Class 7 Sanskrit Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्
Practicing these RBSEClass 7 Sanskrit Deepakam Solutionsand Class 7th Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Question Answer improves confidence in the subject.
Sanskrit Class 7 Chapter 6 Question Answer क्रीडाम वयं श्लोकान्त्याक्षरीम्
क्रीडाम वयं श्लोकान्त्याक्षरीम् Class 7 Question Answer
Class 7 Sanskrit Deepakam Chapter 6 Question Answer
वयम् अभ्यासं कुर्मः
प्रश्न 1.
अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु –
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ? ………………………
(ख) धीमतां कालः कथं गच्छति ? ………………………..
(ग) केषां कालः निद्रया कलहेन वा गच्छति? ………………………..
(घ) खलस्य विद्या किमर्थम् ? ……………………………..
(ङ) सज्जनस्य विद्या किमर्थम् ? ………………………
(च) चन्द्रः केषां भूषणम् अस्ति ? …………………………….
(छ) सर्वधनप्रधानं किम् ? ………………………
उत्तराणि:
(क) निर्गन्धाः
(ख) काव्यशास्त्रविनोदेन
(ग) मूर्खाणाम्
(घ) विवादाय
(ङ) ज्ञानाय
(च) ताराणाम्
(छ) विद्याधनम्
प्रश्न 2.
अध: प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु –
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ?
(ख) मूर्खाणां कालः कथं गच्छति ?
(ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति ?
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?
(ङ) शनैः शनैः कानि साधनीयानि ?
उत्तराणि:
(क) विद्याहीनाः मनुष्याः निर्गन्धाः किंशुकाः इव न शोभन्ते ।
(ख) मूर्खाणां कालः व्यसनेन निद्रया कलहेन वा गच्छति ।
(ग) दुर्जन: विद्यायाः विवादाय, धनस्य मदाय, शक्तेः च परिपीडनाय उपयोगं करोति ।
(घ) येषां न विद्या, न तपः, न दानं, न ज्ञानं, न शीलं, न गुणः, न च धर्मः अस्ति, ते मनुष्याः मर्त्यलोके भारभूताः भवन्ति ।
(ङ) शनै: शनै: पन्थाः, कन्थाः, पर्वतलङ्घनं, विद्या, वित्तं च साधनीयानि ।
प्रश्न 3.
उचितान् वाक्यांशान् परस्परं संयोजयन्तु-
उत्तराणि


प्रश्न 4.
उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-
उत्तरम्-
(क) राजाकस्याःभूषणं भवति ?
(ख)कस्यविद्या ज्ञानाय भवति ?
(ग) विद्याकेषाम्गुरु: ?
(घ) ते मर्त्यलोके भुविकीदृशाःभवन्ति ।
(ङ)केन शोभन्ते ?
(च) सर्वस्य लोचनंकिम्?
(छ)काराजसु पूज्यते ?
(ज)केनधीमतां कालो गच्छति ?


प्रश्न 5.
मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु –
उत्तराणि:


प्रश्न 6.
उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु –
उत्तराणि


Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Question Answer
शब्दार्थ – मेलनम्-
प्रश्न 1.
अधोलिखितशब्दानां समक्षं प्रदत्तैः अर्थैः सह उचितमेलनं कुरुत-
शब्दाः — अर्थाः
(i) निर्गन्धाः — गर्वाय
(ii) किंशुकाः — गन्धहीनाः
(iii) धीमताम् — दुष्टः
(iv) मदाय — पलाशवृक्षाः
(v) खलः — बुद्धिमताम्
उत्तराणि:
शब्दाः — अर्थाः
(i) निर्गन्धाः — गन्धहीनाः
(ii) किंशुका: — पलाशवृक्षाः
(iii) धीमताम् — बुद्धिमताम्
(iv) मदाय — गर्वाय
(v) खलः — दुष्टः
अतिलघूत्तरात्मक प्रश्ना:-
प्रश्न 1.
एकपदेन उत्तरत-
(i) काव्यशास्त्रविनोदेन केषां कालः गच्छति ?
(ii) खलस्य धनं किमर्थं भवति ?
(iii) साधोः धनं किमर्थं भवति ?
(iv) राजसु का पूज्यते ?
(v) विद्या कस्य भूषणम् ?
उत्तराणि:
(i) धीमताम्,
(ii) मदाय,
(iii) दानाय,
(iv) विद्या,
(v) सर्वस्य ।
लघूत्तरात्मक प्रश्ना:-
प्रश्न: – पूर्णवाक्येन उत्तरत-
प्रश्न (i).
नराणां कया विना सौख्यं न जायते ?
उत्तरम्:
नराणां विद्यया विना सौख्यं न जायते ।
प्रश्न (ii).
केभ्यो विद्याभ्यासं समाचरेत् ?
उत्तरम्:
धर्मार्थमोक्षेभ्यो विद्याभ्यासं समाचरेत् ।
प्रश्न (iii).
पृथिव्याः भूषणं किम् ?
उत्तरम्:
पृथिव्याः भूषणं राजा अस्ति ।
प्रश्न (iv).
व्यये कृतेऽपि नित्यं किं वर्धते ?
उत्तरम्:
व्यये कृतेऽपि नित्यं विद्याधनं वर्धते ।
प्रश्न (v).
गुरूणां गुरुः का अस्ति?
उत्तरम्:
विद्या गुरूणां गुरुः अस्ति ।
प्रश्न- निर्माणम्-
प्रश्न 1.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(i) खलस्य धनं मदाय भवति ।
(ii) धीमतां कालः काव्यशास्त्रविनोदेन गच्छति ।
(iii) खलस्य विद्या विवादाय भवति ।
(iv) साधोः धनं दानाय भवति ।
(v) तारकाणां भूषणं चन्द्रः अस्ति ।
(vi) दुर्जनस्य विद्या परपीडनाय भवति ।
(vii) विद्याविहीनः मनुष्यः पशुः भवति ।
उत्तराणि:
(i) कस्य धनं मदाय भवति ?
(ii) धीमतां कालः कथं गच्छति ?
(iii) खलस्य विद्या किमर्थं भवति ?
(iv) साधोः धनं कस्य हिताय भवति ?
(v) तारकाणां भूषणं कः अस्ति ?
(vi) दुर्जनस्य विद्यां किमर्थं भवति ?
(vii) विद्याविहीनः मनुष्यः कः भवति ?