Class 7 Sanskrit Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम्
Practicing these RBSEClass 7 Sanskrit Deepakam Solutionsand Class 7th Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम् Question Answer improves confidence in the subject.
Sanskrit Class 7 Chapter 2 Question Answer नित्यं पिबामः सुभाषितरसम्
नित्यं पिबामः सुभाषितरसम् Class 7 Question Answer
Class 7 Sanskrit Deepakam Chapter 2 Question Answer
वयम् अभ्यासं कुर्मः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु –
(क) नरः कतिभिः वकारै: पूजितः भवति ? ……………………
(ख) पुरुषेण कति दोषाः हातव्याः ? …………………….
(ग) बुद्धिः केन शुध्यति ? ……………………………
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते? ………………………….
(ङ) आलस्यं केषां महान् रिपुः अस्ति ? ………………………..
उत्तराणि:
(क) पञ्चभि:
(ख) षड्
(ग) ज्ञानेन
(घ) घट:
(ङ) मनुष्याणां शरीरस्थो
प्रश्न 2.
निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु –
(क) नरः कथं पूजितो भवति ? …………………….
(ख) पुरुषेण के दोषाः हातव्या: ? ……………………….
(ग) कस्य बुद्धिः विस्तारिता भवति ? …………………………
(घ) किं कृत्वा मनुष्यः नावसीदति ? ………………………
(ङ) व्यासस्य वचनद्वयं किम् ?
उत्तराणि:
(क) नरः पञ्चभि वकारै: पूजितः भवति ।
(ख) पुरुषेण षड्दोषा: हातव्याः भवन्ति ।
(ग) ज्ञानिजनानाम् बुद्धिः विस्तारिता भवति ।
(घ) उद्यमं कृत्वा मनुष्यः नावसीदति ।
(ङ) व्यासस्य वचनद्वयं अस्ति – ” परोपकारः पुण्याय तथा परपीडनम् पापाय ।”
प्रश्न 3.
उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु –
उत्तरम् –


प्रश्न 4.
निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु –
(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति । ……………………………….
(ख) परिश्रमेण तुल्यः बान्धवः नास्ति । …………………………..
(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति । …………………………
(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम् । ………………………….
उत्तराणि:
(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
(ख) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
(ग) परोपकारः पुण्याय पापाय परपीडनम् ।
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेः एव दक्षिणम् । वर्ष तद् भारतं नाम ।
प्रश्न 5.
अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु –
यथा-वपुः — शरीरम्
(क) जलम् — ……………
(ख) लोचनम् — …………..
(ग) धनम् — …………..
(घ) बुद्धिः — ………………
(ङ) रिपुः — …………………
उत्तराणि:
(क) पयः
(ख) नेत्रम्
(ग) संपत्ति:
(घ) मति:
(ङ) शत्रुः

अत्र इदम् अवधेयम्
तृतीयाविभक्तेः शब्दरूपाणि उच्चैः पठन्तु स्मरन्तु च

प्रश्न 6.
अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु —
उत्तराणि:


प्रश्न 7.
कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु —
उत्तराणि:
उत्तरम् यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता ॥

प्रश्न 8.
उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु –
(क) आलस्यं हि मनुष्याणां शरीरस्थो ………………. रिपुः ।
(ख) …………………. वचने का दरिद्रता ।
(ग) यः पठति लिखति पृच्छति ……………………. |
(घ) स हेतुः सर्वविद्यानां …………………….. धनस्य च ।
(ङ) ……………………… बुद्धिर्ज्ञानेन शुध्यति ।
उत्तराणि:
(क) महान्
(ख) तस्मात् तदेव वक्तव्यं
(ग) पण्डितानुपाश्रयति
(घ) धर्मस्य च
(ङ) विद्यातपोभ्यां भूतात्मा
Class 7 Sanskrit Chapter 2 MCQ नित्यं पिबामः सुभाषितरसम्
शब्दार्थ- मेलनम्-
प्रश्नः – अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थः सह उचितमेलनं कुरुत-
शब्दाः — अर्थाः
(i) वपुषा — शत्रुः
(ii) भूतिम् — अकर्मण्यता
(iii) तन्द्रा — शरीरेण
(iv) अद्भिः — वैभवम
(v) रिपुः — जलैः
उत्तराणि:
शब्दाः — अर्थाः
(i) वपुषा — शरीरेण
(ii) भूतिम् — वैभवम
(iii) तन्द्रा — अकर्मण्यता
(iv) अद्भिः — जलैः
(v) रिपुः — शत्रुः
अतिलघूत्तरात्मक प्रश्ना:-
प्रश्नः
एक पदेन उत्तरत-
(i) मनः केन शुध्यति ?
(ii) वचने का न भवेत् ?
(iii) मनुष्याणां शरीरस्थो महान् रिपुः किम् ?
(iv) किम् कृत्वा मनुष्यः न अवसीदति ?
(v) परोपकारः कस्मै भवति ?
उत्तराणि:
(i) सत्येन,
(ii) दरिद्रता,
(iii) आलस्यम्,
(iv) उद्यमम्,
(v) पुण्याय ।
लघूत्तरात्मक प्रश्ना:
प्रश्न: — पूर्णवाक्येन उत्तरत-
प्रश्न (i).
भूतात्मा काभ्यां शुध्यति ?
उत्तरम्:
भूतात्मा विद्यातपोभ्यां शुध्यति ।
प्रश्न (ii).
घटः केन क्रमशः पूर्यते ?
उत्तरम्:
घटः जलबिन्दुनिपातेन क्रमशः पूर्यते ।
प्रश्न (iii).
सर्वे जन्तवः केन तुष्यन्ति ?
उत्तरम्:
सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
प्रश्न (iv).
केन समः बन्धुः नास्ति ?
उत्तरम्:
उद्यमेन समः बन्धुः नास्ति ।
प्रश्न (v).
‘परोपकारः पुण्याय पापाय परपीडनम्’ इति कस्य वचनम् ?
उत्तरम्:
इति व्यासस्य वचनम् ।
प्रश्न- निर्माणम्-
प्रश्न 1.
रेखाङ्क्षिपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत ।
(i) आलस्यं मनुष्याणां महान् रिपुः अस्ति ।
(ii) य: भूतिं इच्छति सः एतान् दोषान् परित्यजति ।
(iii) मनः सत्येन शुध्यति ।
(iv) परोपकार: पुण्यायः भवति ।
(v) बुद्धि ज्ञानेन शुध्यति ।
उत्तराणि:
(i) आलस्यं केषां महान् रिपुः अस्ति ?
(ii) कः एतान् दोषान् परित्यजति ?.
(iii) मनः केन शुध्यति ?
(iv) परोपकारः कस्मै भवति ?
(v) बुद्धि केन शुध्यति ?