RajBoardExam
संस्कृत (Sanskrit)हिंदी माध्यम2026-27

RBSE Class 10 Sanskrit Chapter 5 Solutions in Hindi — सुभाषितानि | शेमुषी भाग-2 हल, अनुवाद

📅 अंतिम अपडेट: 2026-09-10📖 RBSE/NCERT Solutions
भाग 1 — समाधान (Textbook Solutions)

📖 1. समाधान: पाठ्यपुस्तकस्य प्रश्नोत्तराणि (अभ्यासः हल)

राजस्थान बोर्ड कक्षा 10 संस्कृत (शेमुषी भाग-2) — पाठ्यपुस्तक के सभी अभ्यास प्रश्नों के प्रामाणिक एवं विस्तृत उत्तर।

प्रश्न १. एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?

(ख) गुणी किं वेत्ति?

(ग) केषां सम्पत्तौ च विपत्तौ च एकरूपता भवति?

(घ) पशुना अपि कीदृशः गृह्यते?

(ङ) उदयसमये अस्तसमये च कः रक्तः भवति?

उत्तराणि

(क) आलस्यम्। (ख) गुणम्। (ग) महताम्।

(घ) उदीरितोऽर्थः। (ङ) सविता (सूर्यः)।

प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

(क) केन समः बन्धुः नास्ति?

(किसके समान बन्धु नहीं है?)

उत्तरम्—उद्यमेन समः बन्धुः नास्ति।

(उद्योग/परिश्रम के समान बन्धु नहीं है।)

(ख) वसन्तस्य गुणं कः जानाति?

(वसन्त के गुण को कौन जानता है?)

(माध्य. शिक्षा बोर्ड, २०२३)

--- [ पृष्ठ संख्या: 70 ] ---

उत्तरम्—वसन्तस्य गुणं पिकः जानाति।

(वसन्त के गुण को कोयल जानती है।)

(ग) बुद्धयः कीदृश्यः भवन्ति?

(बुद्धिमान् लोग कैसे होते हैं?)

उत्तरम्—बुद्धयः परेषु इङ्गितज्ञानफला भवन्ति।

(बुद्धिमान् लोग दूसरों के संकेतजन्य ज्ञान रूपी फल वाले होते हैं।)

(घ) नराणां प्रथमः शत्रुः कः?

(मनुष्यों का प्रथम शत्रु कौन है?)

उत्तरम्—नराणां प्रथमः शत्रुः क्रोधः।

(मनुष्यों का प्रथम शत्रु क्रोध है।)

(ङ) सुधियः सख्यं केन सह भवति?

(विद्वानों की मित्रता किसके साथ होती है?)

उत्तरम्—सुधियः सख्यं सुधीभिः सह भवति।

(विद्वानों की मित्रता विद्वानों के साथ होती है।)

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?

(हमें किस प्रकार के वृक्ष का सेवन करना चाहिए?)

उत्तरम्—अस्माभिः फलच्छायासमन्वितः महावृक्षः सेवितव्यः।

(हमें फल एवं छाया से युक्त महावृक्ष का सेवन करना चाहिए।)

प्रश्न 3. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत-

(क) यः ..................... उद्दिश्य प्रकुप्यति तस्या ..................... सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ..................... तं कथं परितोषयिष्यति?

(ख) ..................... संसारे खलु ..................... निरर्थकम् नास्ति। अश्वः चेत् ..................... वीरः, खरः ..................... वहने (वीरः) (भवति)।

उत्तरम्—(क) यः निमित्तम् उद्दिश्य प्रकुप्यति तस्यापगमे सः ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः) (भवति)।

प्रश्न 4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशात् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।

उत्तरम्—अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति।

उत्तरम्—समानशीलव्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति।

उत्तरम्—नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

उत्तरम्—सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)

(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)

(घ) कः छायां निवारयति? (कर्मवाच्ये)

(ङ) तेन एव वह्निना शरीरं दह्यते। (कर्तृवाच्ये)

उत्तरम्—(क) गुणिनः गुणं जानन्ति।

--- [ पृष्ठ संख्या: 71 ] ---

(ख) पशुना उदीरितोऽर्थः गृह्यते।

(ग) मृगः मृगेन सह अनुव्रजति।

(घ) केन छाया निवार्यते?

(ङ) स एव वह्निः शरीरं दहति।

प्रश्न 6. (अ) सन्धिं/सन्धिच्छेदं कुरुत-

(क) न

+

अस्ति

+

उद्यमसमः

-

.................

(ख) ......

+

......

-

तस्यापगमे

(ग) अनुक्तम्

+

अपि

+

ऊहति

-

.................

(घ) ......

+

......

-

गावश्च

(ङ) ......

+

......

-

नास्ति

(च) रक्तः

+

+

अस्तमये

-

.................

(छ) ......

+

......

-

योजकस्तत्र

उत्तरम्—

(क) न + अस्ति + उद्यमसमः - नास्त्युद्यमसमः

(ख) तस्य + अपगमे - तस्यापगमे

(ग) अनुक्तम् + अपि + ऊहति - अनुक्तम्प्यूहति

(घ) गावः + च - गावश्च

(ङ) न + अस्ति - नास्ति

(च) रक्तः + च + अस्तमये - रक्तश्चास्तमये

(छ) योजकः + तत्र - योजकस्तत्र

(आ) समस्तपदं/विग्रहं लिखत-

(क) उद्यमसमः : ........................................

(ख) शरीरे स्थितः : ........................................

(ग) निर्बलः : ........................................

(घ) देहस्य विनाशाय : ........................................

(ङ) महावृक्षः : ........................................

(च) समानं शीलं व्यसनं येषां तेषु : ........................................

(छ) अयोग्यः : ........................................

उत्तरम्—

(क) उद्यमेन समः।

(ख) शरीरस्थितः।

(ग) बलस्य अभावः।

(घ) देहविनाशाय।

(ङ) महान् चासौ वृक्षः।

(च) समानशीलव्यसनेषु।

(छ) न योग्यः इति।

प्रश्न 7. (अ) अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) प्रसीदति : ........................................

(ख) मूर्खः : ........................................

(ग) बली : ........................................

(घ) सुलभः : ........................................

(ङ) संपत्तौ : ........................................

(च) अस्तमये : ........................................

(छ) सार्थकम् : ........................................

उत्तरम्—

(क) प्रसीदति - प्रकुप्यति

(ख) मूर्खः - सुधिः

(ग) बली - निर्बलः

(घ) सुलभः - दुर्लभः

(ङ) संपत्तौ - विपत्तौ

--- [ पृष्ठ संख्या: 72 ] ---

(च) अस्तमये - उदये

(छ) सार्थकम् - निरर्थकम्

(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-

(क) वायसः .......................................................................

(ख) निमित्तम् .......................................................................

(ग) सूर्यः .......................................................................

(घ) पिकः .......................................................................

(ङ) वह्निः .......................................................................

उत्तरम्-

(क) वायसः - वृक्षोपरि वायसः तिष्ठति।

(ख) निमित्तम् - सः किम् निमित्तं क्रुध्यति।

(ग) सूर्यः - सूर्यः पूर्वदिशायाम् उदेति।

(घ) पिकः - पिकः वसन्ते कूजति।

(ङ) वह्निः - काष्ठान्तर्गते वह्निः भवति।

परियोजनाकार्यम्-

प्रश्न 1. उद्यमस्य महत्त्वं वर्णयतः पञ्चश्लोकान् लिखत।

उत्तरम्-श्लोकाः-

(i) उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।

(उद्योग से ही कार्यों की सिद्धि होती है, केवल मनोरथों से नहीं। सोते हुए सिंह के मुख में मृग स्वयं प्रवेश नहीं करते हैं।)

(ii) यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्।

तथा पुरुषकारेण विना दैवं न सिद्ध्यति।।

(जैसे खेत में बोए बिना कोई भी बीज फल नहीं दे सकता है, वैसे ही पुरुषार्थ के बिना भाग्य सिद्ध नहीं होता है।)

(iii) योजनानां सहस्रं तु शनैर्गच्छेत्पिपीलिका।

अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति।।

(चलती हुई चींटी हजार योजन दूर तक निकल जाती है। न चलता हुआ गरुड़ भी एक पग नहीं जा सकता है।)

(iv) उद्योगिनो मनुष्यस्य किं दुर्घटम्।

आकाशमपि पातालमेकीकुर्यात्कदाचन।।

(परिश्रमी व्यक्ति की बुद्धि द्वारा क्या करना कठिन है? वह आकाश और पाताल को भी कदाचित् एक कर सकता है।)

(v) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति।।

(मनुष्यों के शरीर में स्थित महान् शत्रु आलस्य है। उद्योग के समान कोई हितैषी (बन्धु) नहीं है, जिसे करके मनुष्य दुःखी नहीं होता है।)

प्रश्न 1. अधोलिखितसमस्तपदानां समास-विग्रहं कृत्वा समासस्य नामापि लिखत।

समस्तपदम्

समास-विग्रहः

समासस्य नाम

शरीरस्थः

शरीरे स्थितः

तत्पुरुषसमासः।

गृहस्थः

गृहे स्थितः

तत्पुरुषसमासः।

मनस्थः

मनसि स्थितः

तत्पुरुषसमासः।

तटस्थः

तटे स्थितः

तत्पुरुषसमासः।

कूपस्थः

कूपे स्थितः

तत्पुरुषसमासः।

वृक्षस्थः

वृक्षे स्थितः

तत्पुरुषसमासः।

विमानस्थः

विमाने स्थितः

तत्पुरुषसमासः।

--- [ पृष्ठ संख्या: 73 ] ---

--- | ---

निर्गुणम् - गुणानाम् अभावः - अव्ययीभावसमासः।

निर्मक्षिकम् - मक्षिकाणाम् अभावः - अव्ययीभावसमासः।

निर्जलम् - जलस्य अभावः - अव्ययीभावसमासः।

निराहारम् - आहारस्य अभावः - अव्ययीभावसमासः।

प्रश्न 2. निम्नलिखितशब्दानां पर्यायवाचिपदानि लिखत।

उत्तरम्—

शब्दाः

पर्यायवाचिपदानि

शत्रुः

रिपुः, अरिः, वैरिः।

मित्रम्

सखा, बन्धुः, सुहृद्।

वह्निः

अग्निः, दाहकः, पावकः।

सुधियः

विद्वांसः, विज्ञाः, अभिज्ञाः।

अश्वः

तुरगः, हयः, घोटकः।

गजः

करी, हस्ती, दन्ती, नागः।

वृक्षः

द्रुमः, तरुः, महीरुहः।

सविता

सूर्यः, मित्रः, दिवाकरः, भास्करः।

भाग 2 — हिन्दी अनुवाद एवं पाठ-सार (Hindi Anuvaad & Notes)

📝 2. हिन्दी-अनुवादः: अन्वय, शब्दार्थ व सप्रसंग सरलार्थ

प्रत्येक श्लोक एवं गद्यांश का संस्कृत अन्वय, कठिन शब्दार्थ, सप्रसंग हिन्दी अनुवाद एवं व्याकरण/भाषिक कार्यम्।

पाठ परिचय—संस्कृत कृतियों के जिन पद्यों या पद्यांशों में सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है, उन पद्यों को सुभाषित कहते हैं। प्रस्तुत पाठ ऐसे 10 सुभाषितानों का संग्रह है जो संस्कृत के विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

अन्वय, कठिन शब्दार्थ, सप्रसंग हिन्दी अनुवाद/भावार्थ एवं पठितावबोधनम्—

(1)

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

अन्वयः—हि मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्। उद्यमसमः बन्धुः न अस्ति, यं कृत्वा (मनुष्यः) न अवसीदति।

कठिन शब्दार्थ—हि = निश्चित ही (निश्चयेन)। मनुष्याणाम् = मनुष्यों का (मानवानाम्)। शरीरस्थः = शरीर में रहने वाला (देहे स्थितः)। उद्यमसमः = परिश्रम के समान (परिश्रमेण तुल्यः)। बन्धुः = भाई (भ्राता)। कृत्वा = करके (विधाय)। न अवसीदति = दुःखी नहीं होता है (दुःखं न अनुभवति)।

प्रसंग—प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में आलस्य को महान् शत्रु तथा परिश्रम को श्रेष्ठ बन्धु बताते हुए कहा गया है कि-

हिन्दी अनुवाद/भावार्थ—निश्चित ही मनुष्यों के शरीर में रहने वाला महान् शत्रु आलस्य है। परिश्रम के समान कोई भी बन्धु (हितैषी) नहीं है, जिसको करके मनुष्य कभी दुःखी नहीं होता है। अतः मनुष्य को आलस्य का त्याग करके सदैव परिश्रम करना चाहिए।

पठितावबोधनकार्यम्—

निर्देशः—उपर्युक्तपद्यांशं पठित्वा एतदाधारितप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

प्रश्नाः—

(क) एकपदेन उत्तरत-

मनुष्याणां शरीरस्थः महान् शत्रुः कः?

(ख) पूर्णवाक्येन उत्तरत-

किं कृत्वा जनः कदापि दुःखं न अनुभवति?

(ग) भाषिककार्यम्-

(i) 'कृत्वा यं नावसीदति'-अत्र 'यम्' सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) 'शत्रुः' इति पदस्य पर्यायपदं किमस्ति?

उत्तराणि—

(क) आलस्यम्।

(ख) परिश्रमं कृत्वा जनः कदापि दुःखं न अनुभवति।

(ग) (i) उद्यमाय। (ii) रिपुः।

(2)

गुणी गुणं वेत्ति न वेत्ति निर्गुणो,

बली बलं वेत्ति न वेत्ति निर्बलः।

पिको वसन्तस्य गुणां न वायसः,

करी च सिंहस्य बलं न मूषकः॥

अन्वयः—गुणी गुणं वेत्ति, निर्गुणः (गुणं) न वेत्ति, बली बलं वेत्ति, निर्बलः (बलं) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), मूषकः न।

--- [ पृष्ठ संख्या: 63 ] ---

कठिन शब्दार्थाः

शब्दः

अर्थः

गुणी

गुणवान् (गुणवान्)

वेत्ति

जानता है (जानाति)

बली

बलवान् (बलवान्)

पिकः

कोयल (कोकिलः)

वायसः

कौआ (काकः)

करी

हाथी (गजः)

मूषकः

चूहा (आखुः)

प्रसंग-प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में अनेक उदाहरणों के द्वारा यह समझाया गया है कि गुणवान् ही दूसरे के गुणों को जानता है, गुणहीन नहीं।

हिन्दी अनुवाद/भावार्थ-गुणवान् ही गुण को जानता है, गुणहीन गुण को नहीं जानता है। बलवान् ही बल को जानता है, बलहीन बल को नहीं जानता है। वसन्त ऋतु के गुण को कोयल ही जानती है, कौआ उसे नहीं जानता है। सिंह के बल को हाथी ही जानता है, उसे चूहा नहीं जानता है।

अर्थात्-इस कथन के द्वारा कवि ने यह दर्शाया है कि जिसमें स्वयं में जो गुण है वह दूसरों के भी उस गुण के महत्त्व को जानता है, और जिसमें जो गुण नहीं है वह दूसरों के भी उस गुण को नहीं जान सकता है। हिन्दी में कहावत है-"हीरे की परख जौहरी (सुनार) ही जानता है।"

पठितावबोधनकार्यम्-

प्रश्नाः-

(क) एकपदेन उत्तरत-

कः गुणं वेत्ति?

(ख) पूर्णवाक्येन उत्तरत-

गजः कस्य बलं जानाति? तथा निर्बलः किं न जानाति?

(ग) भाषिककार्यम्-

(i) 'गुणी' इति कर्तृपदस्य क्रियापदं किम्?

(ii) 'गजः' इतिपदस्य श्लोके पर्यायपदं किमस्ति?

उत्तराणि-

(क) गुणी।

(ख) गजः सिंहस्य बलं जानाति। तथा निर्बलः बलं न जानाति।

(ग) (i) वेत्ति। (ii) करी।

( 3 )

श्लोकः

निमित्तमुद्दिश्य हि यः प्रकुप्यति,

ध्रुवं स तस्यापगमे प्रसीदति।

अकारणद्वेषि मनस्तु यस्य वै,

कथं जनस्तं परितोषयिष्यति॥

अन्वयः-यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति, यस्य मनः अकारणद्वेषि (अस्ति) जनः तं कथं परितोषयिष्यति।

कठिन शब्दार्थाः

शब्दः

अर्थः

निमित्तम्

कारण को (कारणम्)

प्रकुप्यति

अत्यधिक क्रोध करता है (अतिकोपं करोति)

अपगमे

समाप्त होने पर (समाप्ते)

ध्रुवम्

निश्चित रूप से (निश्चयेन)

प्रसीदति

प्रसन्न होता है (प्रसन्नः भवति)

अकारणद्वेषि

बिना कारण ही द्वेष करने वाला (विना कारणं यः दोषयुक्तं भवति)

परितोषयिष्यति

सन्तुष्ट करेगा (परितोषं दास्यति)

प्रसंग-प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में बिना कारण के क्रोध के दुष्प्रभाव का वर्णन करते हुए कहा गया है कि-

हिन्दी अनुवाद/भावार्थ-जो किसी कारण को उद्देश्य में करके अत्यधिक क्रोध करता है वह उस कारण के समाप्त हो जाने पर निश्चित रूप से प्रसन्न होता है। किन्तु जिसका मन बिना कारण ही द्वेष करने वाला है उस मन को व्यक्ति कैसे सन्तुष्ट करेगा, अर्थात् ऐसे मन को कभी भी सन्तुष्ट नहीं किया जा सकता है।

पठितावबोधनकार्यम्-

प्रश्नाः-

(क) एकपदेन उत्तरत-

जनः कम् उद्दिश्य प्रकुप्यति?

(ख) पूर्णवाक्येन उत्तरत-

कः ध्रुवं प्रसीदति?

--- [ पृष्ठ संख्या: 64 ] ---

(ग) भाषिककार्यम्-

(i) 'सः तस्य अपगमे.....।' अत्र 'तस्य' सर्वनामपदं कस्मै प्रयुक्तम्?

(ii) 'प्रसीदति' इति पदस्य श्लोके विलोमपदं किम्?

उत्तराणि- (क) निमित्तम्।

(ख) यः निमित्तमुद्दिश्य प्रकुप्यति सः तस्य अपगमे ध्रुवं प्रसीदति।

(ग) (i) निमित्ताय। (ii) प्रकुप्यति।

(4)

उदीरितोऽर्थः पशुनापि गृह्यते,

हयाश्च नागाश्च वहन्ति बोधिताः।

अनुकतमप्यूहति पण्डितो जनः,

परोङ्गितज्ञानफला हि बुद्धयः॥

अन्वयः- पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागाः च बोधिताः (भारं) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति, बुद्धयः परोङ्गितज्ञानफलाः भवन्ति।

कठिन शब्दार्थाः

शब्दः

अर्थः

उदीरितः

कहा हुआ (कथितः)

गृह्यते

प्राप्त किया जाता है (प्राप्यते)

हयाः

घोड़े (अश्वाः)

नागाः

हाथी (गजाः)

बोधिताः

कहे जाने पर (उपदिष्टाः)

वहन्ति

ढोते हैं (वहनं कुर्वन्ति)

पण्डितः

विद्वान् (प्राज्ञः)

अनुक्तम्

नहीं कहे गये की (अनुपदिष्टम्)

ऊहति

समझ लेता है (निर्धारयति)

बुद्धयः

बुद्धिमान् लोग (बुद्धिमन्तः)

परोङ्गितज्ञानफलाः

दूसरों के संकेतजन्य ज्ञान रूपी फल वाले (अन्यैः कृतैः सङ्केतैः लब्धज्ञानाः)

प्रसंग- प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में बुद्धिमान् के वैशिष्ट्य का उदाहरण सहित वर्णन करते हुए कहा गया है कि-

हिन्दी अनुवाद/भावार्थ- पशु के द्वारा भी कहे हुए अर्थ को ग्रहण कर लिया जाता है, घोड़े और हाथी समझाने पर भार का वहन कर लेते हैं। किन्तु विद्वान् व्यक्ति बिना कहे हुए को भी समझ लेता है। बुद्धिमान् लोग दूसरों के संकेतजन्य ज्ञान रूपी फल वाले होते हैं। अर्थात् बुद्धिमान् दूसरों के संकेतमात्र से ही उसके भावों को समझ लेते हैं, उनसे कहने की आवश्यकता नहीं होती है।

भाव यह है कि कहने पर तो पशु भी दूसरों की बात समझ लेते हैं किन्तु बिना कहे हुए संकेतमात्र से समझने वाले ही बुद्धिमान् व्यक्ति होते हैं।

पठितावबोधनकार्यम्-

प्रश्नाः- (क) एकपदेन उत्तरं लिखत। [ माध्य. शिक्षा बोर्ड, 2024 (सं.) ]

उदीरितोऽर्थः केन गृह्यते?

(ख) पूर्णवाक्येन उत्तरं लिखत।

के के बोधिताः वहन्ति? तथा बुद्धयः कीदृशाः भवन्ति?

(ग) यथानिर्देशम् उत्तरं लिखत।

(i) "पण्डितः जनः" इत्यत्र विशेषणं किम्?

(ii) "बोधिताः वहन्ति" इत्यत्र क्रियापदं लिखत।

उत्तराणि- (क) पशुना।

(ख) हयाश्च नागाश्च बोधिताः वहन्ति। तथा बुद्धयः परोङ्गितज्ञानफलाः भवन्ति।

(ग) (i) पण्डितः। (ii) वहन्ति।

अथवा

प्रश्नाः- (क) एकपदेन उत्तरत-

कः जनः अनुक्तमपि ऊहति?

(ख) पूर्णवाक्येन उत्तरत-

के बोधिताः भारं वहन्ति?

(ग) भाषिककार्यम्-

(i) 'अश्वाः' इतिपदस्य पद्यांशे पर्यायपदं किमस्ति?

--- [ पृष्ठ संख्या: 65 ] ---

(ii) 'उदीरितः' इति विशेषणपदस्य श्लोके विशेष्यपदं किम्?

उत्तराणि— (क) पण्डितः।

(ख) हयाश्च नागाश्च बोधिताः भारं वहन्ति।

(ग) (i) हयाः। (ii) अर्थः।

( 5 )

श्लोकः

क्रोधो हि शत्रुः प्रथमो नराणां,

देहस्थितो देहविनाशनाय।

यथास्थितः काष्ठगतो हि वह्निः,

स एव वह्निर्दहते शरीरम्॥

अन्वयः— नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः क्रोधः। यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) शरीरं दहते।

शब्दार्थाः

शब्दः

अर्थः

नराणाम्

मनुष्यों के (मनुष्याणाम्)

देहविनाशनाय

शरीर का विनाश करने के लिए (शरीरस्य विनाशाय)

शत्रुः

शत्रु (रिपुः)

देहस्थितः

शरीर में स्थित (शरीरे स्थितः)

काष्ठगतः

लकड़ी में रहने वाला (इन्धने स्थितः)

वह्निः

आग (अग्निः)

दहते

जलाता है (ज्वलयति)

प्रसंग— प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में क्रोध को विनाशशील शत्रु बतलाते हुए कहा गया है कि-

हिन्दी अनुवाद/भावार्थ— मनुष्यों के शरीर का विनाश करने के लिए पहला शत्रु शरीर में ही स्थित क्रोध है। जिस प्रकार काष्ठ के अन्दर स्थित अग्नि ही काष्ठ को ही जला देती है, उसी प्रकार शरीर में स्थित क्रोध ही शरीर को जला देता है।

कवि ने इस कथन के द्वारा क्रोध को मनुष्यों का विनाश करने वाला परम शत्रु बतलाते हुए क्रोध का त्याग करने की प्रेरणा दी है।

पठितावबोधनकार्यम्— (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2024-25)

प्रश्नाः—

(क) एकपदेन उत्तरत—

नराणां प्रथमो हि शत्रुः कः?

(ख) पूर्णवाक्येन उत्तरत—

देहविनाशनाय मूलं किम्?

(ग) भाषिककार्यम्—

(i) "यथास्थितः काष्ठगतो हि वह्निः" इत्यत्र विशेषणपदं किम्?

(ii) "स एव वह्निर्दहते शरीरम्" इत्यत्र क्रियापदं किम्?

उत्तराणि—

(क) क्रोधः।

(ख) देहविनाशनाय देहस्थितः क्रोधः मूलम्।

(ग) (i) काष्ठगतः। (ii) दहते।

अथवा

प्रश्नाः—

(क) एकपदेन उत्तरत—

शरीरस्थः क्रोधः किम् दहते?

(ख) पूर्णवाक्येन उत्तरत—

नराणां देहविनाशाय कः प्रथमः शत्रुः अस्ति? तथा कीदृशः वह्निः काष्ठम् एव दहते?

(ग) भाषिककार्यम्—

(i) 'प्रथमः' इति विशेषणस्य विशेष्यपदं किम्?

(ii) 'वह्नि' इति कर्तृपदस्य क्रियापदं किम्?

उत्तराणि—

(क) शरीरम्।

(ख) नराणां देहविनाशाय देहस्थितः क्रोधः प्रथमः शत्रुः अस्ति। तथा काष्ठगतः वह्निः काष्ठम् एव दहते।

(ग) (i) शत्रुः। (ii) दहते।

--- [ पृष्ठ संख्या: 66 ] ---

( 6 )

श्लोकः

मृगा मृगैः सङ्गमनुव्रजन्ति,

गावश्च गोभिः तुरगास्तुरङ्गैः।

मूर्खाश्च मूर्खैः सुधियः सुधीभिः,

समान-शील-व्यसनेषु सख्यम्॥

अन्वयः—मृगाः मृगैः सङ्गम, गावश्च गोभिः, तुरङ्गैः सङ्गम, मूर्खाः मूर्खैः सङ्गम, सुधियः सुधीभिः सङ्गम अनुव्रजन्ति। सख्यम् समानशीलव्यसनेषु (भवति)।

शब्दार्थाः

शब्दः

अर्थः

मृगाः

हिरण (हरिणाः)

सङ्गम

साथ (समम्)

गावः

गायें (धेनवः)

गोभिः सङ्गम

गायों के साथ (धेनुभिः सह)

तुरगाः

घोड़े (अश्वाः)

सुधियः

विद्वान् (विद्वांसः)

अनुव्रजन्ति

पीछे-पीछे जाते हैं, अनुसरण करते हैं (अनुसरन्ति)

सख्यम्

मित्रता (मैत्री)

व्यसनेषु

आदत, स्वभाव में (स्वभावेषु)

प्रसंग—प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में अनेक उदाहरणों के द्वारा प्रतिपादित किया गया है कि मित्रता समान चरित्र व स्वभाव वालों में ही होती है।

हिन्दी अनुवाद/भावार्थ—मृग मृगों के साथ, गायें गायों के साथ, घोड़े घोड़ों के साथ, मूर्ख मूर्खों के साथ और विद्वान् विद्वानों के साथ ही पीछे-पीछे जाते हैं। मित्रता समान चरित्र व स्वभाव वालों में ही होती है। विपरीत स्वभाव एवं चरित्र वालों में मित्रता नहीं होती है।

पठितावबोधनकार्यम्—

प्रश्नोत्तराणि:

प्रश्न (क) एकपदेन उत्तरत—

मृगाः कैः सङ्गमनुव्रजन्ति?

उत्तरम्— मृगैः।

प्रश्न (ख) पूर्णवाक्येन उत्तरत—

सख्यं केषु भवति?

उत्तरम्— सख्यं समान-शील-व्यसनेषु भवति।

प्रश्न (ग) भाषिककार्यम्—

(i) 'मृगाः' इति कर्तृपदस्य श्लोके क्रियापदं किम्?

(ii) 'अश्वाः' इति पदस्य पद्यांशे पर्यायपदं किमस्ति?

उत्तरम्— (i) अनुव्रजन्ति। (ii) तुरगाः।

---

( 7 )

श्लोकः

सेवितव्यो महावृक्षः फलच्छायासमन्वितः।

यदि दैवात् फलं नास्ति छाया केन निवार्यते॥

( माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22 )

अन्वयः—फलच्छाया समन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।

शब्दार्थाः

शब्दः

अर्थः

फलच्छायासमन्वितः

फल और छाया से युक्त (फलैः छाया च युक्तः)

महावृक्षः

विशाल वृक्ष (विशालतरुः)

सेवितव्यः

आश्रय लेना चाहिए (आश्रयितव्यः)

दैवात्

भाग्य से (भाग्यात्)

निवार्यते

रोका जाता है (निवारयति/अवरुध्यते)

प्रसंग—प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में फल एवं छायादार वृक्ष का उदाहरण देते हुए कवि ने परोपकारी व्यक्ति के महत्त्व को दर्शाया है। कवि कहता है कि-

हिन्दी अनुवाद/भावार्थ—फल और छाया से युक्त महान् वृक्ष का ही आश्रय लेना चाहिए। भाग्य से यदि उसमें फल नहीं हैं तो भी उस वृक्ष की छाया को कौन रोक सकता है? अर्थात् कोई नहीं।

भाव यह है कि जिस प्रकार फल व छाया से युक्त वृक्ष का आश्रय लेने से यदि कदाचित् फल नहीं भी हो, तो भी वह छाया प्रदान करती ही है। उसी प्रकार परोपकारी व्यक्ति भी जो भी कुछ उसके पास है उससे वह दूसरों का भला करता ही है।

--- [ पृष्ठ संख्या: 67 ] ---

---

पठितावबोधनकार्यम्-

प्रश्नाः-(क) एकपदेन उत्तरत- (माध्य. शिक्षा बोर्ड, 2025)

छायां कः ददाति?

(ख) पूर्णवाक्येन उत्तरत-

अस्माभिः कीदृशः वृक्षः सेवितव्यः?

(ग) भाषिककार्यम्-

(i) "महावृक्षः फलच्छायासमन्वितः।" इत्यत्र विशेषणपदं किम्?

(ii) "यदि दैवात् फलं नास्ति" इत्यत्र क्रियापदं किम्?

उत्तराणि-(क) महावृक्षः।

(ख) अस्माभिः फलच्छायासमन्वितः महावृक्षः सेवितव्यः।

(ग) (i) फलच्छायासमन्वितः। (ii) अस्ति।

अथवा

प्रश्नाः-(क) एकपदेन उत्तरत-

वृक्षस्य का न निवार्यते?

(ख) पूर्णवाक्येन उत्तरत-

कीदृशः महावृक्षः सेवितव्यः?

(ग) भाषिककार्यम्-

(i) 'भाग्यात्' इति पदस्य पर्यायपदं किमस्ति?

(ii) 'फलच्छायासमन्वितः' इति विशेषणस्य विशेष्यपदं किम्?

उत्तराणि-(क) छाया।

(ख) फलच्छायासमन्वितः महावृक्षः सेवितव्यः।

(ग) (i) दैवात्। (ii) महावृक्षः।

(8)

अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।

अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः॥

(माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2022-23)

अन्वयः- अमन्त्रम् अक्षरं नास्ति, अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः नास्ति, तत्र योजकः दुर्लभः।

कठिन शब्दार्थ-

शब्दः

अर्थः

अमन्त्रम्

मन्त्रहीन (न मन्त्रम्/विवेकहीनम्)

अनौषधम्

बिना दवा, जड़ी-बूटी के (औषधीय गुणविहीनम्)

मूलम्

जड़ (आधारम्)

योजकः

जोड़ने वाला (समन्वयकः)

प्रसंग- प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में सभी को योग्य दर्शाते हुए उनकी योग्यता को काम में लेने वाले को दुर्लभ बतलाया गया है। कवि कहता है कि-

हिन्दी अनुवाद/भावार्थ- मन्त्रहीन अक्षर नहीं है अर्थात् प्रत्येक अक्षर सार्थक होता है। बिना दवा (जड़ी-बूटी) के जड़ नहीं है अर्थात् प्रत्येक जड़ पदार्थ औषधि है। कोई भी पुरुष अयोग्य नहीं होता है किन्तु उसे सही जगह पर जोड़ने वाला दुर्लभ है।

आशय यह है कि प्रत्येक अक्षर, जड़-पदार्थ, मनुष्य आदि उपयोगी होते हैं, किन्तु उनका सही उपयोग करने वाले दुर्लभ होते हैं।

पठितावबोधनकार्यम्-

प्रश्ना-(क) एकपदेन उत्तरं लिखत- [माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2023-24 (सं.)]

अमन्त्रं किम् नास्ति?

(ख) पूर्णवाक्येन उत्तरं लिखत-

कीदृशः पुरुषः नास्ति? तत्र कः दुर्लभः?

--- [ पृष्ठ संख्या: 68 ] ---

(ग) यथानिर्देशम् उत्तरं लिखत-

(i) "अमन्त्रमक्षरम्" इत्यत्र विशेष्यपदं किम्?

(ii) "पुरुषः नास्ति" इत्यत्र क्रियापदं लिखत।

उत्तराणि- (क) अक्षरम्।

(ख) अयोग्यः पुरुषः नास्ति। तत्र योजकः दुर्लभः।

(ग) (i) अक्षरम्। (ii) अस्ति।

अथवा

प्रश्नाः-

(क) एकपदेन उत्तरत-

अनौषधम् किम् नास्ति?

(ख) पूर्णवाक्येन उत्तरत-

(i) कोऽपि पुरुषः कीदृशः नास्ति? कश्च दुर्लभः भवति?

(ग) भाषिककार्यम्-

(i) 'अयोग्यः' इति विशेषणस्य विशेष्यपदं किम्?

(ii) 'सुलभः' इति पदस्य श्लोके विलोमपदं किम्?

उत्तराणि-

(क) मूलम्।

(ख) कोऽपि पुरुषः अयोग्यः नास्ति। योजकः च दुर्लभः भवति।

(ग) (i) पुरुषः। (ii) दुर्लभः।

(9)

श्लोकः

सम्पत्तौ च विपत्तौ च महतामेकरूपता।

उदये सविता रक्तो रक्तश्चास्तमये तथा॥

( माध्य. शिक्षा बोर्ड, 2024; प्रश्न बैंक )

अन्वयः- महताम् संपत्तौ विपत्तौ च एकरूपता भवति। (यथा)-सविता उदये रक्तः भवति, तथा अस्तमये च रक्तः भवति।

शब्दार्थाः

शब्दः

अर्थः

महताम्

महापुरुषों की (महापुरुषाणाम्)

संपत्तौ

सम्पत्ति में (समृद्धौ)

विपत्तौ

विपत्ति आने पर (आपत्तौ)

एकरूपता

एक जैसा (समानम्)

सविता

सूर्य (सूर्यः)

उदये

उदय के समय (उदिते सति)

रक्तः

लाल (लोहितः)

अस्तमये

अस्त होने के समय (अस्तं गते)

प्रसंग- प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्य में सूर्य का उदाहरण देते हुए महापुरुषों के वैशिष्ट्य को दर्शाया गया है। कवि कहता है कि-

हिन्दी अनुवाद/भावार्थ- महापुरुषों की सम्पत्ति में और विपत्ति में एकरूपता रहती है। जैसे सूर्य उदय के समय रक्त (लाल) वर्ण का होता है, वैसे ही अस्त होने के समय में भी रक्त (लाल) वर्ण का ही होता है।

आशय यह है कि महान् लोग सभी स्थितियों में एक समान ही रहते हैं। वे न तो संपत्ति के समय अधिक प्रसन्न होते हैं और न ही विपत्ति में घबराते हैं।

पठितावबोधनकार्यम्-

प्रश्नाः-

(क) एकपदेन उत्तरत-

सविता उदये कीदृशः भवति?

(ख) पूर्णवाक्येन उत्तरत-

महतामेकरूपता कुत्र भवति?

(ग) भाषिककार्यम्-

(i) 'सूर्यः' इति पदस्य श्लोके पर्यायपदं किम्?

(ii) 'उदये सविता रक्तो भवति'-अत्र कर्तृपदं किम्?

उत्तराणि-

(क) रक्तः।

(ख) महतामेकरूपता सम्पत्तौ विपत्तौ च भवति।

(ग) (i) सविता। (ii) सविता।

--- [ पृष्ठ संख्या: 69 ] ---

(१०)

श्लोकः

विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।

अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥

अन्वयः—विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति।

शब्दार्थाः

शब्दः

अर्थः

विचित्रे

अद्भुत (अद्भुते)

संसारे

संसार में (जगति, लोके)

खलु

निश्चित ही (अव्यय) (निश्चयमेव)

निरर्थकम्

अनुपयोगी (व्यर्थम्)

अश्वः

घोड़ा (तुरंगः)

चेत्

यदि (यदि)

धावने

दौड़ने में (धावनकलायाम्)

वहने

वहन करने में (वोढुम्)

खरः

गधा (गर्दभः)

प्रसंग—प्रस्तुत पद्यांश हमारी पाठ्य-पुस्तक 'शेमुषी-द्वितीयो भागः' के 'सुभाषितानि' शीर्षक पाठ से उद्धृत किया गया है। इस पद्यांश में संसार में सभी की सार्थकता को सिद्ध करते हुए कहा गया है कि-

हिन्दी-अनुवादः / भावार्थः—इस विचित्र संसार में निश्चय ही कुछ भी निरर्थक नहीं है। यदि घोड़ा दौड़ने में वीर है तो भार का वहन करने में गधा भी वीर है।

अर्थात् संसार में सबका अपना-अपना महत्त्व है, कोई भी व्यर्थ की वस्तु नहीं है।

पठितावबोधनकार्यम्—

प्रश्नाः

(क) एकपदेन उत्तरत-

भारस्य वहने कः वीरः अस्ति?

(ख) पूर्णवाक्येन उत्तरत-

कुत्र किञ्चिन्निरर्थकं नास्ति?

(ग) भाषिककार्यम्-

(i) 'संसारे' इति विशेष्यपदस्य विशेषणपदं किम्?

(ii) 'सार्थकम्' इत्यस्य श्लोके विलोमपदं किम्?

उत्तराणि

(क) खरः।

(ख) विचित्रे संसारे किञ्चिन्निरर्थकं नास्ति।

(ग) (i) विचित्रे। (ii) निरर्थकम्।

भाग 3 — परीक्षा उपयोगी प्रश्न (Important Q&A)

3. अन्य महत्त्वपूर्ण प्रश्नोत्तराणि (Important Q&A & MCQs)

वस्तुनिष्ठ प्रश्न (MCQs), एकपदेन उत्तरत, पूर्णवाक्येन उत्तरत, प्रश्ननिर्माणम्, पाठ-सार-लेखनम् एवं परीक्षा उपयोगी व्याकरण।

अन्य महत्त्वपूर्ण प्रश्नोत्तराणि

I. बहुविकल्पात्मकप्रश्नाः—

1. मनुष्याणां शरीरस्थः महान् शत्रुः किम्? (माध्य. शिक्षा बोर्ड, 2025)

(अ) दौर्बल्यम् (ब) सौन्दर्यम् (स) आलस्यम् (द) उद्योगम्

2. मनुष्यः किं कृत्वा नावसीदति? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2023-24; प्रश्न बैंक)

(अ) उद्यमम् (ब) आलस्यम् (स) धैर्यम् (द) पराक्रमम्

3. उदयसमये अस्तसमये कः रक्तः भवति? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22)

(अ) चन्द्रः (ब) तारकः (स) सूर्यः (द) ध्रुवतारकः

4. गुणी किं वेत्ति? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22; प्रश्न बैंक)

(अ) धनं (ब) गुणं (स) ज्ञानं (द) आचारं

5. पिकः कस्य गुणं वेति?

(अ) ग्रीष्मस्य (ब) वसन्तस्य (स) वर्षायाः (द) काकस्य

6. सिंहस्य बलं कः जानाति?

(अ) गजः (ब) मूषकः (स) वायसः (द) मृगः

7. सम्पत्तौ विपत्तौ च केषाम् एकरूपता भवति? (प्रश्न बैंक)

(अ) बालकानाम् (ब) धनिकानाम् (स) बलीनाम् (द) महताम्

8. मृगाः कैः सङ्गमनुव्रजन्ति?

(अ) गोभिः (ब) मृगैः (स) सुधीभिः (द) अश्वैः

9. अमन्त्रं किं नास्ति?

(अ) वाणी (ब) मूलम् (स) वचनम् (द) अक्षरम्

10. उदीरितोऽर्थः केन अपि गृह्यते?

(अ) पण्डितेन (ब) अश्वेन (स) मानवेन (द) पशुना

11. नराणां प्रथमः शत्रुः कः? (प्रश्न बैंक)

(अ) गुणः (ब) द्वेषः (स) शमः (द) क्रोधः

उत्तर-तालिका

1. (स) 2. (अ) 3. (स) 4. (ब) 5. (ब) 6. (अ) 7. (द) 8. (ब) 9. (द) 10. (द) 11. (द)

--- [ पृष्ठ संख्या: 74 ] ---

II. शब्दार्थ-चयनम्-

प्रश्न:- अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत-

1. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

(अ) मित्रम् (ब) बन्धुः (स) शत्रुः (द) भ्राता

2. गुणी गुणं वेत्ति।

(अ) जानाति (ब) याति (स) करोति (द) गच्छति

3. पिको वसन्तस्य गुणं न वायसः।

(अ) कोकिलः (ब) काकः (स) शुकः (द) मयूरः

4. करी च सिंहस्य बलं न मूषकः।

(अ) गजः (ब) मृगः (स) अश्वः (द) गर्दभः

5. ध्रुवं स तस्यापगमे प्रसीदति।

(अ) नक्षत्रम् (ब) कदाचित् (स) निश्चितम् (द) अधुना

6. उदीरितः अर्थः पशुनापि गृह्यते।

(अ) कथितः (ब) अज्ञातः (स) लिखितः (द) पठितः

7. नागाः वहन्ति बोधिताः।

(अ) अश्वाः (ब) सिंहाः (स) गजाः (द) गर्दभाः

8. तुरगाः तुरङ्गैः सह अनुव्रजन्ति।

(अ) मृगाः (ब) वानराः (स) चित्रकाः (द) अश्वाः

9. उदये सविता रक्तः।

(अ) सागरः (ब) चन्द्रः (स) सूर्यः (द) सायम्

10. वीरः भारस्य वहने खरः।

(अ) अश्वः (ब) मृगः (स) वृषभः (द) गर्दभः

11. काष्ठगतो हि वह्निः।

(अ) अग्निः (ब) वायुः (स) जलम् (द) हिमम्

उत्तराणि-

1. (स) शत्रुः | 2. (अ) जानाति | 3. (ब) काकः | 4. (अ) गजः | 5. (स) निश्चितम् | 6. (अ) कथितः | 7. (स) गजाः | 8. (द) अश्वाः | 9. (स) सूर्यः | 10. (द) गर्दभः | 11. (अ) अग्निः।

---

III. भावार्थ-लेखनम्-

प्रश्न:- निम्नलिखितपद्यांशानां हिन्दीभाषायां सप्रसङ्गं भावार्थ लिखत-

(i) आलस्यं हि .................................................................................................................... नावसीदति॥

(ii) गुणी गुणं .................................................................................................................... न मूषकः॥

(iii) निमित्तमुद्दिश्य ............................................................................................................ परितोषयिष्यति॥

(iv) उदीरितोऽर्थः ............................................................................................................... हि बुद्धयः॥

(v) क्रोधो हि शत्रुः ............................................................................................................. शरीरम्॥

(vi) मृगाः मृगैः सङ्गं .......................................................................................................... व्यसनेषु सख्यम्॥

(vii) सेवितव्यो महावृक्षः ..................................................................................................... केन निवार्यते॥

(viii) अमन्त्रमक्षरं नास्ति ...................................................................................................... योजकस्तत्र दुर्लभः॥

(माध्य. शिक्षा बोर्ड, 2022)

(ix) सम्पत्तौ च विपत्तौ ........................................................................................................ रक्तश्चास्तमये तथा॥

(x) विचित्रे खलु संसारे ....................................................................................................... भारस्य वहने खरः॥

(माध्य. शिक्षा बोर्ड, 2025)

--- [ पृष्ठ संख्या: 75 ] ---

उत्तरम्-भावार्थ-[ नोट-उपर्युक्त सभी पद्यांशों के हिन्दी में सप्रसंग भावार्थ पूर्व में पाठ के हिन्दी-अनुवाद के साथ ही दिये जा चुके हैं, वहाँ से देखकर लिखिए।]

IV. अन्वय-लेखनम्-

प्रश्न:- अधोलिखितस्य श्लोकस्य अन्वयं कुरुत-

(क) सेवितव्यो महावृक्षः फलच्छायासमन्वितः।

यदि दैवात् फलं नास्ति छाया केन निवार्यते॥ (माध्य. शिक्षा बोर्ड, 2022)

उत्तरम्-अन्वयः-फलच्छायासमन्वितः महावृक्षः सेवितव्यः। दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।

(ख) विचित्रे खलु संसारे नास्ति किंचिन्निरर्थकम्

अश्वश्चेद् धावने वीरः भारस्य वहने खरः। (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2021-22)

उत्तरम्-अन्वयः-विचित्रे संसारे खलु किञ्चित् निरर्थकं नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति।

प्रश्न:- मञ्जूषातः समुचितपदानि चित्वा अधोलिखितश्लोकानाम् अन्वयं पूरयत-

(i) आलस्यं हि .................................................................................................... नावसीदति॥

अन्वयः-मनुष्याणां (i) .................... महान् शत्रुः (ii) .................... । उद्यमसमः (iii) .................... न अस्ति। यं कृत्वा (मनुष्यः) न (iv) ....................।

उत्तरम्- (i) शरीरस्थः, (ii) आलस्यम्, (iii) बन्धुः, (iv) अवसीदति।

अथवा (प्रश्न बैंक)

अन्वय-मनुष्याणां शरीरस्थः .................... शत्रुः आलस्यम्, उद्यमसमः .................... न अस्ति यं .................... न अवसीदति।

उत्तरम्-मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्, उद्यमसमः बन्धुः न अस्ति, यं कृत्वा न अवसीदति।

(ii) गुणी गुणं .................................................................................................... न मूषकः॥

अन्वयः-गुणी (i) .................... वेत्ति, निर्गुणः (गुणं) न वेत्ति, बली बलं वेत्ति, (ii) .................... (बलं) न वेत्ति, वसन्तस्य गुणं (iii) .................... (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं करी (वेत्ति), (iv) ....................न।

उत्तरम्- (i) गुणं, (ii) निर्बलः, (iii) पिकः, (iv) मूषकः।

(iii) निमित्तमुदिश्य .................................................................................................... परितोषयिष्यति॥

अन्वयः-यः (i) ....................उदिश्य प्रकुप्यति सः तस्य (ii) ....................ध्रुवं प्रसीदति, यस्य मनः (iii) ....................(अस्ति) तं जनः कथं (iv) ....................?

उत्तरम्-(i) निमित्तम्, (ii) अपगमे, (iii) अकारणद्वेषि, (iv) परितोषयिष्यति।

(iv) उदीरितोऽर्थः .................................................................................................... हि बुद्धयः॥

अन्वयः-पशुना अपि (i) ....................अर्थः गृह्यते, हयाः (ii) ....................च बोधिताः (भारं) वहन्ति, पण्डितः जनः (iii) ....................अपि ऊहति। बुद्धयः (iv) ....................(भवन्ति)।

--- [ पृष्ठ संख्या: 76 ] ---

उत्तरम्- (i) उदीरितः, (ii) नागाः, (iii) अनुक्तम्, (iv) परेङ्गितज्ञानफलाः।

(v) क्रोधो हि शत्रुः .................................................................................... शरीरम्॥

अन्वयः- नराणां देहविनाशाय (i) ........................ शत्रुः देहस्थितः (ii) ........................। यथा हि काष्ठगतः वह्निः स्थितः, (सैव) (iii) ........................ काष्ठम् एव दहते (तथैव शरीरस्थः क्रोधः) (iv) ........................ दहते।

वह्निः, प्रथमः, शरीरं, क्रोधः

उत्तरम्-(i) प्रथमः, (ii) क्रोधः, (iii) वह्निः, (iv) शरीरं।

(vi) मृगाः मृगैः .................................................................................... सख्यम्॥

अन्वयः-मृगाः (i) ........................ सङ्घम् अनुव्रजन्ति, गावः च (ii) ........................ (सङ्घमनुव्रजन्ति), तुरगाः (iii) ........................ (सङ्घमनुव्रजन्ति), मूर्खाः मूर्खैः (तथा च) सुधियः (iv) ........................ (सङ्घमनुव्रजन्ति)। सख्यम् समान-शील-व्यसनेषु (भवति)।

तुरङ्गैः, मृगैः, सुधीभिः, गोभिः

उत्तरम्- (i) मृगैः, (ii) गोभिः, (iii) तुरङ्गैः, (iv) सुधीभिः।

(vii) सेवितव्यो महावृक्षः .................................................................................... निवार्यते॥

अन्वयः-फलच्छाया (i) ........................ महावृक्षः (ii) ........................। देवात् (iii) ........................ फलं नास्ति। छाया (iv) ........................ निवार्यते।

यदि, समन्वितः, केन, सेवितव्यः

उत्तरम्- (i) समन्वितः, (ii) सेवितव्यः, (iii) यदि, (iv) केन।

(viii) अमन्त्रमक्षरं .................................................................................... दुर्लभः॥

अन्वयः-अमन्त्रम् (i) ........................ नास्ति, अनौषधम् (ii) ........................ नास्ति, अयोग्यः (iii) ........................ नास्ति, तत्र (iv) ........................ दुर्लभः।

पुरुषः, अक्षरं, योजकः, मूलं

उत्तरम्- (i) अक्षरं, (ii) मूलं, (iii) पुरुषः, (iv) योजकः।

(ix) सम्पत्तौ च .................................................................................... रक्तश्चास्तमये तथा॥

अन्वयः-महताम् (i) ........................ च विपत्तौ च (ii) ........................ (भवति)। (यथा) सविता (iii) ........................ रक्तः (भवति), तथा (iv) ........................ च रक्तः (भवति)।

उदये, सम्पत्तौ, अस्तमये, एकरूपता

उत्तरम्- (i) सम्पत्तौ, (ii) एकरूपता, (iii) उदये, (iv) अस्तमये।

प्रश्न-अधोलिखितश्लोकस्य अन्वयं मञ्जूषातः पदानि चित्वा पूरयत-

विचित्रे खलु संसारे किञ्चिन्निरर्थकम्।

अश्वश्चेद् धावने वीरः भारस्य वहने खरः।। ( माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2023-24 )

अन्वयः- विचित्रे (i) ........... किञ्चित् (ii) ........... नास्ति। खलु चेत् अश्वः (iii) ........... वीरः (अस्ति, तर्हि) (iv) ........... भारस्य वहने (वीरः)।

धावने, संसारे, खरः, निरर्थकम्

उत्तरम्-अन्वयः- विचित्रे संसारे किञ्चित् निरर्थकं नास्ति। खलु चेत् अश्वः धावने वीरः (अस्ति, तर्हि) खरः भारस्य वहने (वीरः)।

V. प्रश्ननिर्माणम्-

प्रश्नः-निम्नलिखित वाक्येषु रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

1. समानशीलव्यसनेषु सख्यं भवति।

--- [ पृष्ठ संख्या: 77 ] ---

( माध्य. शिक्षा बोर्ड, 2022 )

2. उद्यमेन समः बन्धुः नास्ति।

3. उद्यमं कृत्वा जनः नावसीदति।

4. निर्गुणः गुणं न वेत्ति।

5. बली बलं वेत्ति।

6. वसन्तस्य गुणं पिकः वेत्ति न वायसः।

7. सिंहस्य बलं करी वेत्ति न मूषकः।

8. सः निमित्तम् उद्दिश्य एव प्रकुप्यति।

9. उदीरितोऽर्थः पशुनाऽपि गृह्यते।

10. पण्डितो जनः अनुक्तमप्यूहति।

11. आलस्यं मनुष्याणां महान् रिपुः।

12. गुणी गुणं जानाति।

13. ध्रुवं सः तस्य अपगमे प्रसीदति।

14. बुद्धयः परेषितज्ञानफलाः भवन्ति।

15. नराणां प्रथमः शत्रुः क्रोधः अस्ति।

16. स एव वह्निः शरीरं दहते।

17. मृगाः मृगैः सङ्गमनुव्रजन्ति।

18. सुधियः सुधीभिः सह अनुगच्छन्ति।

19. अमन्त्रम् अक्षरं नास्ति।

20. तत्र योजकः दुर्लभः भवति।

उत्तरम्—प्रश्ननिर्माणम्—

1. केषु सख्यं भवति?

2. केन समः बन्धुः नास्ति?

3. किम् कृत्वा जनः नावसीदति?

4. निर्गुणः कम् न वेत्ति?

5. कः बलं वेत्ति?

6. कस्य गुणं पिकः वेत्ति न वायसः?

7. सिंहस्य बलं कः वेत्ति न मूषकः?

8. सः किम् उद्दिश्य एव प्रकुप्यति?

9. उदीरितोऽर्थः केन अपि गृह्यते?

10. कः जनः अनुक्तमप्यूहति?

11. किम् मनुष्याणां महान् रिपुः?

12. कः गुणं जानाति?

13. ध्रुवं सः कस्य अपगमे प्रसीदति?

14. के परेषितज्ञानफलाः भवन्ति?

15. केषां प्रथमः शत्रुः क्रोधः अस्ति?

16. स एव वह्निः कम् दहते?

17. मृगाः कैः सङ्गमनुव्रजन्ति?

18. के सुधीभिः सह अनुगच्छन्ति?

19. अमन्त्रम् किम् नास्ति?

20. तत्र योजकः कीदृशः भवति?

--- [ पृष्ठ संख्या: 78 ] ---