RajBoardExam
संस्कृत (Sanskrit)हिंदी माध्यम2026-27

RBSE Class 7 Sanskrit (Deepakam) Chapter 10 Solutions in Hindi — दशमः कः

📅 अंतिम अपडेट: 2026-09-09📖 RBSE/NCERT Solutions

Class 7 Sanskrit Chapter 10 Question Answer दशमः कः

Practicing these RBSEClass 7 Sanskrit Deepakam Solutionsand Class 7th Sanskrit Chapter 10 दशमः कः Question Answer improves confidence in the subject.

Sanskrit Class 7 Chapter 10 Question Answer दशमः कः

दशमः कः Class 7 Question Answer

Class 7 Sanskrit Deepakam Chapter 10 Question Answer

वयम् अभ्यासं कुर्मः

प्रश्न 1.
कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु-
(क) कति बालकाः स्नातुं गताः ? (पञ्च, द्वादश, दश )
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन् ? (प्रथम:, दशमः, पञ्चम:)
(ग) दशमः कः आसीत्? (नायकः, पथिकः, नदी)
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? (नायकः, पथिकः, बालक:)
(ङ) बालकाः कां तीर्त्वा पारं गता: ? (पुष्करिणीम्, समुद्रम्, नदीम्)
उत्तराणि:
(क) दश
(ख) दशमः
(ग) नायकः
(घ) पथिकः
(ङ) नदीम्

प्रश्न 2.
पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु –
(क) दश बालकाः किमर्थं नदीम् अगच्छन् ?
(ख) नायकः किम् अपृच्छत्?
(ग) बालकाः स्नानाय कुत्र अगच्छन् ?
(घ) बालकाः किं निश्चयम् अकुर्वन् ?
(ङ) बालकाः कथं गृहम् अगच्छन्?
उत्तराणि:
(क) दश बालकाः स्नानाय नदीम् अगच्छन्।
(ख) नायकः अपृच्छत् ” अपि सर्वे बालकाः नदीम् उत्तीर्णा: ?”
(ग) बालकाः स्नानाय नदीम् अगच्छन् ।
(घ) बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः ।
(ङ) बालकाः आनन्देन गृहम् अगच्छन्।

प्रश्न 3.
पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु—

(क) करे ………………………
(ख) अनामिका ……………………………
(ग) करे …………………….. अङ्गुलिः भवति अङ्गुष्ठः।
(घ) कनिष्ठिका …………………………… अङ्गुलिः भवति ।
(ङ) करे ……………………………. अङ्गुलिः भवति मध्यमा ।
उत्तराणि:
(क) द्वितीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पञ्चमी
(ङ) तृतीया

दशमः कः Diagram 1

प्रश्न 4.
पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु-

(क) सप्ताहस्य प्रथमः दिवसः कः ? ……………………
(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति ? ………………….
(ग) सप्ताहस्य षष्ठः दिवसः कः ?……………………..
(घ) सप्ताहस्य कतमः दिवसः शनिवासरः अस्ति ? ……………………..
(ङ) सप्ताहस्य अन्तिमः दिवसः कः अस्ति ? …………………….
उत्तराणि:
(क) रविवासरः
(ख) प्रथमः
(ग) शुक्रवासरः
(घ) सप्तमः
(ङ) शनिवासरः

दशमः कः Diagram 2

प्रश्न 5.
वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु –

(क) मासेषु पञ्चमः मासः कः ? ………………………
(ग) मासेषु दशमः मासः कः ? ………………………….
(ङ) मासेषु अन्तिमः मासः कः ? …………………………
(ख) मार्गशीर्षः कतमः मासः अस्ति ? ……………………….
(घ) कार्त्तिकः कतमः मासः अस्ति ? …………………….
उत्तराणि
(क) श्रावण:
(ख) नवमः
(ग) पौष:
(घ) अष्टम:
(ङ) फाल्गुन:

दशमः कः Diagram 3

प्रश्न 6.
मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु –

(क) आङ्ग्लमासेषु दशमः मासः ……………………….
(ख) फरवरीमासः …………………………. मासः अस्ति ।
(ग) आङ्ग्लमासेषु अष्टमः मासः …………………………
(घ) सितम्बरमास: …………………………….. मासः अस्ति ।
(ङ) आङ्ग्लमासेषु अन्तिमः मासः ……………………..
उत्तराणि:
(क) अक्तूबर मासः
(ख) द्वितीय:
(ग) अगस्त मासः
(घ) नवमः
(ङ) दिसम्बर मास: ।

दशमः कः Diagram 4

प्रश्न 7.
अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु-
यथा – ( १ ) पाठशाला – एका पाठशाला
…………………. (१) पाठशाला अस्ति । तत्र ……………………. (३) अध्यापकाः सन्ति । साहित्यकक्षायां ………………………… (२०) छात्रा: सन्ति । एकस्मिन् दिने …………………….. (१) निरीक्षक: आगतवान्। तस्मिन् दिने साहित्यकक्षायां ……………………….. (१५) छात्राः उपस्थिताः। ………………….. (५) अनुपस्थिताः । निरीक्षक:……….. (१०) शब्दान् लेखितुम् उक्तवान् । …………………. (२) छात्रौ ………………(७) शब्दान् सम्यक् लिखितवन्तः । …………………… (१) छात्रः सर्वान् अपि ……………. (१०) शब्दान् सम्यक् लिखितवान् । अवशिष्टाः …………………… (१२) छात्राः …………………………. (९) शब्दान् सम्यक् लिखितवन्तौ ।
उत्तरम्:
एका पाठशाला अस्ति । तत्र त्रयः अध्यापकाः सन्ति । साहित्यकक्षायां विंशतिः छात्राः सन्ति । एकस्मिन् दिने एक: निरीक्षकः आगतवान् । तस्मिन् दिने साहित्यकक्षायां पञ्चदश छात्राः उपस्थिताः । पञ्च अनुपस्थिताः । निरीक्षक: दश शब्दान् लेखितुम् उक्तवान्। द्वौ छात्रौ सप्त शब्दान् सम्यक् लिखितवन्तौ । एकः छात्रः सर्वान् अपि दश शब्दान् सम्यक् लिखितवान् । अवशिष्टा: द्वादश छात्रा: नव शब्दान् सम्यक् लिखितवन्तः ।

Class 7 Sanskrit Chapter 10 दशमः कः Question Answer

शब्दार्थ – मेलनम्-

प्रश्न 1.
अधोलिखितशब्दानां समक्षं प्रदत्तैः अर्थैः सह उचितमेलनं कुरुत-
शब्दाः — अर्थाः
(i) स्वम् — विलीनः
(ii) विषण्णाः —निःशब्दम्
(iii) तूष्णीम् — आत्मानम्
(iv) प्रहृष्टाः — खिन्नाः
(v) मग्नः — आनन्दिताः
उत्तरम्:
शब्दाः — अर्थाः
(i) स्वम् — आत्मानम्
(ii) विषण्णाः — खिन्नाः
(iii) तूष्णीम् — निःशब्दम्
(iv) प्रहृष्टाः — आनन्दिताः
(v) मग्न: — विलीनः

अतिलघूत्तरात्मक प्रश्ना:-

प्रश्न 1.
एकपदेन उत्तरत-
(i) दश बालकाः किमर्थं नदीम् अगच्छन् ?
(ii) बालकाः कुत्र चिरं स्नानम् अकुर्वन् ?
(iii) कश्चित् बालकः कम् न अगणयत् ?
(iv) पथिकः कीदृशान् बालकान् दृष्ट्वा अपृच्छत् ?
(v) सर्वे बालकाः आनन्देन कुत्र अगच्छन् ?
उत्तराणि:
(i) स्नानाय
(ii) नदीजले
(iii) आत्मानम्
(iv) दु:खितान्
(v) गृहम्।

लघूत्तरात्मक प्रश्नाः-

प्रश्न: – पूर्णवाक्येन उत्तरत-

प्रश्न (i).
अपरः बालकः किं कृत्वा अन्यान् बालकान् अगणयत् ?
उत्तरम्:
अपरः बालकः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्।

प्रश्न (ii).
ते बालकाः कीदृशाः भूत्वा तूष्णीम् अतिष्ठन् ?
उत्तरम्:
ते बालकाः विषण्णाः भूत्वा तूष्णीम् अतिष्ठन् ।

प्रश्न (iii).
बालकान् दुःखितान् दृष्ट्वा कः अपृच्छत् ?
उत्तरम्:
बालकान् दुःखितान् दृष्ट्वा कश्चित् पथिकः अपृच्छत्।

प्रश्न (iv).
पथिकः बालकान् गणयितुं कम आदिशत् ?
उत्तरम्:
पथिकः बालकान् गणयितुं नायकम् आदिशत् ।

प्रश्न (v).
नायकः कति बालकान् एव अगणयत् ?
उत्तरम्:
नायक: नव बालकान् एव अगणयत् ।

प्रश्न निर्माणम्-

प्रश्न 1.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(i) दश बालकाः स्नानाय नदीम् अगच्छन् ।
(ii) बालकाः नदीजले स्नानम् अकुर्वन् ।
(iii) बालकाः तीर्त्वा पारं गताः ।
(iv) बालकः आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत्।
(v) नायकः आत्मानं न अगणयत् ।
(vi) पथिकः तत्र आगच्छत् ।
(vii) सर्वे बालकाः आनन्देन गृहम् अगच्छन् ।
उत्तराणि:
(i) कतयः बालकाः स्नानाय नदीम् अगच्छन् ?
(ii) बालकाः कुत्र स्नानम् अकुर्वन् ?
(iii) बालकाः तीर्त्वा कुत्र गता: ?
(iv) क: आत्मानं त्यक्त्वा अन्यान् बालकान् अगणयत् ?
(v) क: आत्मानं न अगणयत् ?
(vi) कः तंत्र आगच्छत् ?
(vii) सर्वे बालकाः कथं गृहम् अगच्छन् ?

निबन्धात्मक प्रश्ना:-

प्रश्न 1.
” दशमः कः” इति पाठस्य / कथायाः सारं हिन्दी भाषायां लिखत ।
उत्तरम्:
[ नोट- प्रस्तुत पाठ / कथा का सार पाठ – परिचय में दिया जा चुका है, वहाँ से देखकर लिखिए । ]