RajBoardExam
संस्कृत (Sanskrit)हिंदी माध्यम2026-27

RBSE Class 10 Sanskrit Chapter 3 Solutions in Hindi — शिशुलालनम् | शेमुषी भाग-2 हल, अनुवाद

📅 अंतिम अपडेट: 2026-09-10📖 RBSE/NCERT Solutions
भाग 1 — समाधान (Textbook Solutions)

📖 1. समाधान: पाठ्यपुस्तकस्य प्रश्नोत्तराणि (अभ्यासः हल)

राजस्थान बोर्ड कक्षा 10 संस्कृत (शेमुषी भाग-2) — पाठ्यपुस्तक के सभी अभ्यास प्रश्नों के प्रामाणिक एवं विस्तृत उत्तर।

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) कुशलवौ कम् उपसृत्य प्रणमतः?

--- [ पृष्ठ संख्या: 45 ] ---

--- | ---

(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?

(ग) वयोऽनुरोधात् कः लालनीयः भवति?

(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः? | (माध्य. शिक्षा बोर्ड, 2023)

(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?

उत्तराणि— (क) रामम्। (ख) देवी। (ग) शिशुजनः।

(घ) उपनयनोपदेशेन।

(ङ) तपोवने।

प्रश्न 2. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषया लिखत-

(अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

(क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?

(राम के लिए कुश और लव का गले मिलने का स्पर्श कैसा था?)

उत्तरम्— रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।

(राम के लिए कुश और लव का गले मिलने का स्पर्श हृदयग्राही था।)

(ख) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति?

(राम लव और कुश को कहाँ बैठने के लिए कहते हैं?)

उत्तरम्— रामः लवकुशौ स्वस्य सिंहासने उपवेशयितुम् कथयति।

(राम लव और कुश को अपने सिंहासन पर बैठने के लिए कहते हैं।)

(ग) बालभावात् हिमकरः कुत्र विराजते?

(बाल भाव के कारण चन्द्रमा कहाँ विराजमान होता है?)

उत्तरम्— बालभावात् हिमकरः भगवतः शिवस्य मस्तके विराजते।

(बाल भाव के कारण चन्द्रमा भगवान् शिव के मस्तक पर विराजमान है।)

(घ) कुशलवयोः वंशस्य कर्त्ता कः?

(कुश और लव के वंश के कर्त्ता कौन हैं?)

उत्तरम्— कुशलवयोः वंशस्य कर्त्ता भगवान् सूर्यः वर्तते।

(कुश और लव के वंश के कर्त्ता भगवान् सूर्य हैं।)

(ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?

(कुश और लव की माता को वाल्मीकि किस नाम से बुलाते थे?)

उत्तरम्— कुशलवयोः मातरं वाल्मीकिः वधूरिति नाम्ना आह्वयति।

(कुश और लव की माता को वाल्मीकि 'वधू' इस नाम से बुलाते थे।)

प्रश्न 3. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत-

विभक्तिः

तत्कारणम्

यथा-राजन्! अलम् अतिदाक्षिण्येन।

तृतीया

'अलम्' योगे

(क) रामः लवकुशौ आसनार्थम् उपवेशयति।

...............

...............

(ख) धिङ् माम् एवं भूतम्।

...............

...............

(ग) अङ्कव्यवहितम् अध्यास्यतां सिंहासनम्।

...............

...............

(घ) अलम् अतिविस्तरेण।

...............

...............

(ङ) रामम् उपसृत्य प्रणम्य च।

...............

...............

उत्तरम्-

पदम्

विभक्तिः

तत्कारणम्

(क) आसनार्थम्

द्वितीया

'उपवेशयति' योगे

(ख) माम्

द्वितीया

'धिङ्' योगे

(ग) सिंहासनम्

द्वितीया

'अध्यास्यताम्' योगे

(घ) अतिविस्तरेण

तृतीया

'अलम्' योगे

(ङ) रामम्

द्वितीया

'उपसृत्य' योगे

--- [ पृष्ठ संख्या: 46 ] ---

प्रश्न 4. यथानिर्देशम् उत्तरत-

(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तरम्— अहम्।

(ख) 'किं कुपिता एवं भणति उत प्रकृतिस्था'-अस्मात् वाक्यात् 'हर्षिता' इति पदस्य विपरीतार्थकपदं चित्वा लिखत।

उत्तरम्— कुपिता।

(ग) विदूषकः (उपसृत्य) 'आज्ञापयतु भवान्!' अत्र भवान् इति पदं कस्मै प्रयुक्तम्?

उत्तरम्— रामाय।

(घ) 'तस्मादङ्क-व्यवहितम् अध्यास्यताम् सिंहासनम्'-अत्र क्रियापदं किम्?

उत्तरम्— अध्यास्यताम्।

(ङ) 'वयसस्तु न किञ्चिदन्तरम्'-अत्र 'आयुषः' इत्यर्थे किं पदं प्रयुक्तम्?

उत्तरम्— वयसः।

प्रश्न 5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति-

कः

कम्

....................

....................

....................

....................

....................

....................

....................

....................

....................

....................

उत्तरम्-वाक्यानि

वाक्यानि

कः

कम्

(क) सव्यवधानं न चारित्र्यलोपाय।

रामः

लवकुशौ

(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था?

विदूषकः

कुशम्

(ग) जानाम्यहं तस्य नामधेयम्।

कुशः

रामम्

(घ) तस्या द्वे नाम्नी।

लवः

विदूषकम्

(ङ) वयस! अपूर्वं खलु नामधेयम्।

रामः

विदूषकम्

प्रश्न 6. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत-

[मञ्जूषा (Box containing synonyms)]

कक्षा 10 संस्कृत पाठ 3 शिशुलालनम् चित्र 1

शिवः

शिष्टाचारः

शशः

चन्द्रशेखरः

सुतः

इदानीम्

अधुना

पुत्रः

सूर्यः

सदाचारः

निशाकरः

भानुः

(क) हिमकरः - .................... ....................

(ख) सम्प्रति - .................... ....................

(ग) समुदाचारः - .................... ....................

(घ) पशुपतिः - .................... ....................

(ङ) तनयः - .................... ....................

(च) सहस्रदीधितिः - .................... ....................

उत्तरम्-

(क) हिमकरः - शशः, निशाकरः।

(ख) सम्प्रति - इदानीम्, अधुना।

(ग) समुदाचारः - शिष्टाचारः, सदाचारः।

(घ) पशुपतिः - चन्द्रशेखरः, शिवः।

(ङ) तनयः - सुतः, पुत्रः।

(च) सहस्रदीधितिः - सूर्यः, भानुः।

(अ) विशेषण-विशेष्यपदानि योजयत-

यथा- विशेषण पदानि | विशेष्य पदानि

श्लाघ्या | कथा

--- [ पृष्ठ संख्या: 47 ] ---

(1) उदात्तरम्यः - (क) समुदाचारः

(2) अतिदीर्घः - (ख) स्पर्शः

(3) समरूपः - (ग) कुशलवयोः

(4) हृदयग्राही - (घ) प्रवासः

(5) कुमारयोः - (ङ) कुटुम्बवृत्तान्तः

उत्तरम्—विशेषण पदानि — विशेष्य पदानि

(1) उदात्तरम्यः - (क) समुदाचारः

(2) अतिदीर्घः - (घ) प्रवासः

(3) समरूपः - (ङ) कुटुम्बवृत्तान्तः

(4) हृदयग्राही - (ख) स्पर्शः

(5) कुमारयोः - (ग) कुशलवयोः

प्रश्न 7. (क) अधोलिखितपदेषु सन्धिं कुरुत—

(क) द्वयोः + अपि - ....................

(ख) द्वौ + अपि - ....................

(ग) कः + अत्र - ....................

(घ) अनभिज्ञः + अहम् - ....................

(ङ) इति + आत्मानम् - ....................

उत्तरम्—

(क) द्वयोः + अपि - द्वयोरपि

(ख) द्वौ + अपि - द्वावपि

(ग) कः + अत्र - कोऽत्र

(घ) अनभिज्ञः + अहम् - अनभिज्ञोऽहम्

(ङ) इति + आत्मानम् - इत्यात्मानम्

(ख) अधोलिखितपदेषु विच्छेदं कुरुत—

(क) अहमप्येतयोः - ....................

(ख) वयोऽनुरोधात् - ....................

(ग) समानाभिजनौ - ....................

(घ) खल्वेतत् - ....................

उत्तरम्—

(क) अहमप्येतयोः - अहम् + अपि + एतयोः

(ख) वयोऽनुरोधात् - वयः + अनुरोधात्

(ग) समानाभिजनौ - समान + अभिजनौ

(घ) खल्वेतत् - खलु + एतत्

भाग 2 — हिन्दी अनुवाद एवं पाठ-सार (Hindi Anuvaad & Notes)

📝 2. हिन्दी-अनुवादः: अन्वय, शब्दार्थ व सप्रसंग सरलार्थ

प्रत्येक श्लोक एवं गद्यांश का संस्कृत अन्वय, कठिन शब्दार्थ, सप्रसंग हिन्दी अनुवाद एवं व्याकरण/भाषिक कार्यम्।

– कुन्दमाला

पाठ परिचय- प्रस्तुत पाठ संस्कृत के प्रसिद्ध नाटक ‘कुन्दमाला’ के पंचम अङ्क से सम्पादित करके लिया गया है। इसके रचयिता प्रसिद्ध नाटककार दिङ्नाग हैं। इस नाट्यांश में राम अपने दोनों पुत्रों कुश और लव को सिंहासन पर बैठाना चाहते हैं किन्तु वे दोनों अतिशालीनापूर्वक मना करते हैं। सिंहासनारूढ़ राम उन दोनों के सौन्दर्य से आकृष्ट होकर उन्हें अपनी गोद में बैठा लेते हैं। इस पाठ में शिशु स्नेह का अत्यन्त मनोहारी वर्णन किया गया है।

नाट्यांशों का अन्वय, कठिन शब्दार्थ, हिन्दी-अनुवाद एवं पठितावबोधनम्-

( 1 )

( सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलावौ।)

विदूषकः- इत इत आर्याः!

कुशलावौ-( रामस्य समीपम् उपसृत्य प्रणम्य च ) अपि कुशलं महाराजस्य?

रामः-युष्मद्दर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। ( परिष्वज्य ) अहो हृदयग्राही स्पर्शः।

( आसनार्धमुपवेशयति )

उभौ-राहासनं खल्वेतत्, न युक्तमध्यासितुम्।

रामः-सव्यवधानं न चरित्रलोपाय। तस्मादङ्कव्यवहितमध्यस्यतां सिंहासनम्।

( अङ्कमुपवेशयति )

कठिन शब्दार्थ- सिंहासनस्थः = सिंहासन पर बैठे हुए (राज्यासने स्थितः)। उपदिष्यमानः = बतलाये गए (निर्देश्यमानः)। उपसृत्य = पास जाकर (समीपं गत्वा)। प्रणम्य = प्रणाम करके (प्रणामं कृत्वा)। युष्मद्दर्शनात् = तुमको देखने से (युवयोः अवलोकनात्)। भवतोः = आप दोनों की (युवयोः)। भाजनम् = पात्र (पात्रम्)। कण्ठाश्लेषस्य = गले लगाने का (कण्ठे आश्लेषस्य)। परिष्वज्य = आलिंगन करके (आलिङ्गनं कृत्वा)। अध्यासितुम् = बैठने के लिए (उपवेष्टुम्)। सव्यवधानम् = रुकावट सहित (व्यवधानेन सहितम्)। अध्यास्यताम् = बैठिये (उपविश्यताम्)। अङ्कम् = गोद में (क्रोडे)। उपवेशयति = बैठाता है (आसयति)।

हिन्दी अनुवाद-(राम सिंहासन पर बैठे हुए हैं। इसके बाद विदूषक द्वारा बतलाये गए मार्ग से दो तपस्वी बालक कुश और लव प्रवेश करते हैं।)

विदूषक–हे आर्य! इधर, इधर (आइए)।

कुश और लव-(राम के पास जाकर और प्रणाम करके) क्या महाराज कुशलपूर्वक हैं?

राम–तुमको देखने से कुशल जैसा ही हूँ। क्या आप दोनों के द्वारा मैं कुशलता पूछने का ही पात्र हूँ, अतिथिजन के योग्य गले लगाने का नहीं? (आलिंगन करके) अहो! इनका स्पर्श तो हृदय को छूने वाले है।

(आधे आसन पर बैठाते हैं।)

दोनों–यह तो राजा का आसन है, इस पर बैठना उचित नहीं है।

राम–रुकावट सहित यहाँ बैठना चरित्र को नष्ट नहीं करता है। इसलिए गोद की रुकावट से युक्त सिंहासन पर बैठिये।

(गोद में बैठाते हैं।)

पठितावबोधनकार्यम्-

निर्देशः–उपर्युक्तनाट्यांशं पठित्वा एतदाधारितप्रश्नानामुत्तराणि यथानिर्देशं लिखत-

प्रश्नाः-( क ) एकपदेन उत्तरं लिखत। [ माध्य. शिक्षा बोर्ड, 2024 (सं.)]

कुशलावौ कस्य कुशलं पृच्छतः?

--- [ पृष्ठ संख्या: 38 ] ---

( ख ) पूर्णवाक्येन उत्तरं लिखत।

रामाय कयोः स्पर्शः हृदयग्राही आसीत्?

( ग ) यथानिर्देशम् उत्तरं लिखत।

(i) ‘पात्रम्’ इति पदस्य नाट्यांशे पर्यायपदं किम्?

(ii) ‘‘अध्यास्यतां सिंहासनम्’’ इत्यत्र क्रियापदं किम्?

उत्तराणि—

(क) महाराजस्य (रामस्य)।

(ख) रामाय कुशलवयोः स्पर्शः हृदयग्राही आसीत्।

(ग) (i) भाजनम्। (ii) अध्यास्यताम्।

अथवा

प्रश्नाः—

(क) एकपदेन उत्तरत—

सिंहासनस्थः कः?

(ख) पूर्णवाक्येन उत्तरत—

कुशलवौ किं कृत्वा रामस्य कुशलं पृच्छतः?

(ग) निर्देशानुसारम् उत्तरत—

(i) ‘युष्मद्दर्शनात्....।’ अत्र ‘युष्मत्’ सर्वनामपदं काभ्यां प्रयुक्तम्?

(ii) ‘कुशलवौ’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तराणि—

(क) रामः।

(ख) कुशलवौ रामस्य समीपम् उपसृत्य प्रणम्य च कुशलं पृच्छतः।

(ग) (i) कुशलवाभ्याम्। (ii) प्रविशतः।

( 2 )

उभौ—(अनिच्छं नाटयतः) राजन्!

अलमतिदाक्षिण्येन।

रामः—अलमतिशालीनतया।

भवति शिशुजनो वयोऽनुरोधाद्

गुणमहतामपि लालनीय एव।

व्रजति हिमकरोऽपि बालभावात्

पशुपति-मस्तक-केतकच्छदत्वम्॥

रामः—एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्त्ता?

लवः—भगवन् सहस्रदीधितिः। [ माध्य. शिक्षा बोर्ड, 2022 (सं.) ]

श्लोक का अन्वयः —गुणमहताम् अपि वयोऽनुरोधात् शिशुजनः लालनीयः एव भवति। बालभावात् हि हिमकरः अपि पशुपति-मस्तक-केतकच्छदत्वम् व्रजति।

शब्दार्थाः

शब्द

अर्थ

नाटयतः

अभिनय करते हैं (अभिनयं कुरुतः)।

अलमतिदाक्षिण्येन

अधिक दक्षता/दयालुता नहीं करें (अत्यधिकं कौशलं मा कुरु)।

वयोऽनुरोधात्

आयु के कारण (आयुसः कारणात्)।

लालनीयः

लालन/स्नेह के योग्य (स्नेहयोग्यः)।

हिमकरः

चन्द्रमा (चन्द्रः)।

पशुपतिः

भगवान् शिव (शिवः)।

केतकच्छदत्वम्

केतकी (केवड़े) के पुष्प से बना मस्तक का शेखर (जूड़ा) (केतकपुष्पनिर्मितस्य शिरोभूषणताम्)।

व्रजति

बन जाता है (प्राप्नोति)।

सौन्दर्यावलोकजनितेन

सौन्दर्य देखने से उत्पन्न (सौन्दर्यदर्शनजन्येन)।

पितामहः

ब्रह्मा, ब्राह्मण (ब्रह्मा)।

सहस्रदीधितिः

सूर्य (सूर्यः)।

हिन्दी अनुवाद—

दोनों—(सिंहासन पर बैठने की अनिच्छा का अभिनय करते हैं) हे राजन्! अधिक दक्षता (दयालुता) नहीं करें।

राम—आप दोनों अधिक शालीनता नहीं दिखावें।

अत्यधिक गुणी लोगों के लिए भी छोटी उम्र के कारण बालक लालनीय (स्नेह के योग्य) ही होता है। चन्द्रमा बालभाव के कारण ही शङ्कर के मस्तक का आभूषण बनकर केतकी पुष्पों से निर्मित जूड़ा की भाँति शोभित होता है।

--- [ पृष्ठ संख्या: 39 ] ---

राम—आप दोनों के सौन्दर्य को देखने से उत्पन्न कौतूहल के कारण मैं यह पूछना चाहता हूँ कि-क्षत्रिय कुल और ब्राह्मण कुल अथवा चन्द्रमा और सूर्य में से कौन आपके वंश का कर्त्ता है?

लव—हजार किरणों वाले भगवान् सूर्य।

पठितावबोधनकार्यम्—

प्रश्नाः—

(क) एकपदेन उत्तरत—

कः पशुपति-मस्तक-केतकच्छदत्वं व्रजति?

(ख) पूर्णवाक्येन उत्तरत—

गुणमहतामपि कस्मात् शिशुजनः लालनीयः एव भवति?

(ग) निर्देशानुसारम् उत्तरत—

(i) 'को वा भवतोर्वंशस्यकर्त्ता' अत्र 'भवतोः' सर्वनामपदस्थाने संज्ञापदं किम्?

(ii) 'व्रजति' इति क्रियापदस्य कर्तृपदं किम्?

उत्तराणि—

(क) हिमकरः।

(ख) गुणमहतामपि वयोऽनुरोधात् शिशुजनः लालनीयः एव भवति।

(ग) (i) कुशलवयोः। (ii) हिमकरः।

( 3 )

रामः—कथमस्मत्समानाभिजनों संवृत्तौ?

विदूषकः—किं द्वयोरप्येकमेव प्रतिवचनम्?

लवः—भ्रात्रावावां सोदयौ। (माध्य. शिक्षा बोर्ड, 2022)

रामः—समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।

लवः—आवां यमलौ।

रामः—सम्प्रति युज्यते। किं नामधेयम्?

लवः—आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम्।

कुशः—अहमपि कुश इत्यात्मानं श्रावयामि।

रामः—अहो! उदात्तरम्यः समुदाचारः।

किं नामधेयो भवतोर्गुरुः?

अथवा

रामः—एष भवतोः सौन्दर्या................................भवतोर्वंशस्य कर्त्ता?

लवः—भगवान् सहस्रदीधितिः................................किं नामधेयम्?

(माध्य. शिक्षा बोर्ड, 2025)

कठिन शब्दार्थाः—

शब्दः

अर्थः

समानाभिजनों

एक कुल में पैदा होने वाले (समानकुलोत्पन्नौ)

संवृत्तौ

हो गये (संजातौ)

प्रतिवचनम्

उत्तर (प्रत्युत्तरम्)

सोदयौ

सहोदर/सगे भाई (सहोदरौ)

शरीरसन्निवेशः

शरीर की बनावट (अंगरचनाविन्यासः)

वयसः

आयु से (आयुसः)

यमलौ

जुड़वाँ (यमजौ)

सम्प्रति

अब, इस समय (अधुना)

युज्यते

ठीक लगता है (समुचितम्)

श्रावयामि

सुनाता हूँ (कथयामि)

उदात्तरम्यः

अत्यधिक मनोहर (अत्यन्तरमणीयः)

समुदाचारः

शिष्टाचार (शिष्टाचारः)

हिन्दी अनुवाद—

राम—क्या (आप) हमारे समान एक कुल में ही पैदा होने वाले हैं?

विदूषक—क्या आप दोनों का एक ही उत्तर है?

लव—हम दोनों सगे भाई हैं।

राम—शरीर की बनावट समान रूप से है। आयु से तो कुछ भी अन्तर नहीं है।

लव—हम दोनों जुड़वाँ भाई हैं।

राम—अब ठीक लगता है। आपका क्या नाम है?

लव—आर्य की वन्दना में मेरा नाम लव बतलाता हूँ। (कुश की ओर निर्देश करके) यह आर्य भी गुरुचरणों की वन्दना में................।

--- [ पृष्ठ संख्या: 40 ] ---

कुश-मैं भी अपना नाम कुश निवेदन करता हूँ।

राम-अहो! शिष्टाचार अत्यधिक मनोहर है। आपके गुरु का क्या नाम है?

पठितावबोधनकार्यम्- (माध्य. शिक्षा बोर्ड, 2025)

प्रश्नाः-

(क) एकपदेन उत्तरत-

"कथमस्मत्समानाभिज्नौ संवृत्तौ?'' इति कः पृच्छति?

(ख) पूर्णवाक्येन उत्तरत-

कुशलवयोः वंशस्य कर्त्ता कः?

(ग) भाषिककार्यम्-

(i) "आवां यमलौ।" वाक्येऽस्मिन् सर्वनामपदं किम्?

(ii) "भगवान् सहस्रदीधितिः।" इत्यत्र विशेषणपदं किम्?

उत्तराणि-

(क) रामः।

(ख) कुशलवयोः वंशस्य कर्त्ता भगवान् सहस्रदीधितिः (सूर्यः)।

(ग) (i) आवाम्। (ii) भगवान्।

अथवा

[ प्रश्न बैंक (सं.) ]

प्रश्नाः-

(क) एकपदेन उत्तरत-

लवकुशयोः शरीरसन्निवेशः कीदृशः आसीत्?

(ख) पूर्णवाक्येन उत्तरत-

कयोः एकमेव प्रतिवचनम् आसीत्? तयोः समुदाचारः च कीदृशः आसीत्?

(ग) निर्देशानुसारम् उत्तरत-

(i) 'कथमस्मत्समानाभिज्नौ..' इत्यत्र 'अस्मत्' सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) 'समुदाचारः' इत्यस्य विशेषणपदं नाट्यांशात् चित्वा लिखत।

उत्तराणि-

(क) समरूपः।

(ख) लवकुशयोः एकमेव प्रतिवचनम् आसीत्। तयोः समुदाचारः च उदात्तरम्यः आसीत्।

(ग) (i) रामाय। (ii) उदात्तरम्यः।

( 4 )

लवः-ननु भगवान् वाल्मीकिः।

रामः-केन सम्बन्धेन?

लवः-उपनयनोपदेशेन।

रामः-अहमत्रभवतः जनकं नामतो वेदितुमिच्छामि।

लवः-न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः-अहो माहात्म्यम्।

कुशः-जानाम्यहं तस्य नामधेयम्। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22)

रामः-कथ्यताम्।

कुशः-निरनुक्रोशो नाम...

रामः-वयस्य, अपूर्वं खलु नामधेयम्।

विदूषकः-(विचिन्त्य) एवं तावत् पृच्छामि निरनुक्रोश इति क एवं भणति?

कुशः-अम्बा।

विदूषकः-किं कुपिता एवं भणति, उत प्रकृतिस्था?

कुशः-यद्यावयोर्बालभावजनितं कञ्चिद्विनयं पश्यति तदा एवम् अधिक्षिपतिनिरनुक्रोशस्य पुत्रौ, मा चापलम् इति। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2022-23)

अथवा

कुशः-अहमपि कुश इत्यात्मानं..................................ज्ञानाभ्यस्य नामधेयम्। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2024-25)

--- [ पृष्ठ संख्या: 41 ] ---

कठिन शब्दार्थाः

शब्दः

अर्थः

उपनयनोपदेशेन

उपनयन संस्कार की दीक्षा के कारण (यज्ञोपवीतसंस्कारेण)।

जनकम्

पिता का (पितरम्)।

वेदितुम्

जानने के लिए (ज्ञातुम्)।

नामधेयम्

नाम।

निरनुक्रोशः

निर्दयी, दया रहित (निर्दयः)।

वयस्य

मित्र (मित्रम्)।

भणति

कहता है (कथयति)।

अम्बा

माता।

कुपिता

क्रोधित (क्रुद्धा)।

उत

अथवा।

प्रकृतिस्था

स्वाभाविक रूप से (स्वाभाविकरूपेण)।

अधिक्षिपति

फटकारती है (आक्षेपं करोति)।

मा चापलम्

चंचलता मत करो (अलं चापल्येन)।

हिन्दी अनुवादः

लव-भगवान् वाल्मीकि (हमारे गुरु का नाम है)।

राम-किस सम्बन्ध से?

लव-उपनयन संस्कार की दीक्षा के कारण।

राम-मैं आपके पिता का नाम जानना चाहता हूँ।

लव-मैं उनका नाम नहीं जानता हूँ। कोई भी इस तपोवन में उनके नाम का व्यवहार नहीं करता है अर्थात् उनका नाम नहीं लेता है।

राम-आश्चर्यपूर्ण महिमा है।

कुश-मैं उनका नाम जानता हूँ।

राम-कहिये।

कुश-निर्दयी नाम है।

राम-मित्र, यह तो अनोखा नाम है।

विदूषक-(सोचकर) इस प्रकार पूछता हूँ-'निर्दयी' ऐसा कौन कहता है?

कुश-माता।

विदूषक-क्या क्रोधित होकर इस प्रकार कहती है अथवा स्वाभाविक रूप से?

कुश-यदि हम दोनों में बालस्वभाववश कोई अविनम्रता देखती है तब इस प्रकार से फटकारती है-निर्दयी के पुत्रो, चंचलता मत करो।

पठितावबोधनकार्यम्-

प्रश्नाः-

(क) एकपदेन उत्तरं लिखत-

कीदृशः समुदाचारः आसीत्?

(ख) पूर्णवाक्येन उत्तरं लिखत-

रामः किं नामतो वेदितुमिच्छति?

(ग) यथानिर्देशम् उत्तरं लिखत-

(i) नामतो वेदितुमिच्छामि। इत्यत्र क्रियापदं लिखत।

(ii) उदात्तरम्यः समुदाचारः। इत्यत्र विशेष्यपदं किम्?

उत्तराणि-

(क) उदात्तरम्यः।

(ख) रामः लवस्य जनकं नामतो वेदितुमिच्छति।

(ग) (i) इच्छामि। (ii) समुदाचारः।

अथवा

प्रश्नाः-

(क) एकपदेन उत्तरत-

जनकं नामतो वेदितुमिच्छामि इति कः वदति?

(ख) पूर्णवाक्येन उत्तरत-

"अहो माहात्म्यम्" इति श्रुत्वा कुशः किं वदति?

(ग) भाषिककार्यम्-

(i) "भवतोः जनकं नामतो वेदितुमिच्छामि।" वाक्येऽस्मिन् सर्वनामपदं किम्?

(ii) "अस्मिन् तपोवने तस्य नाम व्यवहरति।" इत्यत्र विशेष्यपदं किम्?

उत्तराणि-

(क) राजा (रामः)।

--- [ पृष्ठ संख्या: 42 ] ---

(ख) ‘‘अहो माहात्म्यम्’’ इति श्रुत्वा कुशः ‘‘जानाम्यहं तस्य नामधेयम्’’ इति वदति।

(ग) (i) भवतः। (ii) तपोवने।

अथवा

प्रश्नाः-(क) एकपदेन उत्तरत-

कुशलवयोः गुरोः किन्नाम?

(ख) पूर्णवाक्येन उत्तरत-

कुशः स्वस्य पितुः किन्नाम कथयति?

(ग) निर्देशानुसारम् उत्तरत-

(i) ‘जानाम्यहं तस्य नामधेयम्’- अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) ‘न कश्चिदस्मिन् तपोवने तस्य नाम’ इत्यत्र ‘अस्मिन्’ विशेषणपदस्य विशेष्यपदं किम्?

उत्तराणि-(क) वाल्मीकिः।

(ख) कुशः स्वस्य पितुः नाम ‘निरनुक्रोशः’ इति कथयति।

(ग) (i) कुशाय। (ii) तपोवने।

(5)

विदूषकः-एतयोर्यदि पितुर्निर्नुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारकौ निर्भर्त्सयति।

रामः-(स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युगर्भैरक्षरैर्निर्भर्त्सयति।

(सवाष्पमवलोकयति)

रामः-अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषक मवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोर्नामतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?

कठिन शब्दार्थाः

शब्दः

अर्थः

अवमानिता

अपमानित हुई (तिरस्कृता)

निर्वासिता

निकाली गई (निष्काषिता)

दारकौ

दोनों पुत्र (पुत्रौ)

निर्भर्त्सयति

धमकाती है (तर्जयति)

धिङ्

धिक्कार है

एवंभूतम्

इस प्रकार का (एतादृशम्)

मत्कृतेन

मेरे द्वारा किये हुए से (मया घटितेन)

स्वापत्यम्

अपने पुत्र को, अपनी सन्तान को (स्वसन्ततिम्)

मन्युगर्भैः

क्रोध से परिपूर्ण (क्रोधपूर्णैः)

प्रवासः

वियोगः

दारुणः

कठोरः

अवलोक्य

देखकर (दृष्ट्वा)

जनान्तिकम्

एक ओर (एकतः)

कुतूहलेनाविष्टः

कौतूहल से युक्त (कौतूहलेनसहितः)

अभ्युपायः

उचित उपाय (उपायः)

हिन्दी अनुवाद-

विदूषक-यदि इन दोनों के पिता का नाम ‘निर्दयी’ ऐसा है तो इन दोनों की माता उनसे अपमानित हुई तथा निर्वासित होकर ही इस प्रकार के वचन (निर्दयी) से अपने पुत्रों को धमकाती है।

राम-(अपने मन में) इस प्रकार के निर्दयी मुझे धिक्कार है। वह तपस्विनी (बेचारी) मेरे किये गये अपराध से अपनी सन्तान को इस प्रकार के क्रोधपूर्ण अक्षरों से धमकाती है।

(आँसुओं के साथ देखते हैं।)

राम-यह वियोग अत्यधिक लम्बा और कठोर है। (विदूषक को देखकर एकान्त में) कौतूहलवश मैं इन दोनों की माता का नाम जानना चाहता हूँ। किन्तु स्त्रियों के बारे में जानना (खोजबीन करना) उचित नहीं है, विशेष रूप से तपोवन में। इसलिए इसका क्या उचित उपाय है?

पठितावबोधनकार्यम्-

प्रश्नाः-(क) एकपदेन उत्तरत-

कुशलवयोः मातरं नामतो वेदितुं कः इच्छति?

(ख) पूर्णवाक्येन उत्तरत-

रामस्य प्रवासः कीदृशः आसीत्?

(ग) भाषिककार्यम्-

(i) ‘धिङ् मामेवंभूतम्।’ अस्मिन् वाक्ये ‘माम्’ इति पदं कस्मै प्रयुक्तम्?

--- [ पृष्ठ संख्या: 43 ] ---

(ii) नाट्यांशे 'माता' इति पदस्य पर्यायपदं किम्?

उत्तराणि-(क) रामः।

(ख) रामस्य प्रवासः अतिदीर्घः दारुणश्च आसीत्।

(ग) (i) रामाय। (ii) जननी

(6)

विदूषकः-(जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी?

लवः-तस्याः द्वे नामनी।

विदूषकः-कथमिव?

लवः-तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति।

रामः-अपि च इतस्तावद् वयस्य!

मुहूर्त्तमात्रम्।

विदूषकः-(उपसृत्य) आज्ञापयतु भवान्।

रामः-अपि कुमारयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?

शब्दार्थाः

शब्दः

अर्थः

जनान्तिकम्

एकान्त में (एकान्ते)

प्रकाशम्

प्रकट रूप से (प्रकट रूपेण)

नाम्नाह्वयन्ति

नाम से बुलाते हैं (नाम्ना आकारयन्ति)

मुहूर्त्तमात्रम्

क्षणभर के लिए (क्षणमात्रम्)

उपसृत्य

पास जाकर (समीपं गत्वा)

आज्ञापयतु

आज्ञा दीजिए (आज्ञा देहि)

कुटुम्बवृत्तान्तः

परिवार का वृत्तान्त (परिवारस्य विवरणम्)

हिन्दी अनुवादः

विदूषक-(एकान्त में) मैं फिर से पूछता हूँ। (प्रकट रूप से) आप दोनों की माता का क्या नाम है?

लव-उनके दो नाम हैं।

विदूषक-किस प्रकार?

लव-तपोवन में रहने वाले 'देवी' इस नाम से बुलाते हैं और भगवान् वाल्मीकि 'वधू' इस नाम से।

राम-और भी, मित्र! क्षण-भर के लिए इधर आओ।

विदूषक-(पास जाकर) आप आज्ञा दीजिए।

राम-क्या इन दोनों कुमारों का और हमारा पारिवारिक वृत्तान्त सभी तरह से समान ही है?

पठितावबोधनकार्यम्-

प्रश्नाः-(क) एकपदेन उत्तरत-

सीतां वधूरिति नाम्ना कः आह्वयति?

(ख) पूर्णवाक्येन उत्तरत-

केषां सर्वथा समरूपः कुटुम्बवृत्तान्तः?

(ग) भाषिककार्यम्-

(i) 'अहं पुनः पृच्छामि।' अस्मिन् वाक्ये 'अहम्' इति सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) नाट्यांशे 'आह्वयन्ति' इति क्रियायाः कर्तृपदं किम्?

उत्तराणि-(क) भगवान् वाल्मीकिः।

(ख) लवकुशयोः रामस्य च सर्वथा समरूपः कुटुम्बवृत्तान्तः।

(ग) (i) विदूषकाय। (ii) तपोवासिनः।

(7)

(नेपथ्ये)

इयती वेला सञ्जाता रामायणगानस्य नियोगः किमर्थं न विधीयते?

उभौ- राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।

रामः- मयापि सम्माननीय एव मुनिनियोगः। तथाहि-

भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्

गिरां सन्दर्भोंऽयं प्रथममवतीर्णो वसुमतीम्।

--- [ पृष्ठ संख्या: 44 ] ---

कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,

पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥

वयस्य! अपूर्वोऽयं मानवानां सरस्वतीवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः, प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्यतयोश्चिरासनपरिलेखं विहरणं कृत्वा अपनयामि।

(इति निष्क्रान्ताः सर्वे।)

पद्य का अन्वयः-भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमं अवतीर्णः, गिराम् अयं सन्दर्भः, सरसिरुहनाभस्य च इयं श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।

कठिन शब्दार्थाः

शब्दः

अर्थः

इयती

इतना (एतावती)

वेला

समय (समयः)

नियोगः

कार्य, आदेश (आदेशः)

न विधीयते

नहीं किया जा रहा है (न क्रियते)

त्वरयति

शीघ्रता कर रहा है (शीघ्रतां करोति)

व्रतनिधिः

तपोनिधि (तपोनिधिः)

वसुमतीम्

पृथ्वी पर (भूमिम्)

अवतीर्णः

अवतरित हुआ है (अवतरितः)

गिराम्

वाणी का (वाण्याः)

सन्दर्भः

काव्य (काव्यम्)

सरसिरुहनाभस्य

कमलनाभि विष्णु (कमलनाभस्य/विष्णोः)

श्लाघ्या

प्रशंसनीय (प्रशंसनीया)

परिकरः

संयोग (संयोगः)

नियतम्

निश्चित ही (निश्चितम्)

श्रोतारम्

श्रोताओं को (श्रोतागम्)

पुनाति

पवित्र करता है (पवित्रं करोति)

रमयति

आनन्दित करता है (आनन्दयति)

सन्निधीयन्ताम्

समीप बुलाइये (समीपम् आयान्तु)

प्रेष्यताम्

भेजिये (गमयताम्)

अन्तिकम्

निकट (समीपम्)

सौमित्रिः

लक्ष्मण को (लक्ष्मणम्)

विहरणं

घूमकर (भ्रमित्वा)

अपनयामि

दूर करता हूँ (दूरीकरोमि)

हिन्दी अनुवाद-

(नेपथ्य में)

इतना समय हो गया है, रामायण के गान करने के आदेश का पालन किसलिए नहीं किया जा रहा है?

दोनों-हे राजन्! उपाध्याय का दूत हमें शीघ्रता करा रहा है।

राम-मुझे भी मुनि के आदेश का सम्मान करना चाहिए। जैसाकि-

आप दोनों (कुश और लव) इस कथा का गान करने वाले हैं, तपोनिधि पुराण मुनि (वाल्मीकि) इस रचना के कवि हैं, धरती पर प्रथम बार अवतरित होने वाला स्फुट वाणी का यह काव्य है और इसकी कथा कमलनाभि विष्णु से सम्बद्ध है। इस प्रकार निश्चय ही यह संयोग श्रोताओं को पवित्र और आनन्दित करने वाला है।

मित्र! मनुष्यों के लिए यह सरस्वती का अवतार अपूर्व है, इसलिए मैं भी सामान्य मित्रजन के समान ही सुनना चाहता हूँ। सभासदों को एकत्रित कीजिए, मेरे पास लक्ष्मण को भेजिए, मैं भी लम्बे समय से बैठे हुए इन दोनों पैरों की थकान को घूमकर (भ्रमण करके) दूर करता हूँ।

(सभी निकल जाते हैं।)

पठितावबोधनकार्यम्-

प्रश्नाः-

(क) एकपदेन उत्तरत-

कस्य वेला अधिका सञ्जाता?

(ख) पूर्णवाक्येन उत्तरत-

अयं परिकरः कं पुनाति रमयति च?

(ग) भाषिककार्यम्-

(i) 'मयापि सम्माननीय एव मुनिनियोगः'-अत्र 'मया' सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) 'अपनयामि' इति क्रियायाः नाट्यांशे कर्तृपदं किम्?

उत्तराणि-

(क) रामायणस्य।

(ख) अयं परिकरः श्रोतारं पुनाति रमयति च।

(ग) (i) रामाय। (ii) अहम्।

भाग 3 — परीक्षा उपयोगी प्रश्न (Important Q&A)

3. अन्य महत्त्वपूर्ण प्रश्नोत्तराणि (Important Q&A & MCQs)

वस्तुनिष्ठ प्रश्न (MCQs), एकपदेन उत्तरत, पूर्णवाक्येन उत्तरत, प्रश्ननिर्माणम्, पाठ-सार-लेखनम् एवं परीक्षा उपयोगी व्याकरण।

अन्य महत्त्वपूर्ण प्रश्नोत्तराणि

I. बहुविकल्पात्मकप्रश्नाः—

1. कुशलवयोः पितुर्नाम किम् अस्ति? (माध्य. शिक्षा बोर्ड, 2025)

(अ) लक्ष्मणः (ब) भरतः (स) रामः (द) शत्रुघ्नः

2. ‘आवां यमलौ’ कौ तौ? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2024-25)

(अ) श्रीहर्षकालिदासौ (ब) रामलक्ष्मणौ (स) कुशलवौ (द) सूर्यचन्द्रमसौ

3. ‘शिशुपालनम्’ इत्यस्य पाठस्य रचयिता कः? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2023-24; प्रश्न बैंक)

(अ) श्रीहर्षः (ब) कालिदासः (स) भारविः (द) दिङ्नागः

4. बालभावात् शिवस्य मस्तके कः विराजते? (माध्य. शिक्षा बोर्ड, 2022)

(अ) लवः (ब) कुशः (स) हिमकरः (द) कृष्णनागः

5. कुशलवौ कम् उपसृत्य प्रणमतः? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22; प्रश्न बैंक)

--- [ पृष्ठ संख्या: 48 ] ---

(अ) रामम् (ब) विदूषकम् (स) वाल्मीकिं (द) लक्ष्मणम्

6. 'शिशुपालनम्' इति पाठः कुतः सङ्कलितः? (प्रश्न बैंक)

(अ) हितोपदेशतः (ब) रामायणतः (स) महाभारततः (द) कुन्दमालातः

7. वयोऽनुरोधात् कः लालनीयः भवति? (प्रश्न बैंक)

(अ) मित्रम् (ब) पिता (स) शिशुजनः (द) पुत्रः

8. लवकुशयोः वंशस्य कर्ता कः? (प्रश्न बैंक)

(अ) हरिश्चन्द्रः (ब) वशिष्ठः (स) सूर्यः (द) चन्द्रः

9. कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति?

(अ) पुत्री (ब) वधूः (स) बाला (द) सीता

10. 'सव्यवधानं न चारित्रलोपाय'-इति कस्य कथनम्?

(अ) कुशस्य (ब) लवस्य (स) विदूषकस्य (द) रामस्य

11. बालभावात् हिमकरः कस्य मस्तके विराजते? (प्रश्न बैंक)

(अ) विष्णोः (ब) गगनस्य (स) पर्वतस्य (द) शिवस्य

12. लवकुशयोः गुरोः नाम किम् आसीत्? (प्रश्न बैंक)

(अ) द्रोणाचार्यः (ब) वाल्मीकिः (स) कालिदासः (द) वेदव्यासः

13. कुशः स्वपितुः किन्नाम कथयति? (प्रश्न बैंक)

(अ) निर्लिप्तः (ब) निरनुक्रोशः (स) निकृष्टः (द) निर्दयी

उत्तर-तालिका

1. (स) 2. (स) 3. (द) 4. (स) 5. (अ) 6. (द) 7. (स) 8. (स) 9. (ब) 10. (द) 11. (द) 12. (ब) 13. (ब)

II. शब्दार्थ-चयनम्-

प्रश्नः- अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत-

1. वयसः तु न किञ्चिदन्तरम्।

(अ) वायसः (ब) वयस्यः (स) सौन्दर्यस्य (द) आयुषः

2. व्रजति हिमकरोऽपि बालभावात्।

(अ) चन्द्रः (ब) सूर्यः (स) हिमालयः (द) गजेन्द्रः

3. पशुपति-मस्तक-केतकच्छदत्वम्।

(अ) विष्णुः (ब) शिवः (स) रामः (द) चन्द्रः

4. भगवन् सहस्रदीधितिः।

(अ) सूर्यः (ब) चन्द्रः (स) वशिष्ठः (द) वाल्मीकि

5. भ्रातरावां सोदयौ।

(अ) सुन्दरौ (ब) कुमारौ (स) सहोदरौ (द) सहदयौ

6. अहो! उदात्तरम्यः समुदाचारः।

(अ) शिष्टाचारः (ब) दुराचारः (स) चापल्यम् (द) अत्याचारः

7. निरनुक्रोश इति क एवं भणति?

(अ) सहृदयः (ब) निर्लज्जः (स) निर्दयः (द) निर्जनम्

8. किं कुपिता एवं भणति?

(अ) भ्रमति (ब) क्रुध्यति (स) ताडयति (द) कथयति

9. एतेन वचनेन दारकौ निर्भर्त्सयति।

(अ) वानरौ (ब) राक्षसौ (स) तापसौ (द) पुत्रौ

10. इयती वेला सञ्जाता।

(अ) कार्यम् (ब) समयः (स) लता (द) चिन्ता

11. अपि च इतस्तावद् वयस्यः।

(अ) मित्रम् (ब) पुत्रः (स) आयुः (द) वृद्धः

--- [ पृष्ठ संख्या: 49 ] ---

--- | ---

उत्तराणि— 1. (द) आयुषः 2. (अ) चन्द्रः 3. (ब) शिवः

4. (अ) सूर्यः 5. (स) सहोदरौ 6. (अ) शिष्टाचारः

7. (स) निर्दयः 8. (द) कथयति 9. (द) पुत्रौ

10. (ब) समयः 11. (अ) मित्रम्।

III. अन्वय-लेखनम्—

प्रश्नः-मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकयोः अन्वयं पूरयत-

(क) भवति शिशुजनो .................................................................... केतकच्छदत्वम्।

अन्वयः-गुणमहताम् अपि (i) .................... शिशुजनः (ii) .................... एव भवति। (iii) .................... हि हिमकरः अपि (iv) .................... मस्तक-केतकच्छदत्वम् व्रजति।

(ख) भवन्तौ गायन्तौ .................................................................... सोऽयं परिकरः।

अन्वयः-भवन्तौ गायन्तौ, पुराणः (i) .................... कविः अपि, वसुमतीम् प्रथमं (ii) .................... गिराम् अयं सन्दर्भः, (iii) .................... च इयं श्लाघ्य कथा, सः च अयं (iv) .................... नियतं श्रोतारं पुनाति रमयति च।

उत्तरम्— (क) (i) वयोऽनुरोधात्, (ii) लालनीयः, (iii) बालभावात्, (iv) पशुपतिः।

(ख) (i) व्रतनिधिः, (ii) अवतीर्णः, (iii) सरिसरुहाभस्य, (iv) परिकरः।

IV. प्रश्ननिर्माणम्—

प्रश्नः-अधोलिखितेषु वाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

1. अपि कुशलं महाराजस्य। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2023-24)

2. तस्याः द्वे नामनी। (माध्य. शिक्षा बोर्ड, 2023)

3. सिंहासनस्थः रामः प्रविशति। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2022-23)

4. अनयोः स्पर्शः हृदयग्राही वर्तते।

5. एतत् राजासनं न युक्तमध्यासितुम्।

6. सव्यवधानं चरित्रलोपाय न भवति।

7. अङ्कव्यवहितं सिंहासनम् अध्यास्यताम्।

8. गुणमहताम् अपि शिशुजनो लालनीय एव भवति।

9. लवकुशयोः वंशस्य कर्त्ता भगवन् सहस्रदीधितिः वर्तते।

10. लवकुशौ अस्मत् समानाभिजनौ संवृत्तौ।

उत्तरम्-प्रश्न-निर्माणम्—

1. अपि कुशलं कस्य?

2. कस्याः द्वे नामनी?

3. सिंहासनस्थः कः प्रविशति?

4. अनयोः स्पर्शः कीदृशः वर्तते?

5. एतत् किम् न युक्तमध्यासितुम्?

6. किम् चरित्रलोपाय न भवति?

7. अङ्कव्यवहितं कम् अध्यास्यताम्?

8. गुणमहताम् अपि कः लालनीय एव भवति?

9. लवकुशयोः वंशस्य कर्त्ता कः वर्तते?

10. कौ अस्मत् समानाभिजनौ संवृत्तौ?

--- [ पृष्ठ संख्या: 50 ] ---

V. पाठ-सार

प्रश्न: 'शिशुपालनम्' इति पाठस्य सारं हिन्दीभाषायां लिखत। (माध्य. शिक्षा बोर्ड, 2025)

उत्तरम्—

पाठ-सार—'शिशुपालनम्' नामक पाठ दिङ्नाग विरचित 'कुन्दमाला' नामक नाटक के पंचम अंक से संकलित किया गया है। इस पाठ में राम अपने दोनों पुत्रों कुश और लव को सिंहासन पर बैठाना चाहते हैं किन्तु वे दोनों अतिशालीनतापूर्वक मना करते हैं। सिंहासनारूढ़ राम उन दोनों के सौन्दर्य से आकृष्ट होकर उन्हें अपनी गोद में बैठा लेते हैं। इसमें शिशु स्नेह का अत्यन्त मनोहारी वर्णन किया गया है।

राम लव और कुश के समान सौन्दर्य, आयु तथा शिष्टाचार से अत्यधिक प्रसन्न होते हैं। राम द्वारा उनके वंश के कर्त्ता के बारे में पूछने पर लव भगवान् सूर्य को अपना कुल देवता बतलाता है तथा अपना नाम बतलाते हैं, साथ ही गुरु का नाम भगवान् वाल्मीकि कहते हैं। राम द्वारा उनके पिता का नाम पूछने पर 'निर्दायी' बताते हैं, जिसे सुनकर राम मन ही मन स्वयं को अपराधी मानते हैं। इस वार्तालाप से राम को लव व कुश स्वयं के ही पुत्र होने का कौतूहल होता है। राम उनकी माता का नाम जानना चाहते हैं किन्तु वे स्त्रियों के बारे में खोजबीन करना उचित नहीं मानते हैं। विदूषक राम के कौतूहल को जानकर जब लव-कुश से उनकी माता का नाम पूछता है तो वे दोनों 'देवी' और 'वधू' नाम बतलाते हैं। यह सुनकर राम मन में सोचते हैं कि इन दोनों कुमारों का और हमारा पारिवारिक वृत्तान्त सभी तरह से समान ही है। इसी बीच रामायण के गान का समय हो जाता है। महर्षि वाल्मीकि द्वारा रचित रामायण का गान श्रीराम की सभा में स्वयं लव और कुश करते हैं।

--- [ पृष्ठ संख्या: 51 ] ---