Class 7 Sanskrit Chapter 3 Question Answer मित्राय नमः
Practicing these RBSEClass 7 Sanskrit Deepakam Solutionsand Class 7th Sanskrit Chapter 3 मित्राय नमः Question Answer improves confidence in the subject.
Sanskrit Class 7 Chapter 3 Question Answer मित्राय नमः
मित्राय नमः Class 7 Question Answer
Class 7 Sanskrit Deepakam Chapter 3 Question Answer
वयम् अभ्यासं कुर्मः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु –
(क) शुभं भवतु इति कः वदति ? ………………………
(ख) योगिता आचार्यां ‘किं शिक्षयतु’ इति वदति ? …………………………
(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति ? ………………………….
(घ) केषु सूर्यनमस्कारः श्रेष्ठ: ? …………………….
(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति ? ……………………
उत्तराणि:
(क) आचार्या
(ख) सूर्यनमस्कारम्
(ग) द्वादशानाम्
(घ) योगासनेषु
(ङ) स्वस्थम् ।
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु –
(क) सर्वे छात्रा: आचार्यां किं पृच्छन्ति ? ………………………….
(ख) सूर्यनमस्कारः इत्यनेन कः आशय: ? ………………………
(ग) आचार्या कं श्लोकं पाठयति ? ………………………..
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः ? ………………………..
(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते ? …………………………
उत्तराणि:
(क) सर्वे छात्रा: आचार्या पृच्छन्ति – ” आचार्ये ! किं अद्य भवान् अस्मान् योगासनं शिक्षयति ?”
(ख) ‘सूर्यनमस्कारः’ इत्यनेन द्वादशासनानां समाहारः तथा शारीरिक-मानसिक-आध्यात्मिक बलदायक क्रियायाः आशयः अस्ति ।
(ग) आचार्या निम्नलिखितं श्लोकं पाठयति- आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिन । आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते ॥ ”
(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः “ ॐ मित्राय नमः” अस्ति ।
(ङ) सूर्यनमस्कारेण शारीरिक, मानसिकं च आध्यात्मिकं बलं वर्धते ।
प्रश्न 3.
पाठात् समुचितं पदं चित्वा अधः रिक्तस्थानानि पूरयन्तु –
(क) प्रत्येकस्मात् ………………….. पूर्वम् एकः मन्त्रः भवति ।
(ख) वयं प्रतिदिनं ………………….. करवाम ।
(ग) स्वस्थं …………………… स्वस्थं …………….. च प्राप्नवाम ।
(घ) एकेन …………………… सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि ।
(ङ) आदित्यस्य …………………….. ये कुर्वन्ति दिने दिने ।
उत्तराणि:
(क) सूर्यनमस्कारात्
(ख) सूर्यनमस्कारं
(ग) शरीरं, मन:
(घ) श्लोकेन
(ङ) नमस्कारान्
अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु च ।

अत्र इदम् अवधेयम्
‘नमः’ शब्दस्य योगे चतुर्थी विभक्तिः भवति । यथा- भास्कराय नमः ।
प्रश्न 4.
पाठे विद्यमानानां ‘नमः’ युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु –
यथा — मित्राय नमः ।
(क) — ……………….
(ख) — ……………..
(ग) — ……………..
(घ) — ……………..
(ङ) — ……………..
(च) — ……………..
(छ) — ……………….
(ज) — ……………….
(झ) — ……………..
(ञ) — ………………..
(ट) — ……………..
उत्तराणि:
(क) रवये नमः ।
(ख) सूर्याय नमः ।
(ग) भानवे नमः ।
(घ) खगाय नमः ।
(ङ) पूष्णे नमः ।
(च) हिरण्यगर्भाय नमः ।
(छ) मरीचये नमः ।
(ज) आदित्याय नमः ।
(झ) सवित्रे नमः ।
(ञ) अर्काय नमः ।
(ट) भास्कराय नमः ।

प्रश्न 5.
उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु –
अग्निः, आचार्या, त्रिवर्णध्वजः, जनकः, वृक्षः, देवी, भगिनी, मातामही, जननी, पृथिवी, नदी
यथा — अग्नये नमः ।
(क) — ……………….
(ख) — ……………..
(ग) — ……………..
(घ) — ……………..
(ङ) — ……………..
(च) — ……………..
(छ) — ……………….
(ज) — ……………….
(झ) — ……………..
(ञ) — ………………..
(ट) — ……………..
उत्तराणि:
(क) आचार्यायै नमः ।
(ख) त्रिवर्णध्वजाय नमः ।
(ग) जनकाय नमः ।
(घ) वृक्षाय नमः।
(ङ) देव्यै नमः ।
(च) भगिन्यै नमः ।
(छ) मातामह्यै नमः ।
(ज) जनन्यै नमः ।
(झ) पृथिव्यै नमः ।
(ञ) नद्यै नमः ।

अत्र इदम् अवधेयम्
दानार्थे (दा-धातोः तथा च यच्छ्- धातोः योगे ) चतुर्थी – विभक्तेः प्रयोगः भवति ।
यथा — शिक्षक: छात्राय पुस्तकं ददाति ।
शिक्षकः छात्राय पुस्तकं यच्छति ।
प्रश्न 6.
कोष्ठके विद्यमानानां शब्दानां चतुर्थी – विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु –
उत्तराणि:
(क) माता याचकाय वस्त्रं ददाति ।
(ख) पौत्रः पितामह औषधं ददाति ।
(ग) अहं भगिन्यै उपायनं ददामि ।
(घ) पिता सेविकायै वेतनं ददाति ।
(ङ) त्वं मित्राय पुष्पं ददासि ।
(च) देवः भक्ताय आशीर्वादं ददाति ।
(छ) आरक्षक: चौराय दण्डं ददाति ।

प्रश्न 7.
उदाहरणानुसारं माता कस्मै / कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु-
उत्तराणि:
(क) माता पुत्र्यै धनं ददाति ।
(ख) माता पुत्राय धनं ददाति ।
(ग) माता पाचिकायै धनं ददाति ।
(घ) माता आपणिकाय धनं ददाति ।
(ङ) माता याचकाय धनं ददाति ।
(च) माता पितामह धनं ददाति ।

प्रश्न 8.
उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-
उत्तरम्-


Class 7 Sanskrit Chapter 3 मित्राय नमः Question Answer
शब्दार्थ – मेलनम्-
प्रश्न 1.
अधोलिखितशब्दानां समक्षं प्रदत्तैः अर्थैः सह उचितमेलनं कुरुत-
शब्दाः — अर्थाः
(i) प्रज्ञा — कल्याणम्
(ii) वीर्यम — नीरोगम्
(iii) स्वस्थम् — बुद्धिः
(iv) मरीचिः — पराक्रमः
(v) शुभम् — सूर्य:
उत्तरम्:
शब्दाः — अर्थाः
(i) प्रज्ञा — बुद्धिः
(ii) बीर्यम् — पराक्रमः
(iii) स्वस्थम् — नीरोगम्
(iv) मरीचिः — सूर्य:
(v) शुभम् — कल्याणम्
अतिलघूत्तरात्मक प्रश्ना:-
प्रश्न 1.
एकपदेन उत्तरत-
(i) ‘उपविशन्तु सर्वे ‘ इति का वदति ?
(ii) सूर्यनमस्कारं शिक्षितुं का कथयति ?
(iii) सूर्यनमस्कारस्य मन्त्रेषु चतुर्थः मन्त्रः कः ?
(iv) सूर्यनमस्कारमन्त्रेषु कति मन्त्राः सन्ति?
(v) सूर्यनमस्कारेण वयं कीदृशं मनः प्राप्नवाम?
उत्तराणि:
(i) आचार्या,
(ii) योगिता,
(iii) ॐ भानवे नम:,
(iv) द्वादश,
(v) स्वस्थम् ।
लघूत्तरात्मक प्रश्ना:-
प्रश्न – पूर्णवाक्येन उत्तरत-
प्रश्न (i).
आचार्य किं शिक्षयितुम् इच्छति?
उत्तरम्:
आचार्या सूर्यनमस्कारं शिक्षयितुम् इच्छति ।
प्रश्न (ii).
सूर्यनमस्कारः केषां समाहारः अस्ति ?
उत्तरम्:
सूर्यनमस्कारः द्वादशानाम् आसनानां समाहारः अस्ति
प्रश्न (iii).
सूर्यनमस्कारस्य द्वितीयः मन्त्रः कः अस्ति ?
उत्तरम्:
‘ॐ रवये नमः’ इति द्वितीयः मन्त्रः अस्ति ।
प्रश्न (iv).
सूर्यनमस्कारात् किं किं जायते?
उत्तरम्:
सूर्यनमस्कारात् आयुः, प्रज्ञा, बलं, वीर्यं तेजः च जायते ।
प्रश्न (v).
वयं प्रतिदिनं किं करवाम?
उत्तरम्:
वयं प्रतिदिनं सूर्यनमस्कारं करवाम |
प्रश्न निर्माणम्-
प्रश्न 1.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत ।
(i) छात्राः आचार्यां ” नमो नमः आचार्ये ” इति नमन्ति ।
(ii) आचार्या छात्रान् सूर्यनमस्कारं शिक्षयितुम् इच्छति ।
(iii) योगासनेषु सूर्यनमस्कारः श्रेष्ठः ।
(iv) सूर्याय नमः ।
(v) सूर्यनमस्कारे द्वादश आसनानि सन्ति ।
(vi) सूर्यनमस्कारेण शरीरं स्वस्थं भवति ।
उत्तराणि:
(i) छात्रा: आचार्यां कथं नमन्ति ?
(ii) आचार्या छात्रान् किम् शिक्षयितुम् इच्छति ?
(iii) केषु सूर्यनमस्कारः श्रेष्ठ: ?
(iv) कस्मै नमः ?
(v) सूर्यनमस्कारे कति आसनानि सन्ति?
(vi) केन शरीरं स्वस्थं भवति ?