशः सर्वेऽपि इतिहासज्ञा: वृत्तान्त-लेखकाश्च तं मुक्तकण्ठं प्रशंसन्ति ।।

24. जाट-जातौ सूरजमल्ल तदेव स्थानं धत्ते यत्खलु स्थानं विदेशीयेषु प्लेटो-नेपोलियन-लूथर इत्यादीनामस्ति। कश्चिदेक: लेखकस्तु तं ‘जाट-प्लेटो’ इति विरुदेन भूषितवानेव । हिन्दु-इतिहासज्ञाः तं 18 शताब्दस्य ‘कनिष्कः’ इति मुस्लिमाश्च तं ‘अन्तिमः प्रतापी हिन्दु-नरेशः’ इति घोषितवन्तः। औपचारिक-शिक्षा-रहितोऽपि सूरजमल्लः वस्तुत: समकालीनेषु वीरेषु भीमः, नीतिज्ञेषु कृष्णः, अर्थशास्त्रज्ञेषु च कौटिल्यः आसीत् इति मन्यते । सैय्यद गुलाम अली नकवी स्वीये ‘इमादुस्सादात’ इत्याख्ये ग्रन्थे लिखति यत् राजनीते:, राजस्वस्य, नागरिक-न्यायस्य च प्रबन्ध-नैपुण्ये आसफजाह-बहादुर-निजामं विहाय | हिन्दुस्थाने तत्समये नैकोऽपि कश्चिद् तत्तुल्यः आसीत् ।

25. ‘इळा न देणी आपणी’ इति मातृशिक्षा पालयन्, ‘धम्र्याद् हि युद्धात् श्रेयोऽन्यत् क्षत्रियस्य न विद्यते’ इति गीतोपदेशं च परिपालयन् राष्ट्रधर्म-रक्षणाय प्राणान् पणीकृत्य अपि युध्यमान: 25 डेसेम्बर 1763 ई० इति दिवसे रणे चाभिमुखे हतः।।

26. प्रताप इव, शिवाजी इव, बन्दा बैरागी इव, गुरुगोविन्दसिंह इव च सूरजमल्लस्य परम: प्रभाव: अद्यापि इतिहासे गुञ्जति इव।

27. महाराजस्य सूरजमल्लस्य जन्म वसन्तपञ्चम्याम् (13 फेब्रवरी-दिने) 1707 तमे ईस्वीयवर्षे अभवत् । स हि महाराजस्य बदनसिंहस्य ज्येष्ठपुत्रः तस्योत्तराधिकारी चासीत्। सूरजमल्लस्य अपरम् एकं नाम सुजानसिंहः इत्यासीत्। अष्टादश शताब्दस्य भारतस्य नायकेषु अन्यतमः आसीत् सूरजमल्लः। तस्य जुनिः तदा अभूत् यदा भारतदेशस्य राजनीतिः अत्यन्तं दोलायमाना आसीत्, भारतं च विध्वंसक-शक्तीनां बाहुपाशे सर्वथा निबद्धम् आसीत् । नादिरशाहः, अहमदशाह अब्दाली इत्येताभ्यां पापिभ्याम् उत्तर-भारते महता प्रमाणेन नरवधाः गोवधाश्च क्रियन्ते स्म, तीर्थानि मन्दिराणि च विध्वस्तानि क्रियन्ते स्म। भारतं लुण्ठितुम् आगच्छतः बाह्याक्रमणकारिणः निरोद्धं न कोऽपि शासकः सज्ज: आसीत् ।

28. कस्मिंश्चिद् कूपे गङ्गदत्तो नाम मण्डूक: प्रतिवसति स्म। स कदाचिद् दायादैः उद्वेजित: अरघट्टघटीम् आरुह्य निष्क्रान्तः। अथ तेन चिन्तितं यत् ‘‘कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः?” एवं चिन्तयन् बिले प्रविशन्तं प्रियदर्शनाभिधं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽप्यचिन्तयत् यत् ‘एनं तत्र कूपे नीत्वा सकलदायादानाम् उच्छेदं करोमि।”

29. एवं विभाव्य बिलद्वारं गत्वा तम् आहूतवान्–एहि, एहि प्रियदर्शन, एहि! तच्छुत्वा सर्पोऽचिन्तयत्-‘य एषः माम् आह्वयति, न सः स्वजातीयः। यतो नैषा सपवाणी। तदत्रैव दुर्गे स्थितस्तावद् वेद्मि-कोऽयमिति ?’ आह च-“भो: को भवान् ?’ स आह-भो: ‘‘गङ्गदत्तो नाम मण्डूकाधिपति: त्वत्सकाशे मैत्र्यर्थमभ्यागत:।” तच्छुत्वा सर्प आह-” भो: अश्रद्धेयमेतत् । यत् तृणानां वह्निना सह संगमः।”

30. गङ्गदत्त आह-“भो: सत्यमेतत् । स्वभाववैरी त्वमस्माकं, परं परपरिभवात् प्राप्तोऽहं ते सकाशम्।” सर्प आह-कथय, कस्मात्ते परिभवः?” स आह-“दायादेभ्यः”। सोऽप्याह ‘‘क्व ते आश्रयः, कूपे, तडागे, हृदे वा? तत् कथय स्वाश्रयम्।’ तेनोक्तम्-‘पाषाणचयनिबद्धे कूपे”। सर्प आह“अपदा वयम् । तन्नास्ति में तत्र प्रवेशः। प्रविष्टस्य च स्थानं नास्ति, यत्र स्थितस्तव दायादान् व्यापादयामि। तद् गम्यताम्।”

31. गङ्गदत्त आह-” भो: समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति तत्र स्थितस्त्वं लीलया दायादान् व्यापादयिष्यसि।”

32. तच्छुत्वा सर्पो व्यचिन्तयत्-”अहं तावत् परिणतवय: कदाचित् कथञ्चिन्मूषकमेकं प्राप्नोमि। तत् सुखावहो जीवनोपायोऽयमनेन कुलाङ्गण मे दर्शितः। तद् गत्वा तान् मूषकान् भक्षयामि” इति ।

33. एवं विचिन्त्य तमाह-‘भो गङ्गदत्त ! यद्येवं तदग्रे भव? येन तत्र गच्छावः।” गङ्गदत्त आह-“भो: प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि। परं त्वयाऽस्मत्परिजननो रक्षणीयः। केवलं यानहं तव दर्शयिष्यामि, त एव भक्षणीयाः” इति । सर्प आह-‘साम्प्रतं त्वं में मित्रं जातम् । तन्न भेतव्यम्। तव वचनेन भक्षणीयास्ते दायादाः।” एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्गय च, तेनैव सह प्रस्थितः।।

34. अथ कूपम् आसाद्य अरघट्टघटिकामार्गेण सर्पस्तेन सह तस्यालयं गतः। ततश्च गङ्गदत्तेन कृष्णसर्पः कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पणाभिहितम्-‘‘भद्र, नि:शेषितास्ते रिपवः। तत् प्रयच्छान्यन्मे किञ्चित् भोजनं यातोऽहं त्वयात्रानीतः।” गङ्गदत्त आह-‘ भद्र, कृतं त्वया मित्रकृत्यं, तत्साम्प्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम्’ इति । सर्प आहे-” भो गङ्गदत्त, न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि ? मदीयं बिलदुर्गमन्येन रुद्धं भविष्यति । तस्मादत्रस्थस्य मे मडूकमेकैकं स्ववर्गीयं प्रयच्छ। नो चेत् सर्वानपि भक्षयिष्यामि” इति ।

प्रश्न – निम्नलिखित में किसी एक अव्यव पद को रेखांकित कीजिए
उत्तर:
1. हिमालयात् समारभ्य यावदिन्दुसरोवरम्।
तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते ॥

2. अपि स्वर्णमयी लकां न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

3. राष्ट्रदृष्टिं नमस्यामो राष्ट्र मंगलकारिणीम् ।
यया विना न पश्यन्ति राष्ट्र स्वनिकटस्थितम् ॥

4. पितृभूत्वं पुण्यभूत्वं द्वयं यस्य न विद्यते ।
तस्य स्वत्वं तत्र राष्ट्रे भवितुं न किलार्हति ॥

5. प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मातदेव वक्तव्यं, वचने का दरिद्रता ॥

6. गुणैः गौरवमायाति नोच्चैः आसनमास्थितः।
प्रासादशिखरस्थोऽपि काको न गरुडायते ॥

7. पात्रापात्र- विवेकोऽस्ति धेनुपन्नगयो: इव।
तृणात् सञ्जायते क्षीरंक्षीरात् सञ्जायते विषम् ॥

8. यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति ॥

9. अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत् इव केशेषु मृत्युना धर्ममाचरेत् ॥

10. विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्, ज्ञानाय दानाय च रक्षणाय ॥

11. शोकाराति-परित्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥

12. परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥

13. अनुकूले विधौ देयं यत: पूरयिता हरिः।
प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥

14. तेन प्रायशः सप्तसु महत्युद्धेषु विजयश्री: चुम्बिता।
कविः सूदन: स्वकीये ‘सुजानचरितम्’ इति काव्ये तेषां सप्त-युद्धानां रोमाञ्चक सजीवं च वर्णनम् अकरोत् ।

15. रणाङ्गणे पाणियुगलेन खड्गं चालयन्तं तं वीक्ष्य तस्यारयोऽपि विस्मिता: जायन्ते स्म।
16. तच्छुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयम्-”अहो, किमेतन्मया कृतं सर्पमानयता ? तद् यदि निषेधयिष्यामि तत् सर्वानपि भक्षयिष्यति ।”
17. एवं चिन्तयतस्तस्य तेन सर्पेण शनैः शनैः सकलमपि मण्डूककुलं यथाकालं कवलितम् । साध्विदमुच्यते-यो यद् वपति बीजं हि लभते तादृशं फलम्।

अभ्यासः

1. मजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत –
(मञ्जूषा में दिये हुए अव्यय पदों से रिक्त-स्थानों की पूर्ति करके उत्तर-पुस्तिका में लिखिए -)

(1) तावत्, यत्र, तत्र, यदा, श्व: ह्यः, पुरा ।
(क) ह्यः सोमवासरः आसीत् ………… बुधवासरः भविष्यति ।
(ख) …………… त्वम् आगमिष्यसि तदा अहम् आगमिष्यामि ।
(ग) यावत् त्वम् अत्र स्थास्यसि …………… अहम् न आगमिष्यामि ।
उत्तराणि:
(क) ह्यः सोमवासरः आसीत्, श्वः बुधवासरः भविष्यति ।
(ख) यदा त्वम् आगमिष्यसि तदा अहम् आगमिष्यामि ।
(ग) यावत् त्वम् अत्र स्थास्यसि तावत् अहं ने आगमिष्यामि ।

(2) विना, सह, नूनम्, यदा, अधुना, अत्र, तत्र ।
रामः – अहं त्वां (i) …………….. न गमिष्यामि ।
मोहनः – किमर्थं मया एव (ii) ……………… गमिष्यसि ?
रामः – (iii) ……………. रात्रिः अस्ति । अहम् अंधकारात् त्रस्यामि ।
उत्तराणि:
रामः – अहं त्वां विना न गमिष्यामि ।
मोहन: – किमर्थं मया एव सह गमिष्यसि ?
रामः – अधुना रात्रिः अस्ति । अहम् अंधकारात् त्रस्यामि ।

(3) किमर्थम्, तत्र, बहिर्, अधुना, इतस्तत:, कुतः, यत् ।
नैतिक – गर्वित ! गृहाद् (i) …………… गत्वा उद्यानात् पुष्पाणि आनय ।
गर्वित – भ्रातः ! अहं (ii) ………….. एकाकी न गमिष्यामि ।
नैतिक – (iii) ……………. एकाकी न गमिष्यसि ।
उत्तराणि:
नैतिक-गर्वित ! गृहाद बहिर् गत्वा उद्यानात् पुष्पाणि आनय ।
गर्वित – भ्रातः। अहं तत्र एकाकी न गमिष्यामि ।
नैतिक – किमर्थम् एकाकी न गमिष्यसि ?

(4) अन्यत्र, अपि, कुत्र, किमर्थम्, तदा, यदा, मा ।
सीमा – सुरेखे! त्वं प्रभाते (i) …………. गच्छसि ?
सुरेखा – अहं (ii) ………….. भ्रमितुं गच्छामि ।
सीमा – तिष्ठ, अहम् (iii) ………….. त्वया सह चलिष्यामि ।
उत्तराणि:
सीमा – सुरेखे! त्वं प्रभाते कुत्र गच्छसि ?
सुरेखा – अहं अन्यत्र भ्रमितुं गच्छामि ।
सीमा – तिष्ठ, अहम् अपि त्वया सह चलिष्यामि ।

(5) तत्र, श्वः, ह्यः, कुत्र, यत्र, शनैः शनैः, इतस्ततः
राम – श्याम ! सुनीलः (i) …………… गतः ?
श्याम – (ii) …………….. अहं तम् आपणे अपश्यम् ।
राम – सः (iii) …………….. किं करोति स्म ?
उत्तराणि:
राम-श्याम ! सुनील: कुत्र गतः ?
श्याम – ह्यः अहं तम् आपणे अपश्यम् ।
रोम – सः तत्र किं करोति स्म ?

(6) इतस्ततः, मा, तावत्, बहिः, सहसा, यदा, तदा ।
(i) यावत् अहम् अत्र तिष्ठामि ……………… मा गच्छ ।
(ii) सिंहस्य अभावे वने जीवा: ………………. भ्रमन्ति ।
(iii) …………… कदापि कार्याणि न कुर्यात् ।
उत्तराणि:
(i) यावत् अहम् अत्र तिष्ठामि तावत् मा गच्छ ।
(ii) सिंहस्य अभावे वने जीवाः इतस्ततः भ्रमन्ति ।
(iii) सहसा कदापि कार्याणि न कुर्यात् ।

(7) एव, अलम्, उच्चैः , अधुना, शनैः, च, अपि ।
अनिलः – आगतः अस्मि, श्रीमन्त: (i) ………….. किं करवाणि ?
अध्यापकः – (ii) …………….. भ्रमणेन । अत्र उपविश ।
अनिलः – आम्, उपविशामि । यद् भवन्तः कथयिष्यन्ति तद् (iii) ……………. करिष्यामि ।
उत्तराणि:
अनिलः – आगत: अस्मि, श्रीमन्तः अधुना किं करवाणि ?
अध्यापकः – अलं भ्रमणेन । अत्र उपविश ।
अनिल: – आम्, उपविशामि । यद् भवन्तः कथयिष्यन्ति तद् एव करिष्यामि ।

(8) अपि, पुरा, विना, बहिः, कुत्र, वृथा, शनैः ।
भानुप्रिया – त्वम् अधुना (i) ……….. गच्छसि ?
भानुप्रताप – अहं ग्रामाद् (ii) …………… भ्रमणाय गच्छामि ।
भानुप्रिया – अहम् (iii) ……………. त्वया सह गन्तुम् इच्छामि ।।
उत्तराणि:
(i) कुत्र
(ii) बहिः
(iii) अपि

(9) बहिः, एव, अपि, कुत्र, यत्र, तत्र, किमर्थम् ।
माता – वत्स! एष: कोलाहल: (i) ………… भवति ।
पुत्रः – मातः! (ii) ………….. एकः अहितुण्डकः आयातः ।
माता – एते अहितुण्डका: सर्पान् (iii) …………. प्रदर्शयन्ति ।
उत्तराणि:
माता – वत्स ! एष: कोलाहल: कुत्र भवति ।
पुत्रः – माता:! बहिर् एकः अहितुण्डकः आयातः ।
माता – एते अहितुण्डका: सर्पान् किमर्थं प्रदर्शयन्ति ?

(10) ननु, नूनम्, एव, श्वः, अपि, खलु, तत्र
शिक्षकः – छात्रा:! (i) :::::::::::::: विद्यालये वृक्षारोपणं भविष्यति ।
मोहनः — अहं गृहाद् (ii) ::::::::::::::: एक पादपम् आनेष्यामि ।
शिक्षकः – निर्मले! त्वम् (iii) ::::::::::::::: पादपम् आनेष्यति ।
उत्तराणि:
शिक्षकः-छात्रा:! श्वः विद्यालये वृक्षारोपणं भविष्यति ।
मोहन: – अहं गृहाद् एव एक पादपम् आनेष्यामि ।
शिक्षकः – निर्मले ! त्वम् अपि पादपम् आनेष्यति ।

(11) शनैः शनैः, इतस्ततः, तथा, यदा, यदि, अत्र, अपि ।
अपूर्वः – (i)……. एक विशालम् उपवनम् अस्ति ।
प्रत्यूषः – पश्य, वृक्षेषु वानराः (ii)…… कूर्दन्ति ।
अपूर्वः – तत्र तु मयूरा: (iii) …………… नृत्यन्ति
उत्तराणि:
अपूर्वः – अत्र एक विशालम् उपवनम् अस्ति ।
प्रत्यूषः – पश्य, वृक्षेषु वानराः इतस्तत: कूर्दन्ति ।
प्रत्यूषः – तत्र तु मयूरा: अपि नृत्यन्ति ।

(12) यथा, अलम्, इदानीम्, इतः
शिक्षकः – सचिन ! (i) ………….. आगच्छ ।
सचिन – आगतः श्रीमन् (ii) ………….. किं करणीयम् । भ्रमणाय गच्छामि ।
शिक्षकः – (iii) …………… भ्रमणेन, पाठं स्मर ।।
उत्तराणि:
शिक्षकः – सचिन ! इतः आगच्छ ।
सचिन – आगतः श्रीमन् ! इदानीं किं करणीयम् । भ्रमणाय गच्छामि ।
शिक्षक – अलं भ्रमणेन पाठं स्मर ।

(13) उच्चैः, अधुना, अद्य, ह्य:, बहिः, श्वः, तदा ।
(क) विद्यालये …………… वार्षिकोत्सवः अस्ति ।
(ख) छात्रा: विद्यालयात् ……………. प्रवेशद्वारे अतिथीनां स्वागतं करिष्यन्ति ।
(ग) केचन ………….. जयघोषं करिष्यन्ति ।
उत्तराणि:
(क) विद्यालये अद्य वार्षिकोत्सवः अस्ति ।
(ख) छात्रा: विद्यालयात् बहिः प्रवेशद्वारे अतिथीनां स्वागतं करिष्यन्ति ।
(ग) केचन उच्चैः जयघोषं करिष्यन्ति ।

(14) ह्य:, मा, यत्र, विना, श्वः, अपि, एव।
(क) बालाः …………… क्रीडन्ति, तत्र जनाः अपि भ्रमन्ति ।
(ख) परिश्रमं …………….. कुत्र साफल्यम् ?
(ग) भवन्तः ………….. किमर्थं गमिष्यन्ति ?
उत्तराणि:
(क) बाला: यत्र क्रीडन्ति, तत्र जन: अपि भ्रमन्ति ।
(ख) परिश्रमं विना कुत्र साफल्यम् ?
(ग) भवन्त: श्वः किमर्थं गमिष्यन्ति ?

(2) अधोलिखितम् अनुच्छेदम् अव्ययपदैः पूरयित्वा वाक्यानि पुनः लिखत । अव्ययपदानि स्थूलांकितानि कुरुत| (निम्नलिखित अनुच्छेद को अव्यय शब्दों से पूरा करके वाक्यों को पुनः लिखिए । अव्यय पदों को स्थूलांकित कीजिए-)

(15) पुनः, इति, अपि, विना, ह्य:, इतस्ततः, उच्चैः।

(i) …………….. वयं जन्तुशालां द्रष्टुं काननवनम् अगच्छाम । सर्वे पशव: (ii) ………….. भ्रमन्ति स्म । सिंहा: (iii) ………….. गर्जन्ति स्म।
उत्तराणि:
ह्यः वयं जन्तुशाला द्रष्टुं काननवनम् अगच्छाम । सर्वे पशव: इतस्ततः भ्रमन्ति स्म । सिंहा: उच्चैः गर्जन्ति स्म ।।

(16) विना, पुनः, एव, तत्र-तंत्र, इति, शनै:, अतः वस्तुत: मयूरं (i) …………….. कुत्र जन्तुशालाया: शोभा । तत्र आम्रवृक्षाः आसन् (ii) …………… कोकिला: अपि आसन् । यत्र-यत्र आम्रवृक्षा: (iii) …………………… कोकिला: तु भविष्यन्ति एव ।
उत्तराणि:
वस्तुत: मयूरं विना कुत्र जन्तुशालाया: शोभा । तत्र आम्रवृक्षाः आसन् अतः कोकिलाः अपि आसन् । यत्र-यत्र आम्रवृक्षाः तत्र-तत्र कोकिला: तु भविष्यन्ति एव ।

(17) अधुना, सदैव, वृथा, एव, यत्र-यत्र, इव, नूनम् ।
ते जना: (i) ………….. धन्याः , ये कदापि निरुत्साहिताः न भवन्ति । ते सदैव धन्याः , ये (ii) …………… न वदन्ति । ते (iii) ……….. गच्छन्ति, तत्र-तत्र सफलाः भवन्ति ।
उत्तराणि:
ते जनाः नूनं धन्याः, ये कदापि निरुत्साहिताः न भवन्ति । ते सदैव धन्याः, ये वृथा न वदन्ति । ते यत्र-यत्र गच्छन्ति, तत्र-तत्र सफलाः भवन्ति ।

(18) सह, उच्चैः, बहिः, इतस्ततः, अपि, एव, शीघ्रम् ।
नगरात् (i) …………. एक वनम् अस्ति । तत्र दिने (ii) ………….. अन्धकारः भवति । जना: प्रायः कुक्कुरैः (iii) ………….. एव तत्र प्रविशन्ति ।
उत्तराणि:
नगरात् बहिर् एकं वनम् अस्ति । तत्र दिने अपि अन्धकारः भवति । जनाः प्राय: कुक्कुरैः सह एव तत्र प्रविशन्ति ।

(19) इतस्ततः, तत्र, परम्, विना, तु, ह्यः सदैव ।
(i) …………….. वयं बुद्धोद्याने भ्रमितुम् अगच्छाम । जनाः तत्र (ii) ………. भ्रमन्ति स्म । (iii) ……………… छात्राः पुस्तकानि अपठन् ।
उत्तराणि:
ह्यः वयं बुद्धोद्याने भ्रमितुम् अगच्छाम । जनाः तत्र इतस्ततः भ्रमन्ति स्म । तत्र छात्रा: पुस्तकानि अपठन् ।

(20) मा, इतस्ततः, उपरि, अधः, अद्य, विना, सर्वत्र ।
(i) …………… वने पशु महोत्सवः अस्ति । मञ्चस्य (ii) …………. वनराजः सिंह: तिष्ठति । आकाशे (iii) …………… मेघाः सन्ति ।
उत्तराणि:
अद्य वने पशु महोत्सवः अस्ति । मञ्चस्य उपरि वनराज: सिंह: तिष्ठति । आकाशे सर्वत्र मेघाः सन्ति ।

(21) सहसा, उच्चै, एव, पुरा ।
(i) ………….. गायति स: गायकः ।
(ii) सदा सत्यम् …………. विजयति ।
(iii) …………….. संस्कृतं जनभाषा आसीत् ।
उत्तराणि:
(i) उच्चै ।
(ii) एव ।
(iii) पुरा ।

(22) बहिः, अपि, यथा, कुत्र ।
(i) सः क्रीडति अहम् ………. क्रीडामि ।
(ii) भवती ………….. पठति ।
(iii) …………… गुरुः तथा शिष्यः ।
उत्तराणि:
(i) अपि ।
(ii) कुत्र ।
(iii) यथा ।

(23) एव, सहसा, वृथा, बिना ।
(i) ………….. विदधीत न क्रियाम् ।
(ii) क्रियां …………. नरः अकर्मण्यः भवति ।
(iii) कर्मणा ……………. नर: पूज्यते ।
उत्तराणि:
(i) सहसा ।
(ii) बिना ।
(iii) एव ।