RajBoardExam
संस्कृत (Sanskrit)हिंदी माध्यम2026-27

RBSE Class 7 Sanskrit (Deepakam) Chapter 1 Solutions in Hindi — वन्दे भारतमातरम्

📅 अंतिम अपडेट: 2026-09-09📖 RBSE/NCERT Solutions

Class 7 Sanskrit Chapter 1 Question Answer वन्दे भारतमातरम्

Practicing these RBSEClass 7 Sanskrit Deepakam Solutionsand Class 7th Sanskrit Chapter 1 वन्दे भारतमातरम् Question Answer improves confidence in the subject.

Sanskrit Class 7 Chapter 1 Question Answer वन्दे भारतमातरम्

वन्दे भारतमातरम् Class 7 Question Answer

Class 7 Sanskrit Deepakam Chapter 1 Question Answer

वयम् अभ्यासं कुर्मः

प्रश्न 1.
अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु –
(क) पर्वतराजः कः ? ……………..
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति ? …………………..
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति ? ………………….
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ? ……………………….
(ङ) कृषकबान्धवाः भारतभूमिं कै: सिञ्चन्ति ? ……………………..
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ? ………………………….
(छ) सूर्यः कं विना नित्यं सञ्चरति ? ………………………………
उत्तराणि:
(क) हिमालय:
(ख) भारतमातुः
(ग) भारतदेशे
(घ) जयतु सैनिक:
(ङ) स्वेद बिन्दुभिः
(च) वैज्ञानिकानाम
(छ) विरामं

प्रश्न 2.
अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
(क) पवित्राः नद्यः का: ?
(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ?
(ग) धर्मचक्रं कं भावं बोधयति ?
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ?
(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?
(च) अन्त सर्वे किं गीतं गायन्ति ?
उत्तराणि:
(क) गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी,
महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः सन्ति ।
(ख) तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं विविध्यः प्रदेशेभ्यः असंख्याः जनाः आगच्छन्ति ।
(ग) धर्मचक्रं सततं कर्म कर्तव्यम्, श्रम एवं जीवनस्य मार्गः इति भावं बोधयति ।
(घ) कृषक बान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।
(ङ) भारतीयैः अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, आयुधशास्त्रे च विज्ञानस्य क्षेत्रेषु यशः प्राप्तम् ।
(च) अन्ते सर्वे गीतं गायन्ति –
वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः ।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ॥

प्रश्न 3.
रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु –
यथा – अस्माकं वत्सला भारतमाता । – केषां वत्सला भारतमाता ?:
(क) समुद्र: भारतमातुः चरणौ प्रक्षालयति । – ……………………………..
(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति । – …………………………..
(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः। – …………………………..
(घ) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् प्रेरयति । – ……………………………
(ङ) नदी कष्टानि सहमाना प्रवहति । – ………………………………
(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः । – ……………………………….
उत्तराणि:
(क) समुद्रः कस्याः चरणौ प्रक्षालयति ?
(ख) जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति ?
(ग) के भारतमातुः सर्वदा सेवां कृतवन्तः ?
(घ) ‘जयतु कृषक:’ इति वक्तुम कान् प्रेरयति ?
(ङ) कः कष्टानि सहमाना प्रवहति ?
(च) वयं गौरववर्धनार्थं किं कुर्मः?

प्रश्न 4.
अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु-

उत्तराणि:

वन्दे भारतमातरम् Diagram 1

वन्दे भारतमातरम् Diagram 2

प्रश्न 5.
अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां / प्रान्तीयभाषायाम् / आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु-
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति ।
(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते ।
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते ।
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति ।
(ङ) वयं भारते जन्म प्राप्तवन्तः ।
उत्तराणि:
(क) भारतभूमि में पवित्र नदियाँ बहती हैं
(ख) भारत के मस्तक पर हिमालय मुकुट के समान शोभायमान है ।
(ग) भारतभूमि में श्रेष्ठ पर्वत विराजमान हैं ।
(घ) राष्ट्रीय ध्वज में केसरिया, सफेद और हरे रंग होते हैं।
(ङ) हमने भारत में जन्म प्राप्त किया है।

प्रश्न 6.
अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु –

उत्तराणि:

वन्दे भारतमातरम् Diagram 3

वन्दे भारतमातरम् Diagram 4

प्रश्न 7.
पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु –

उत्तराणि:

वन्दे भारतमातरम् Diagram 5

वन्दे भारतमातरम् Diagram 6

प्रश्न 8.
अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु –


उत्तराणि:

वन्दे भारतमातरम् Diagram 7

वन्दे भारतमातरम् Diagram 8

वन्दे भारतमातरम् Diagram 9

Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम् Question Answer

शब्दार्थ – मेलनम्-

प्रश्नः – अधोलिखितानां शब्दानां समक्षं प्रदतैः अर्थेः सह मेलनं कुरुत-
शब्दाः — अर्थाः
(i) पर्वतराजः — श्वेतः
(ii) रत्नाकरः — पुण्यस्थानि
(iii) धवलः — समुद्रः
(iv) तीर्थक्षेत्राणि — राष्ट्रस्य पताकाः
(v) राष्ट्रध्वजः — हिमालयः
उत्तरम्:
शब्दाः — अर्थाः
(i) पर्वतराजः — हिमालयः
(ii) रत्नाकरः — समुद्रः
(iii) धवलः — श्वेतः
(iv) तीर्थक्षेत्राणि — पुण्यस्थानि
(v) राष्ट्रध्वजः — राष्ट्रस्य पताकाः

अतिलघूत्तरात्मक प्रश्ना:-
प्रश्न 1.
एक पदेन उत्तरत-
(i) राष्ट्रध्वजस्य मध्ये कः वर्णः ।
(ii) ‘जयतु सैनिक:’ इति कः वर्णः अस्मान् वक्तुं प्रेरयति ?
(iii) केषां परिश्रमेण भारतभूमिः समृद्धा सञ्जाता ?
(iv) राष्ट्रध्वजस्य चक्रे कति अराः सन्ति?
(v) शान्तेः सत्यस्य च द्योतकः कः वर्णः अस्ति ?
उत्तराणि:
(i) श्वेतवर्ण:,
(ii) केशरवर्ण:,
(iii) कृषकाणाम्,
(iv) चतुर्विंशति:,
(v) श्वेतवर्ण: ।

लघूत्तरात्मक प्रश्ना:

प्रश्न: पूर्णवाक्येन उत्तरत-

प्रश्न (i).
भारतभूमौ असंख्याः जनाः किमर्थम् आगच्छन्ति ?
उत्तरम्:
भारतस्य तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुम् अत्र असंख्याः जनाः आगच्छन्ति ।

प्रश्न (ii).
भारतस्य राष्ट्रध्वजे के वर्णाः विराजन्ते ?
उत्तरम्:
भारतस्य राष्ट्रध्वजे केशरः, श्वेतः,हरित: च वर्णाः विराजन्ते ।

प्रश्न (iii).
केशरवर्णः कस्य सूचकः अस्ति?
उत्तरम्:
केशरवर्णः त्यागपरम्परायाः शौर्यपरम्परायाः च सूचकः अस्ति ।

प्रश्न (iv).
ध्वजमध्यस्थः धवलवर्णः अस्मान् किं वक्तुं प्रेरयति ?
उत्तरम्:
ध्वजमध्यस्थः धवलवर्णः अस्मान् ‘जयतु वैज्ञानिक: ‘ इति वक्तुं प्रेरयति ।

प्रश्न (v).
धर्मचक्रं किं सन्देशं प्रयच्छति?
उत्तरम्:
धर्मचक्रं ‘जीवने श्रान्तेः, आलस्यस्य प्रमादस्य च स्थानं न भवतु’ इति सन्देशं प्रयच्छति ।

प्रश्न निर्माणम्-

प्रश्न 1.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत ।
(i) पर्वतराज हिमालयः भारमातुः मस्तके विराजते ।
(ii) भारतमातुः चरणौ रत्नाकरः प्रक्षालयति ।
(iii) अस्माकं वत्सला भारतमाता ।
(iv) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति ।
(v) चक्रे चतुर्विंशतिः अराः सन्ति ।
(vi) सूर्य: विरामं विना नित्यं सञ्चरति ।
उत्तरम्:
प्रश्ननिर्माणम्-
(i) पर्वतराज हिमालयः कस्याः मस्तके विराजते ?
(ii) भारतमातुः चरणौ कः प्रक्षालयति ?
(iii) केषाम् वत्सला भारतमाता ?
(iv) जनाः केषाम् धूलिं ललाटे स्थापयन्ति?
(v) चक्रे कति अराः सन्ति?
(vi) कः विरामं विना नित्यं सञ्चरति ?