📖 1. समाधान: पाठ्यपुस्तकस्य प्रश्नोत्तराणि (अभ्यासः हल)
राजस्थान बोर्ड कक्षा 10 संस्कृत (शेमुषी भाग-2) — पाठ्यपुस्तक के सभी अभ्यास प्रश्नों के प्रामाणिक एवं विस्तृत उत्तर।
पाठ्यपुस्तकस्य प्रश्नोत्तराणि
प्रश्न 1. एकपदेन उत्तरं लिखत-
(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती?
(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
(ग) दुर्वार्-जलधाराभिः किम् उपस्थितम्?
(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तराणि-
(क) भूकम्पस्य
(ख) बहुभूमिकानि
(ग) महाप्लानदृश्यम्
(घ) भूकम्पस्य
(ङ) विवशाः
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) समस्तराष्ट्रं कीदृक् उल्लासे मग्नम् आसीत्?
उत्तरम्- समस्त राष्ट्रं स्वतन्त्रतादिवसपर्वणि नृत्यगीतवादित्राणाम् उल्लासे मग्नमासीत्।
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
उत्तरम्- भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।
(ग) पृथिव्याः स्खलनात् किं जायते?
उत्तरम्- पृथिव्याः स्खलनात् भूकम्पं तेन च महाविनाशं जायते।
(घ) समग्रो विश्वः कैः आतंकितः दृश्यते?
उत्तरम्- समग्रो विश्वः भूकम्पैः आतंकितः दृश्यते।
(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तरम्- ज्वालामुखीपर्वतानां विस्फोटैरपि भूकम्पो जायते।
प्रश्न 3. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (प्रश्न बैंक)
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(ग) विवशाः प्राणिनः आकाशे पिपिलिकाः इव निहन्यन्ते।
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
उत्तरम्-प्रश्ननिर्माणम्-
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?
(ख) के कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?
(ग) विवशाः प्राणिनः कुत्र पिपिलिकाः इव निहन्यन्ते?
(घ) कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?
(ङ) तदिदानीम् किम् विचारणीयं तिष्ठति?
प्रश्न 4. 'भूकम्पविषये' पञ्चवाक्यमितम् अनुच्छेदं लिखत।
उत्तरम्- भूमेः कम्पनमेव भूकम्पः कथ्यते। भूकम्पात् महाविनाशदृश्यं समुत्पद्यते, ज्वालामुखीपर्वतानां विस्फोटैरपि भूकम्पो जायते। विविधदेशेषु भीषणभूकम्पाद् लक्षपरिमितः जनाः अकालकालकवलिताः जाताः। प्रकृत्याम् असन्तुलनवशाद् भूकम्पस्सम्भवति। यदा पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि अशान्तानि भवन्ति तदा तानि महाविनाशम् उपस्थापयन्ति। अतः अस्माभिः प्रकृतेः शान्त्यर्थं प्रयासः करणीयः।
प्रश्न 5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत-
(क) समग्रं भारतं उल्लासे मग्नः .................... (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं .................... (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः .................... (भू + लङ्, प्रथमपुरुष बहुवचन)
[प्रश्न 5 तालिका]

--- [ पृष्ठ संख्या: 126 ] ---
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां············(भू + लट्, प्रथम पुरुष बहुवचन)
(ङ) मानवाः············यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम पुरुष बहुवचन)
(च) नदीवेगेन ग्रामाः तदुदरे············(सम् + आ + विश् + विधिलिङ्, प्रथम पुरुष एकवचन)
उत्तरम्—(क) अस्ति, (ख) कृतवती, (ग) अभवन्, (घ) भवन्ति, (ङ) पृच्छन्ति, (च) समाविशेत्।
प्रश्न 6. सन्धिं/सन्धिच्छेदं च कुरुत—
(अ) परसवर्णसन्धिनियमानुसारम्—
उत्तरम्—
(क) किञ्च = किम् + च
(ख) नगरन्तु = नगरम् + तु
(ग) विपन्नञ्च = विपन्नम् + च
(घ) किन्तु = किम् + नु
(ङ) भुजनगरन्तु = भुजनगरम् + तु
(च) सञ्चयः = सम् + चयः
(आ) विसर्गसन्धिनियमानुसारम्—
उत्तरम्—
(क) शिशवस्तु = शिशवः + तु
(ख) विस्फोटैरपि = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = सहस्रशः + अन्ये
(घ) विचित्रोऽयम् = विचित्रः + अयम्
(ङ) भूकम्पो जायते = भूकम्पः + जायते
(च) वामनकल्प एव = वामनकल्पः + एव
प्रश्न 7. (अ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत—
क | ख |
सम्पन्नम् | प्रविशन्तीभिः |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभिः | विपन्नम् |
निर्माय | नवनिर्मित भवनेषु |
क्षणेनैव | विनाशय |
उत्तरम्—
क | ख | |
सम्पन्नम् | — | विपन्नम् |
ध्वस्तभवनेषु | — | निर्मितभवनेषु |
निस्सरन्तीभिः | — | प्रविशन्तीभिः |
निर्माय | — | विनाशय |
क्षणेनैव | — | सुचिरेणैव |
(आ) 'क' स्तम्भे पदानि दत्तानि 'ख' स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत—
क | ख |
पर्याकुलम् | नष्टाः |
विशीर्णाः | क्रोधयुक्ताम् |
उद्गिरन्तः | संरोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटयन्तः |
उत्तरम्—
क | ख |
पर्याकुलम् | व्याकुलम् |
विशीर्णाः | नष्टाः |
उद्गिरन्तः | प्रकटयन्तः |
--- [ पृष्ठ संख्या: 127 ] ---
--- | ---
विदार्य - संत्रोट्य
प्रकुपिताम् - क्रोधयुक्ताम्
प्रश्न 8. (अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा-परिवर्तितवती - परि + वृत् + क्तवतु + ङीप् (स्त्री)
उत्तरम्-धृतवान् - धृ + क्तवतु
हसन् - हस् + शतृ
विशीर्णा - वि + शृ + क्त + टाप् (स्त्री)
प्रचलन्ती - प्र + चल् + शतृ + ङीप् (स्त्री)
हतः - हन् + क्त
(आ) पाठात् विचित्य समस्तपदानि लिखत-
उत्तरम्-महत् च तत् कम्पनं = महत्कम्पनम्
दारुणा च सा विभीषिका = दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु = ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे = प्राक्युगे
महत् च तत् राष्ट्रं तस्मिन् = महाराष्ट्रे
📝 2. हिन्दी-अनुवादः: अन्वय, शब्दार्थ व सप्रसंग सरलार्थ
प्रत्येक श्लोक एवं गद्यांश का संस्कृत अन्वय, कठिन शब्दार्थ, सप्रसंग हिन्दी अनुवाद एवं व्याकरण/भाषिक कार्यम्।
पाठ परिचय—प्रस्तुत पाठ हमारे वातावरण में होने वाले प्रकोपों (आपदाओं) में सबसे प्रमुख भूकम्प की भयानकत्ता को प्रकाशित करता है। प्रकृति में होने वाली आपदाएँ भयंकर प्रलय को उत्पन्न करके मानव-जीवन को अत्यन्त त्रस्त कर देती हैं, उनसे प्राणियों का सुखमय जीवन दुःखमय हो जाता है। इन आपदाओं में प्रमुख हैं- तूफान, भूकम्प, बाढ़, अतिवृष्टि, अनावृष्टि (अकाल), शिला-स्खलन (चट्टानें खिसकना), भूमि का फटना, ज्वालामुखी के विस्फोट आदि हैं। इस पाठ में भूकम्प के विषय में चिन्तन किया गया है कि यदि आपदा के समय हम घबराहट को छोड़कर साहस के साथ प्रयत्न करें तो कठोर भयानकत्ता से सुरक्षित हो सकते हैं।
कठिन-शब्दार्थ, हिन्दी अनुवाद एवं पठितावबोधनम्-
(1)
एकोत्तर द्विसहस्रख्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतंत्र-दिवस-पर्वणि यदा समग्रमपि भारत राष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदास्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण-विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिगर्भादुपरि निस्सरन्तीभिः दुर्वार जलधाराभिः-महाप्लावनदृश्यम् उपस्थितम्। सहस्रमिताः प्राणिनस्तु क्षणैव मृताः। ध्वस्तभवनेषु सम्पीड़िता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुक्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।
शब्दार्थाः
शब्द | अर्थ |
पर्वणि | पर्व पर (उत्सवे) |
समग्रमपि | सम्पूर्ण भी (सम्पूर्णोऽपि) |
गुर्जरराज्यम् | गुजरात राज्य (गुजरातराज्यं प्रान्तम्) |
पर्याकुलम् | चारों ओर से बेचैन (परितः व्याकुलम्) |
विपर्यस्तम् | अस्तव्यस्त (अस्तव्यस्तम्) |
क्रन्दनविकलं | रोने (क्रन्दन) से व्याकुल (चीत्कारेण व्याकुलम्) |
विपन्नम् | विपत्तिग्रस्त (विपत्तिग्रस्तम्) |
जातम् | हो गया था (अभवत्) |
दारुण-विभीषिका | भयानकत्ता से युक्त (भयङ्करः त्रासः) |
जनपदम् | जिला (जनपदम्) |
ध्वंसावशेषु | विनाश के बाद बची हुई वस्तुओं में (भग्नावशिष्टेषु) |
परिवर्तितवती | बदल गई थी (परिवर्तिता जाता) |
मृत्तिकाक्रीडनकमिव | मिट्टी के खिलौने के समान (मृत्तिकायाः क्रीडनकमिव) |
बहुभूमिकानि भवनानि | बहुमंजिले मकान (अनेकतलगृहाणि) |
क्षणैव | क्षणभर में ही (अल्पसमयेनैव) |
उत्खाताः | उखड़ गये (उत्पाटिताः) |
विद्युद्दीपस्तम्भाः | बिजली के खम्भे (दामिनी-दीप-यूपाः) |
विशीर्णाः | बिखर गये (नष्टाः) |
फालद्वये | दो खण्डों में (खण्डद्वये) |
निस्सरन्तीभिः | निकलती हुई (निर्गच्छन्तीभिः) |
दुर्वार | जिनको हटाना कठिन है (दुःखेन निवारयितुं योग्यम्) |
महाप्लावनम् | विशाल बाढ़ (महत्प्लावनम्) |
सहस्रमिताः | हजारों (सहस्रसंख्यकाः) |
क्षुक्षामकण्ठा | भूख से दुर्बल कण्ठ वाले (क्षुधाक्षामः कण्ठाः येषां ते, बुभुक्षया दुर्बलस्वरः) |
द्वित्राणि | दो-तीन (द्वे त्रीणि) |
हिन्दी अनुवादः
सन् 2001 ईस्वी वर्ष में गणतंत्र-दिवस के पर्व पर जब सम्पूर्ण भारत देश नृत्य, गाने-बजाने के उल्लास में मग्न था, तभी अचानक ही गुजरात राज्य चारों ओर से बेचैन, अस्त-व्यस्त, क्रन्दन से व्याकुल और विपत्तिग्रस्त हो गया था। भूकम्प की कठोर भयानकत्ता ने सम्पूर्ण गुजरात प्रदेश को और विशेष रूप से कच्छ जिले को विनाश के बाद शेष रही वस्तुओं (अवशेषों) में बदल दिया था। भूकम्प का केन्द्रभूत भुज नगर तो मिट्टी के खिलौने के समान खण्ड-खण्ड हो गया था। बहुमंजिले मकान क्षणभर में ही धराशायी हो गए। बिजली के खम्भे उखड़ गये। घरों की सीढ़ियाँ बिखर गईं। भूमि दो खण्डों में विभाजित हो गई। भूमि के अन्दर से (भूगर्भ से) निकलती हुई जिनको हटाना कठिन था,
--- [ पृष्ठ संख्या: 122 ] ---
ऐसी जलधाराओं से विशाल बाढ़ का दृश्य उपस्थित हो गया। हजारों प्राणी तो क्षण-भर में ही मर गये। ध्वस्त हुए भवनों में पीड़ित अन्य हजारों लोग सहायता के लिए अत्यधिक करुण-क्रन्दन कर रहे थे। हाय विधाता! भूख से दुर्बल कण्ठ वाले मृत के समान कुछ बालक तो ईश्वर की कृपा से ही दो-तीन दिन तक जीवित रह सके।
पठितावबोधनकार्यम्-
निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
प्रश्नाः-
(क) एकपदेन उत्तरत-
कस्मिन् पर्वणि समग्रमपि भारतम् उल्लासे मनमासीत्?
(ख) पूर्णवाक्येन उत्तरत-
भूकम्पस्य केन्द्रभूतं भुजनगरं तु कीदृशं जातम्? तथा कति प्राणिनस्तु क्षणैव मृताः?
(ग) भाषिककार्यम्-
(i) 'केचन शिशवः'-इत्यस्य क्रियापदं किम्?
(ii) 'बहुभूमिकानि' इति विशेषणस्य विशेष्यपदं किम्?
उत्तराणि-
(क) गणतन्त्रदिवसपर्वणि।
(ख) भूकम्पस्य केन्द्रभूतं भुजनगरं तु खण्डखण्डं जातम्। तथा सहस्रमिताः प्राणिनस्तु क्षणैव मृताः।
(ग) (i) धारितवन्तः। (ii) भवनानि।
( 2 )
इयमासीत् भैरवभीषिका कच्छभूकम्पस्य। पञ्चोत्तर- द्विसहस्रख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीरप्रान्ते पाकिस्तानदेशे च धरायाः महत्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमितः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धराया उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।
शब्दार्थाः
शब्दः | अर्थः |
भैरवभीषिका | भयंकर आपदा (भयानका आपदा) |
धरायाः | पृथ्वी का (भुवः) |
महत्कम्पनम् | बहुत अधिक कम्पन (प्रभूतं दोलनम्) |
जातम् | हुआ (अभवत्) |
लक्षपरिमितः | लाखों की संख्या में (शतसहस्रसंख्यकाः) |
अकालकालकवलिताः | असमय ही मृत्यु को प्राप्त हुए (असमये एव दिवंगताः) |
प्रकम्पते | काँपती है/हिलती है (दोलायते) |
अन्तर्गर्भे | केन्द्र भाग में (आन्तरिकभागे) |
बृहत्यः | विशाल (विशालाः) |
पाषाणशिला | पत्थर की शिलाएँ (प्रस्तरपट्टिकाः) |
संघर्षणवशात् | परस्पर घर्षण होने से (परस्परघर्षणात्) |
त्रुट्यन्ति | टूट जाती हैं (भज्जन्ति, खण्डखण्डं भवन्ति) |
संस्खलनम् | फिसलना, स्थान से हटना (विचलनम्) |
उपरितलमागत्य | ऊपर के तल पर आकर (बाह्यतलं प्राप्य) |
जनयति | उत्पन्न करता है (उत्पन्नं करोति) |
हिन्दी अनुवादः
यह तो कच्छ भूकम्प की भीषण विभीषिका थी। सन् 2005 ई. वर्ष में भी कश्मीर प्रान्त में और पाकिस्तान देश में भूमि का महान् कम्पन (भूकम्प) हुआ था। जिस कारण लाखों की संख्या में लोग असमय ही मृत्यु को प्राप्त हुए थे। पृथ्वी किस कारण से काँपती है, इस विषय में वैज्ञानिक कहते हैं कि पृथ्वी के अन्दर गर्भ में विद्यमान विशाल पत्थरों की शिलाएँ जब परस्पर में घर्षण के कारण टूट जाती हैं तब भीषण स्खलन (स्थान से हटना) होता है, और स्खलन से कम्पन उत्पन्न होता है। वही भयानक कम्पन पृथ्वी के ऊपरी तल (भूतल) पर आकर महान् कम्पन को उत्पन्न करता है जिससे महाविनाश का दृश्य उत्पन्न होता है।
पठितावबोधनकार्यम्-
प्रश्नाः-
(क) एकपदेन उत्तरत-
कस्मिन् वर्षे पाकिस्तानदेशे भूकम्पं जातम्?
(ख) पूर्णवाक्येन उत्तरत-
पृथिव्याः अन्तर्गर्भे काः विद्यमानाः सन्ति? तथा धरायाः महाकम्पनेन किम् समुत्पद्यते?
--- [ पृष्ठ संख्या: 123 ] ---
(ग) भाषिककार्यम्-
(i) 'पाषाणशिला' इति विशेष्यपदस्य विशेषणपदं किम्?
(ii) 'कथयन्ति' इति क्रियायाः गद्यांशे कर्तृपदं किमस्ति?
उत्तराणि-
(क) 2005 ई. वर्षे।
(ख) पृथिव्याः अन्तर्गर्भै बृहत्यः पाषाणशिलाः विद्यमानाः सन्ति। तथा धरायाः महाकम्पनेन महाविनाशदृश्यं समुत्पद्यते।
(ग) (i) बृहत्यः। (ii) वैज्ञानिकाः।
(3)
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्नियंदा खनिजमृत्तिका-शिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वार्गत्या धरां पर्वतं वा विदार्य बहिनिष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति।
निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
शब्दार्थाः
शब्दः | अर्थः |
ज्वालामुखीपर्वतानाम् | ज्वालामुखी पर्वतों के (अग्निमुखपर्वतानाम्) |
भूकम्पो जायते | धरती में कम्पन होता है (धरादोलनं भवति) |
भूकम्पविशेषज्ञाः | भूमि के कम्पन के रहस्य को जानने वाले (भुवः कम्पनस्य रहस्यज्ञातारः) |
खनिज | भूमि को खोदने से प्राप्त वस्तु (उत्खननात् प्राप्तं द्रव्यम्) |
क्वथयति | उबालती है, तपाती है (उत्प्तं करोति) |
उपेत्य | प्राप्त करके (प्राप्य) |
दुर्वार्गत्या | नहीं रोके जा सकने वाली गति से (अनियन्त्रितवेगेन) |
धराम् | भूमि को (भूमिम्) |
विदार्य | फाड़कर (विदीर्णं कृत्वा) |
बहिनिष्क्रामति | बाहर निकलती है (उपरि आगच्छति) |
धूमभस्मावृतम् | धुआँ और राख से घिरा हुआ (धूमेन भस्मेन च आवृतम्) |
गगनम् | आकाश (आकाशः) |
पार्श्वस्थग्रामा | समीप के गाँव (समीपस्थग्रामाः) |
उदरे | पेट में (जठरे) |
समाविशन्ति | समा जाते हैं (समाविष्टाः भवन्ति) |
निहन्यन्ते | मारे जाते हैं (म्रियन्ते) |
उद्गिरन्तः | प्रकट करते हुए (प्रकटयन्तः) |
हिन्दी अनुवादः
ज्वालामुखी पर्वतों के विस्फोटों से भी भूकम्प उत्पन्न होता है, ऐसा भूकम्प के रहस्य को जानने वाले वैज्ञानिक कहते हैं। पृथ्वी के गर्भ में विद्यमान अग्नि जब खनिज पदार्थों मिट्टी, शिला आदि के समूह को उबालती है तब वह सब कुछ ही लावारस के रूप को प्राप्त करके न रोके जा सकने वाली तीव्र गति से पृथ्वी अथवा पर्वत को फाड़कर बाहर निकलता है। तब आकाश धुआँ और राख से व्याप्त हो जाता है। 800 सेल्सियश तापमान तक पहुँचा हुआ यह लावारस जब नदी के वेग से बहता है तब समीप के गाँव अथवा नगर उसके पेट में क्षण-भर में ही समा जाते हैं।
और इससे विवश प्राणी मारे जाते हैं। ज्वाला को प्रकट करते हुए ये पर्वत भी भीषण भूकम्प को उत्पन्न करते हैं।
पठितावबोधनकार्यम्-
प्रश्नाः-
(क) एकपदेन उत्तरत-
ज्वालामुखपर्वतानां विस्फोटैरपि किं जायते?
(ख) पूर्णवाक्येन उत्तरत-
ज्वालामुद्गिरन्त एते पर्वता अपि किं जनयन्ति? तथा लावारसप्रवाहेण के निहन्यन्ते?
(ग) भाषिककार्यम्-
(i) 'भूकम्पविशेषज्ञाः' इति कर्तृपदस्य गद्यांशे क्रियापदं किम्?
(ii) 'प्राणिनः' इति विशेष्यपदस्य विशेषणं किमस्ति?
उत्तराणि-
(क) भूकम्पः।
(ख) ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति। तथा लावारसप्रवाहेण विवशाः प्राणिनः निहन्यन्ते।
(ग) (i) कथयन्ति। (ii) विवशाः।
--- [ पृष्ठ संख्या: 124 ] ---
( 4 )
यद्यपि दैवः प्रकोपः भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पसम्भवति। वस्तुतः शान्तानि एवं पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।
शब्दार्थाः
शब्दः | अर्थः |
दैवः | ईश्वरीय (ईश्वरीयः) |
प्रकोपः | अत्यधिक कोप (प्रकृष्टः कोपः) |
उपशमनस्य | शान्ति करने का (शान्तेः) |
अद्यापि | आज भी (अधुनापि) |
वामनकल्पः | बौना (ह्रस्वकायः सदृशः) |
भूकम्परहस्यज्ञाः | भूकम्प के रहस्य को जानने वाले (धरादोलनविदः) |
बहुभूमिकम् | बहुमंजिलों वाले (अनेकतलोपेता) |
निर्माय | बनाकर (निर्माणं कृत्वा) |
पुञ्जीकरणीयम् | इकट्ठा करना चाहिए (संग्रहणीयम्) |
क्षितिः | पृथ्वी (पृथ्वीः) |
पावक | अग्नि (अग्निः) |
समीर | वायु (वायुः) |
योगक्षेमाभ्याम् | अप्राप्त की प्राप्ति योग है तथा प्राप्त की रक्षा क्षेम है (अप्राप्तस्य प्राप्तिः प्राप्तस्य च रक्षणम्) |
तान्येव | वे ही (अमूनि एव) |
हिन्दी-अनुवादः
यद्यपि भूकम्प ईश्वरीय प्रकोप है, उसे शान्त करने का कोई भी स्थिर उपाय दिखाई नहीं देता है। प्रकृति के सामने विज्ञान से गर्वयुक्त मानव आज भी बौना ही है, फिर भी भूकम्प के रहस्य को जानने वाले वैज्ञानिक कहते हैं कि बहुमंजिलों वाले भवनों का निर्माण नहीं करना चाहिए। तटबन्धों को बनाकर बहुत अधिक नदी के जल को भी एक ही स्थान पर इकट्ठा नहीं करना चाहिए, अन्यथा असन्तुलन होने के कारण भूकम्प सम्भव होता है। वास्तव में शान्त रहने पर ही पञ्च-तत्त्व पृथ्वी, जल, अग्नि, वायु और आकाश पृथ्वी के योग-क्षेम के लिए ही कार्य करते हैं। अशान्त होने पर निश्चित रूप से वे ही पञ्च-तत्त्व महाविनाश उपस्थित करते हैं।
पठितावबोधनकार्यम्-
[ माध्य. शिक्षा बोर्ड, 2024 (सं.) ]
प्रश्नोत्तराणि:
प्रश्न (क) एकपदेन उत्तरं लिखत।
किं नाम भूकम्पः?
उत्तरम्— दैवः प्रकोपः।
प्रश्न (ख) पूर्णवाक्येन उत्तरं लिखत।
भूकम्पविशेषज्ञाः किं कथयन्ति?
उत्तरम्— भूकम्पविशेषज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पसम्भवति।
प्रश्न (ग) यथानिर्देशम् उत्तरं लिखत।
(i) "अशान्तानि महाविनाशम् उपस्थापयन्ति" इत्यत्र कर्तृपदं लिखत।
उत्तरम्— अशान्तानि।
(ii) "भूकम्पः सम्भवति" इत्यत्र क्रियापदं लिखत।
उत्तरम्— सम्भवति।
अथवा
प्रश्न (क) एकपदेन उत्तरत-
कस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते?
उत्तरम्— भूकम्पस्य।
प्रश्न (ख) पूर्णवाक्येन उत्तरत-
कानि भूतस्य योगक्षेमाभ्यां कल्पन्ते? तथा कानि महाविनाशम् उपस्थापयन्ति?
उत्तरम्— शान्तानि पञ्चतत्त्वानि भूतस्य योगक्षेमाभ्यां कल्पन्ते। तथा अशान्तानि पञ्चतत्त्वानि महाविनाशम् उपस्थापयन्ति।
प्रश्न (ग) भाषिककार्यम्-
(i) 'सम्भवति' इति क्रियापदस्य गद्यांशे कर्तृपदं किम्?
उत्तरम्— भूकम्पः।
(ii) 'विज्ञानगर्वितः' इति विशेषणस्य विशेष्यपदं किम्?
उत्तरम्— मानवः।
--- [ पृष्ठ संख्या: 125 ] ---
⭐ 3. अन्य महत्त्वपूर्ण प्रश्नोत्तराणि (Important Q&A & MCQs)
वस्तुनिष्ठ प्रश्न (MCQs), एकपदेन उत्तरत, पूर्णवाक्येन उत्तरत, प्रश्ननिर्माणम्, पाठ-सार-लेखनम् एवं परीक्षा उपयोगी व्याकरण।
अन्य महत्त्वपूर्ण प्रश्नोत्तराणि
I. बहुविकल्पात्मकप्रश्नाः-
1. कस्य उपशमनस्य स्थिरोपायः नास्ति? (माध्य. शिक्षा बोर्ड, 2025)
(अ) जलप्लावनम् (ब) रोगस्य (स) अज्ञानस्य (द) भूकम्पस्य
2. भूकम्पविभीषिका भारतदेशे कस्मिन् दिवसे अभवत्? (माध्य. शिक्षा बोर्ड, मॉडल पेपर, 2024-25)
(अ) स्वाधीनतादिवसे (ब) गणतन्त्रदिवसे (स) दिपावल्याः दिवसे (द) ग्रीष्मकालदिवसे
3. कस्य उपशमनस्य स्थिरोपायः नास्ति? (माध्य. शिक्षा बोर्ड, 2024; प्रश्न बैंक)
(अ) मानवस्य (ब) रोगस्य (स) आलस्यस्य (द) भूकम्पस्य
4. गुर्जर राज्ये कदा भूकम्पविभीषिका समुत्पन्ना?
(अ) 2000 ई. वर्षे (ब) 2001 ई. वर्षे (स) 2005 ई. वर्षे (द) 2010 ई. वर्षे
5. भूकम्पस्य केन्द्रभूतं किं नगरं खण्डखण्डं जातम्?
(अ) सूरतनगरं (ब) अहमदाबादनगरं (स) साकेतनगरं (द) भुजनगरं
6. कीदृशानि भवनानि क्षणैव धराशायीनि जातानि?
(अ) बहुभूमिकानि (ब) जीर्णानि (स) सुसज्जितानि (द) अल्पानि
7. कीदृशानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते?
(अ) अशान्तानि (ब) शान्तानि (स) पूजितानि (द) उग्राणि
8. कस्य समक्षमद्यापि मानवः वामनकल्प एव?
(अ) भूकम्पस्य (ब) समुद्रस्य (स) भगवतः (द) प्रकृतेः
9. कीदृशः प्रकोपः भूकम्पो नाम?
(अ) दैवः (ब) मानवीयः (स) दैत्यः (द) भौतिकः
10. दुर्वार्-जलधाराभिः किम् उपस्थितम्?
(अ) महासागरम् (ब) महाप्लावनम् (स) रत्नाकरम् (द) अन्नभण्डारम्
11. समग्रो विश्वः कैः आतंकितः दृश्यते?
(अ) शस्त्रैः (ब) धनिकैः (स) असुरैः (द) भूकम्पैः
12. केषां विस्फोटैरपि भूकम्पो जायते?
(अ) ज्वालामुखीपर्वतानां (ब) परमाणुशस्त्राणां (स) पर्वतानां (द) भवनानाम्
--- [ पृष्ठ संख्या: 128 ] ---
13. कश्मीरप्रान्ते कदा धरायाः महत्कम्पनं जातम्?
(अ) 2005 ई. वर्षे (ब) 2015 ई. वर्षे (स) 1995 ई. वर्षे (द) 2001 ई. वर्षे
14. ज्वालामुखीविस्फोटैः गगनं कीदृशं जायते? ( प्रश्न बैंक )
(अ) श्वेतम् (ब) धूमभस्मावृतम् (स) पीतम् (द) कृष्णम्
15. ‘भूकम्पविभीषिका’ इति पाठे कस्य क्षेत्रस्य वर्णनम् अस्ति? ( प्रश्न बैंक )
(अ) पंजाबक्षेत्रस्य (ब) गुर्जरक्षेत्रस्य (स) कश्मीरक्षेत्रस्य (द) राजस्थानक्षेत्रस्य
16. कीदृशाः प्राणिनः भूकम्पेन निन्यन्तः? ( प्रश्न बैंक )
(अ) सम्पन्नाः (ब) विवशाः (स) सुखिनः (द) दुःखिनः
उत्तर-तालिका
1. (द) 2. (ब) 3. (द) 4. (ब) 5. (द) 6. (अ) 7. (ब) 8. (द) 9. (अ) 10. (ब)
11. (द) 12. (अ) 13. (अ) 14. (ब) 15. (ब) 16. (ब)।
II. शब्दार्थ-चयनम्-
प्रश्नः- अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत-
1. अकस्मादेव गुर्जर-राज्यं विपर्यस्तं जातम्।
(अ) अस्तव्यस्तम् (ब) व्याकुलम् (स) भयानकम् (द) भग्नम्
2. उत्खाताः विद्युद्दीप्तस्तम्भाः।
(अ) उदण्डाः (ब) अवनता (स) उत्पाटिताः (द) उपरि आगता
3. विशीर्णाः गृहसोपानमार्गाः।
(अ) विलुप्ताः (ब) नष्टाः (स) विभाजिताः (द) विराजिताः
4. फालद्वये विभक्ता भूमिः।
(अ) समानान्तरे (ब) विपरीते (स) आयताकारे (द) खण्डद्वये
5. इयमासीत् भैरव-विभीषिका कच्छभूकम्पस्य।
(अ) भयानक (ब) बीभत्सा (स) भारवहा (द) बहुधा
6. धरायाः महत्कम्पनं जातम्।
(अ) गगनस्य (ब) मेघस्य (स) भुवः (द) भवनस्य
7. लक्षपरिमताः जनाः अकालकलकवलिताः।
(अ) दशसहस्रसंख्यकाः (ब) शतसहस्रसंख्यकाः (स) एककोटिसंख्यकाः (द) सहस्रसंख्यकाः
8. बृहत्यः पाषाणशिलाः त्रुटयन्ति।
(अ) बहुधाः (ब) लघुतमः (स) बहुसंख्यकाः (द) विशालाः
9. धूमभस्मावृतं जायते गगनम्।
(अ) आकाशम् (ब) मेघम् (स) पृथीतलम् (द) भवनम्
10. दैवः प्रकोपः भूकम्पो नाम।
(अ) दानवीयः (ब) मानवीयः (स) ईश्वरीयः (द) किमपि न
उत्तराणि-
1. (अ) अस्तव्यस्तम् 2. (स) उत्पाटिताः 3. (ब) नष्टाः 4. (द) खण्डद्वये 5. (अ) भयानक 6. (स) भुवः 7. (ब) शतसहस्रसंख्यकाः 8. (द) विशालाः 9. (अ) आकाशम् 10. (स) ईश्वरीयः।
III. प्रश्न-निर्माणम्-
प्रश्नः- रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
1. गणतंत्रदिवसपर्वणि भारतराष्ट्रम् उल्लासे मग्नमासीत्।
2. भूकम्पस्य दारुण-विभीषिका कच्छजनपदं ध्वंसावशेषु परिवर्तितवती।
3. भुजनगरं तु खण्डखण्डम् जातम्।
4. भूमिः फालद्वये विभक्ता।
--- [ पृष्ठ संख्या: 129 ] ---
5. जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्।
6. सहस्रमिताः प्राणिनः क्षणेनैव मृताः।
7. इयमासीत् भैरवविभीषिका कच्छभूकम्पस्य।
8. लक्षपरिमताः जनाः अकालकालकवलिताः।
9. तदा जायते भीषणं संस्खलनम्।
10. ज्वालामुखीपर्वतानां विस्फोटैरपि भूकम्पो जायते।
11. धूमभस्मावृतं जायते तदा गगनम्।
12. निहन्यन्ते च विवशाः प्राणिनः।
13. दैवः प्रकोपः भूकम्पो नाम।
14. बहुभूमिकभवनानां निर्माणं न करणीयम्।
15. अशान्तानि पञ्चतत्त्वानि महाविनाशम् उपस्थापयन्ति।
उत्तरम्-प्रश्ननिर्माणम्-
1. कदा भारतराष्ट्रम् उल्लासे मग्नमासीत्?
2. कस्य दारुण-विभीषिका कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती?
3. भुजनगरं तु कीदृशं जातम्?
4. का फालद्वये विभक्ता?
5. काभिः महाप्लावनदृश्यम् उपस्थितम्?
6. के क्षणेनैव मृताः?
7. इयमासीत् भैरवविभीषिका कस्य?
8. कति जनाः अकालकालकवलिताः?
9. तदा जायते कीदृशं संस्खलनम्?
10. केषां विस्फोटैरपि भूकम्पो जायते?
11. कीदृशं जायते तदा गगनम्?
12. निहन्यन्ते च कीदृशाः प्राणिनः?
13. कीदृशः प्रकोपः भूकम्पो नाम?
14. केषां निर्माणं न करणीयम्?
15. कानि महाविनाशम् उपस्थापयन्ति?
IV. पाठ-सार-लेखनम्-
प्रश्न:- 'भूकम्पविभीषिका' इति पाठस्य सारः हिन्दीभाषायां लिखत। (माध्य. शिक्षा बोर्ड, 2025)
उत्तर-पाठ-सार- 'भूकम्पविभीषिका' नामक पाठ में भूकम्प की भयानकता का वर्णन करते हुए उसके कारण एवं निवारण हेतु प्रयत्न किये जाने का उल्लेख हुआ है। पाठानुसार 26 जनवरी, 2001 को गुजरात प्रदेश में आये भयंकर भूकम्प से जन-जीवन अस्त-व्यस्त, क्रन्दन से व्याकुल और विपत्तिग्रस्त हो गया था। भूकम्प का केन्द्रभूत कच्छ जिले का भुजनगर तो खण्ड-खण्ड हो गया था। बहुमंजिले मकान धराशायी हो गये। बिजली के खम्भे उखड़ गये। भूमि फट गई। भूगर्भ से निकली हुई जलधाराओं से बाढ़ का दृश्य उपस्थित हो गया। हजारों प्राणी क्षण-भर में ही मर गये। हजारों घायल लोग सहायता के लिए अत्यन्त करुण-क्रन्दन कर रहे थे।
इसी प्रकार सन् 2005 ई. में भी कश्मीर प्रान्त और पाकिस्तान देश में भयंकर भूकम्प आया था। जिस कारण लाखों लोगों की असमय ही मृत्यु हो गई थी। भूकम्प के विषय में वैज्ञानिक कहते हैं कि पृथ्वी के अन्दर शिलाओं के घर्षण से स्खलन होता है तथा उससे कम्पन उत्पन्न होता है जो पृथ्वी के ऊपर आकर महाविनाश कर देता है। ज्वालामुखी पर्वतों के विस्फोटों से भी भूकम्प उत्पन्न होता है। वस्तुतः भूकम्प ईश्वरीय प्रकोप है, उसे शान्त करने का कोई स्थिर उपाय नहीं है, फिर भी प्रकृति में सन्तुलन बनाये रखने का हमें प्रयत्न करना चाहिए। प्रकृति के पञ्च तत्त्व शान्त रहने पर ही मानव-कल्याण सम्भव है। उन पञ्च तत्त्वों के अशान्त होने पर महाविनाश उत्पन्न होता है।
--- [ पृष्ठ संख्या: 130 ] ---