Rajasthan Board RBSE Class 12 Sanskrit अलंकारपरिचय

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्ना

प्रश्न 1.
अलङ्कारः सौन्दर्यवर्धक तत्त्वम् उच्यते–
(क) शब्दस्य
(ख) अर्थस्य।
(ग) शब्दार्थयोः
(घ) काव्यशास्त्रस्य
उत्तर:
(घ) काव्यशास्त्रस्य

प्रश्न 2.
‘उच्छल भूरि कीलालः शुशुभे वाहिनीपतिः’ इत्यस्मिन् उदाहरणे अलङ्कारः अस्ति
(क) यमकम्।
(ख) श्लेषः।
(ग) अनुप्रासः
(घ) सर्वे
उत्तर:
(ख) श्लेषः।

प्रश्न 3.
‘उत्प्रेक्षा’ शब्दस्य अर्थः अस्ति
(क) आरोपः
(ख) सम्भावना
(ग) सादृश्यम्
(घ) प्रदर्शनम्
उत्तर:
(ख) सम्भावना

प्रश्न 4.
विभावना अलङ्कारस्य स्वरूपं भवति
(क) कारणं विना कार्यकथनम्
(ख) कार्य विना कारण-कथनम्।
(ग) भावनां विना कार्यकथनम्
(घ) न कोऽपि।
उत्तर:
(क) कारणं विना कार्यकथनम्

प्रश्न 5.
धनिनोऽपि निरुन्मादा’ इत्यस्यां पंक्तौ अलङ्कारः अस्ति
(क) विभावना
(ख) उत्प्रेक्षा।
(ग) विशेषोक्तिः
(घ) रूपकम्।
उत्तर:
(ग) विशेषोक्तिः

रिक्तस्थानानि पूरयत-

  1. ………………………………….. धर्मान् अलङ्कारान् प्रचक्षते।
  2. अनुप्रासः ………………………………….. वैषम्येऽपि स्वरस्य यत्।
  3. श्लिष्टैः पदैरनेकार्थाभिधाने ………………………………….. इष्यते।
  4. विशेषोक्तिरखण्डेषु ………………………………….. फलावचः।
  5. अभवन् ………………………………….. उपमा परिकल्पकः।

उत्तर:

  1. काव्यशोभाकरान्,
  2. शब्द-साम्यं,
  3. श्लेष,
  4. कारणेषु,
  5. वस्तुसम्बन्धः।

लघूत्तरात्मकाः प्रश्नाः

प्रश्न 1.
अलङ्कारः कतिविधं भवति ?
उत्तर:
अलङ्कारः त्रिविधं भवति–

  • शब्दालंङ्कारः,
  • अर्थालङ्कारः,
  • उभयालङ्कारश्च।

प्रश्न 2.
प्रस्फुटं सुन्दरं साम्यं कस्मिन् अलङ्कारे भवति ?
उत्तर:
प्रस्फुटं सुन्दरं साम्यं उपमालङ्कारे भवति।

प्रश्न 3.
उत्प्रेक्षा अलङ्कारस्य लक्षणं लिखत।।
उत्तर:
भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना।

प्रश्न 4.
सामान्यं विशेषेण विशेषं वी सामान्येन कस्मिन् अलङ्कारे समर्थ्यते।
उत्तर:
सामान्यं विशेषेण विशेषं वा सामान्येन अर्थान्तरन्यासालङ्कारे समर्थ्यते।।

प्रश्न 5.
शशामवृष्ट्यापि विना दवाग्निः- अत्र कोऽलङ्कारः कथं च?
उत्तर:
अत्र वृष्टिकारणं वनाऽपि दवाग्निः कार्यस्य उत्पत्तिः भवति, अत: विभावना अलङ्कारः।

दीर्घोत्तरात्मकाः प्रश्नाः

प्रश्न 1.
उपमारूपकयोः अलङ्कारयोः भेदः सोदाहरणं लिखत।
उत्तर:
यत्र प्रस्फुटं सुन्दरं साम्यम् भवति तत्र उपमालङ्कारः कथ्यते। यत्र उपमानस्य आरोपणं उपमेये भवति तत्र रूपकं भवति। यद्यपि रूपकालङ्कारेऽपि साम्यं भवति किन्तु तत्र उपमानोपमेययोः मध्ये अभेदत्वात् साम्यस्य स्फुटप्रतीतिः न भवति। उपमायां तु साम्यस्य स्फुटप्रतीतिः भवति।।

उपमायाः उदाहरणं यथा-
हंसीव कृष्ण! ते कीर्तिः स्वर्गङ्गभवगाहते।

रूपकस्य उदाहरणं यथा-
संसार-विषवृक्षस्य ……………………………………… सज्जनैः सह।

प्रश्न 2,
अधोलिखित उदाहरणेषु अलङ्काराणां निर्धारणं कृत्वा तेषां लक्षणं लिखत –
(क) नवपलाशपलाशवनम्पुरः स्फुटपरागपरागतपङ्कजम्।
(ख) लिम्पन्तीव तमोऽङ्गानि, वर्षतीवाञ्जनं नभः। असत्पुरुष सेवेव दृष्टिविफलतां गता।।
(ग) क्व सूर्य प्रभवोवंशः? क्व चाल्पविषया मतिः। तितीर्घर्दुस्तरं मोहादुडुपेनास्मि सागरम्।।
उत्तर:
(क) अस्मिन् उदाहरणे यमकालङ्कारः अस्ति। यतोहि अत्र प्रथमपादे पलाशद्वयस्य अर्थद्वयमस्ति। प्रथमपलाशस्यार्थः ‘पत्रम्’ तथा द्वितीय ‘पलाश’ शब्दस्य अर्थः’पलाशवृक्षः’ अत्र अस्ति। आवृत्त-पलाशशब्दः सार्थकमस्ति। यमकालङ्कारस्य लक्षणं यथा–

सत्यर्थे पृथगर्थायाः ………………………………………. विनिगद्यते॥

(ख) अस्मिन् उदाहरणे उत्प्रेक्षालङ्कारः वर्तते। यतोहि अत्र अविद्यमानेन उपमानेन सह सम्भावना प्रदर्यते। अत्र अन्धकाराधिक्यं वर्णयन् सम्भावना कृता यत् तमः अङ्गानि लिम्पति इव, नभश्च मन्ये अञ्जनं वर्षति, दृष्टिश्च असत्पुरुषसेवा इव विफलता प्राप्ता। उत्प्रेक्षालङ्कारस्य लक्षणं यथा

“भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना”

(ग) अस्मिन उदाहरणे निदर्शनालङ्कारः अस्ति। यतोहि अत्र द्वितीयवाक्यं ‘उडुपेन सागरतरणं’ प्रथमवाक्यस्य ‘अल्पमत्या सूर्यवंशस्य वर्णनम्’ कृते समानतायाः बोधकः अस्ति। निर्दशनाया: लक्षणं यथा—

अभवन् वस्तुसम्बन्ध ………………………………… यथोदिता॥

प्रश्न 3.
अधोलिखितानां अलङ्काराणां लक्षणपुरस्सरं परस्परं भेदनिर्धारणम् कुरुत
(क) श्लेषयमकयोः भेदः
(ख) उपमारूपकयोः भेदः
(ग) उत्प्रेक्षारूपकयोः भेदः
(घ) विशेषोक्तिविभावनयोः भेदः
उत्तर:
(क) श्लेषालङ्कारस्य लक्षणम्
‘श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते।’ यमकालङ्कारस्य लक्षणम्

‘सत्यर्थे पृथगर्थायाः ………………………………… विनिगद्यते॥

भेदः-श्लेषालङ्कारे तु एकस्मिन् पदे एव अर्थद्वयम् अधिकं वा प्राप्यते, किन्तु यमकालङ्कारे परस्परं भिन्नार्थकयोः द्वयोः वर्णसंघातयोः क्रमेण आवृतिर्भवति अर्थात् आवृत्तपदानाम् अर्थः भिन्नं भिन्नं भवति।

(ख) [नोट-उपमा और रूपक का भेद प्रश्न संख्या 1 में दिया जा चुका है, वहाँ से देखकर लिखिए।]

(ग) [नोट-उत्प्रेक्षा और रूपक अलंकारों के लक्षण पूर्व में दिये गये हैं, अतः वहाँ से देखकर लिखिए।]
भेदः-उत्प्रेक्षायाम् उपमेय-उपमानयो एकात्मभावस्य सम्भावना प्रदर्यते, किन्तु रूपकालङ्कारे उपमानोपमेययो: स्वरूपतः भेदेऽपि अतिसाम्यप्रदर्शनाय काल्पनिकोऽभेदारोपो भवति।

(घ) विशेषोक्त्यलङ्कारस्य लक्षणम्
‘विशेषोक्तिरखण्डेषु कारणेषु फलावचः।’
विभावनालङ्कारस्य लक्षणम्
‘विभावना विना हेतुकार्योत्पत्तिर्यदुच्यते।

भेदः-विभावनालङ्कारे कारणं विनाऽपि कार्योत्पत्तिः जायते, किन्तु विशेषोक्तिरलङ्कारे कारणं भवति तथापि कार्योत्पत्तिः न जायते।

अन्य महत्त्वपूर्ण प्रश्नोत्तर

प्रश्न 1.
उपमान-उपमेययोः भेदे सादृश्यकथने कोऽलंकारः भवति? तस्य परिभाषा लेखनीया।।
उत्तर:
उपमानोपमेययोः भेदे सादृश्यकथने उपमाऽङ्कारः भवति। परिभाषा-”प्रस्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते।’

प्रश्न 2.
अधोलिखितेषु पंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. हंसीव कृष्ण ते कीर्तिः स्वर्गगङ्गामवगाहते।
  2. लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः।
  3. लताकुञ्ज गुञ्जन् मदवदलिपुञ्ज चपलयन्।

उत्तर:

  1. उपमा,
  2. उत्प्रेक्षा,
  3. अनुप्रासः

प्रश्न 3.
पदसमुदायेन यत्र अनेकार्थकथनं भवति तत्र कोऽलंकारः? तस्य परिभाषापि लेख्या।।
उत्तर:
तत्र श्लेषालंकारः भवति। परिभाषा यथा-
“श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते।”

प्रश्न 4.
अधोलिखितासु पंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. मृदुलतान्तलतान्तमलोकयत्।
  2. गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
  3. समानो मन्त्रः समितिः समानी।

उत्तर:

  1. यमकम्,
  2. उत्प्रेक्षा,
  3. अनुप्रासः।

प्रश्न 5.
‘नवपलाशपलाशवनं पुरः’ उदाहरणम् कस्यालंकारस्य?
उत्तर:
यमकालंकारस्य।

प्रश्न 6.
‘स सुरभिं सुरभि सुमनोभरैः”-इति कस्य उदाहरणमस्ति?
उत्तर:
यमकालंकारस्य।

प्रश्न 7.
काव्यशास्त्रे शब्दार्थयोः सौन्दर्यवर्धकं तत्त्वं किं कथ्यते?
उत्तर:
अलंकारः कथ्यते।

प्रश्न 8.
अलङ्काररहितं काव्यं विधवैव केन निरूपितम्?
उत्तर:
अग्निपुराणकारेण।

प्रश्न 9.
‘संसारविषवृक्षस्य द्वे एव रसवत् फले’ इत्यत्रालङ्कारः कः?
उत्तर:
रूपकः।

प्रश्न 10.
निम्नलिखितश्लोकेषु अलङ्कारनामोल्लेखं कुरुत

(i) बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति।
सम्भूयाम्भोधिमभ्येति महानद्या नागपगा।
उत्तर:
अर्थान्तरन्यासः अलंकारः।

(ii) म्रियते म्रियमाणे या त्वयि जीवति जीवति।
तां यदीच्छसि जीवन्त रक्षात्मानं ममासुभिः।
उत्तर:
यमकालङ्कारः।

(iii) नवपलाशपलाशवनं पुरः।
स्फुटपरागपरागतपङ्कजम्।

मृदुलतान्तलतान्तमलोकयत्।
स सुरभिं सुरभिं सुमनोभरैः।
उत्तर:
यमकालङ्कारः।

(iv) लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता।।
उत्तर:
उत्प्रेक्षालङ्कारः।

(v) मृदुव्यवहितं तेजो भोक्तुमर्थान्प्रकल्पते।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया।
उत्तर:
अर्थान्तरन्यासः अलंकारः

(vi) वनान्तशय्याकठिनीकृताकृती
कचाचितौ विष्वगिवागजौ गजौ।
कथं त्वमेतौ धृतिसंयमौ यमौ।
विलोकयन्नुत्सहसे न बाधितुम्।
उत्तर:
यमकालंकारः।

प्रश्न 11.
अधोलिखित पंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. लताकुञ्ज गुञ्जन् मदवदलिपुञ्ज चपलयन्।।
  2. लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
  3. हनुमानब्धिमतरद्, दुष्कृतं किं महात्मनाम्।

उत्तर:

  1. रूपकालंकारः।
  2. उत्प्रेक्षालंकारः।
  3. अर्थान्तरन्यासः अलंकारः।

प्रश्न 12.
अधोलिखित पंक्तिषु अलङ्कारस्य नामोल्लेखं कुरुत

  1. रमते न मरालस्य मानसं मानसं विना।।
  2. शब्दार्थी सत्कविरिव द्वयं विद्वानपेक्षते।
  3. कुंचित-कुंचितैः कच-कलापैः कमनीय-कपोलपालिः अनुचरः तोरणदुर्ग प्रयाति।।

उत्तर:

  1. यमकालंकारः।
  2. उपमा अलंकारः।
  3. अनुप्रासालङ्कारः।

प्रश्न 13.
एकपदेन अनेकार्थबोधनं कस्मिन् अलंकारे भवति? तस्य लक्षणम् अपि लिखत।।
उत्तर:
एकपदेन अनेकार्थबोधनं श्लेषालंकारे भवति। तस्य लक्षण यथा–
“श्लिष्टैः पदैरनेकार्थाभिधाने श्लेषः इष्यते।”

प्रश्न 14,
उपमेये उपमानस्य सम्भावना कस्मिन् अलंकारे भवति? तस्य लक्षणम् अपि लिखत।।
उत्तर:
उपमेये उपमानस्य सम्भावना उत्प्रेक्षालंकारे भवति। तस्य लक्षणं यथा ‘सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्।।

प्रश्न 15.
स्वरस्य वैषम्येऽपि शब्दानां समानता कस्मिन् अलंकारे भवति? तस्य लक्षणमपि लिखत।
उत्तर:
स्वरस्य वैषम्येऽपि शब्दानां समानता अनुप्रासालंकारे भवति। तस्य लक्षणं यथा “अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्।”

प्रश्न 16.
स्वरव्यंजनसमुदायस्य क्रमेणावृत्तिः कस्मिन् अलंकारे भवति? तस्य लक्षणमपि लिखत।।
उत्तर:
स्वरव्यंजनसमुदायस्य क्रमेणावृत्तिः यमकालंकारे भवति। तस्य लक्षणं यथा “सत्यर्थे पृथगर्थायाः स्वरव्यंजनसंहतेः। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते।।”

प्रश्न 17.
स्पष्टरूपेण कथितं सुन्दरं साम्यं कस्मिन् अलंकारे भवति? तस्य लक्षणमपि लिखत।
उत्तर:
स्पष्टरूपेण कथितं सुन्दरं साम्यम् उपमाऽलंकारे भवति। तस्य लक्षणं
यथा—
“प्रस्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते।”

प्रश्न 18.
उपमानोपमेययोः अभेदवर्णनं कस्मिन् अलंकारे भवति? तस्य लक्षणमपि लिखत।।
उत्तर:
उपमानोपमेययो: अभेदवर्णनं रूपकालंकारे भवति। तस्य लक्षणं यथा—
“तद्रूपकमभेदो ये उपमानोपमेययोः।।

प्रश्न 19.
सामान्यस्य विशेषेण, विशेषस्य सामान्येन वा समर्थन कस्मिन् अलंकारे भवति? तस्य लक्षणम् अपि लिखत।।
उत्तर:
सामान्यस्य विशेषेण, विशेषस्य सामान्येन वा समर्थनम् अर्थान्तरन्यासालंकारे भवति। तस्य लक्षणं यथा—
“सामान्यं वा विशेषो वा तदन्येन समर्थ्यते।
यत्र सोऽर्थान्तरन्यास साधणेतरेण वा।।”

प्रश्न 20.
अधोलिखितपंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे।
  2. निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव।
  3. दातारं दु:स्वप्नमिव न स्मरति।।
  4. अस्ति यद्यपि सर्वत्र नीरं नीरज-राजितम्।
  5. निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।
  6. क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
  7. इन्दुर्द्विलक्षे कुमुदस्य बन्धुर्यो यस्य मित्रं न हि तस्य दूरम्।
  8. अकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्।।
  9. भो भो कुसुमकोमलदन्तरुचः लता:।।
  10. नि:श्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
  11. अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम्।
  12. उच्छलद् भूरि कीलालः शुशुभे वाहिनीपतिः।।

उत्तर:

  1. उपमालंकारः।
  2. रूपकालंकारः।
  3. उपमालंकारः।
  4. अनुप्रासालंकारः।
  5. अनुप्रासालंकारः।
  6. रूपकालंकारः।
  7. अर्थान्तरन्यासः अलंकारः।
  8. उपमालंकारः।
  9. रूपकालंकारः।
  10. उपमालंकारः।
  11. रूपकालंकारः।
  12. श्लेषालंकारः।

प्रश्न 21.
आचार्यवामनः अलङ्कार’ इति शब्दस्य कः अर्थः उक्तवान्?
उत्तर:
आचार्यवामनः अलङ्कारशब्दस्यार्थः ”सौन्दर्यम् अलङ्कारः’ इति उक्तवान्।

प्रश्न 22,
काव्यप्रकाशकारः ‘अलङ्कार’ शब्दस्य कः अर्थः उक्तवान्?
उत्तर:
काव्यप्रकाशकारः अलङ्कार’ शब्दस्यार्थः ‘शोभाधायकः’ ‘रसस्य च उपकर्तारः’ इति उक्तवान्।।

प्रश्न 23.
कस्मिन् अलङ्कारे शब्दप्रयोगेण चमत्कारो भवति?
उत्तर:
यमकादिशब्दालंकारे शब्दप्रयोगेण चमत्कारो भवति।।

प्रश्न 24,
अलङ्काराः कतिविधाः भवन्ति?
उत्तर:
अलङ्काराः त्रिविधाः भवन्ति-

  • शब्दालंकारः,
  • अर्थालंकारः,
  • उभयालङ्कारश्च।।

प्रश्न 25.
अलंकारविहीनं काव्यं कीदृशम्?
उत्तर:
अलंकारविहीनं काव्यं विधवैव भवति।

प्रश्न 26.
स्वरव्यंजनसमुदायस्य क्रमानुसार आवृत्तिः कस्मिन् अलंकारे भवति?
उत्तर:
स्वरव्यंजनसमुदायस्य क्रमानुसारा आवृत्ति: यमकालंकारे भवति।

प्रश्न 27.
उत्प्रेक्षालङ्कारस्य कतिपयानि चिह्नानि लिख्यताम्।
उत्तर:
मन्ये, शङ्के, ध्रुवम्, इव, नूनमित्यादिभिः चिह्नः उत्प्रेक्षा व्यज्यते।

प्रश्न 28.
अधोलिखितपरिभाषासु रिक्तस्थानपूर्तिः कार्या

  1. अनुप्रासः ……………………………………. वैषम्येऽपि स्वरस्य यत्।
  2. सत्यर्थे ……………………………………. स्वरव्यंजनसंहतेः।
  3. ……………………………………. तेनैवावृत्तिर्यमकं विनिगद्यते।
  4. ……………………………………. पदैरनेकार्थाभिधाने श्लेष इष्यते।
  5. ……………………………………. साम्यमुपमेत्यभिधीयते।।
  6. तद्रूपकमभेदो यः …………………………………….।
  7. सम्भावनमथोत्प्रेक्षा …………………………………….।
  8. सामान्यं वा विशेषो वा …………………………………….।
  9. यत्र सोऽर्थान्तरन्यास …………………………………….।
  10. ……………………………………. शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्.।

उत्तर:

  1. शब्दसाम्यम्।
  2. पृथगर्थायाः।
  3. क्रमेण।
  4. श्लिष्टैः।
  5. प्रस्फुटं सुन्दरं।
  6. उपमानोपमेययोः।
  7. प्रकृतस्य समेन यत्।
  8. तदन्येन समर्थ्यते।।
  9. साधणेतरेण वा।
  10. अनुप्रासः।।

प्रश्न 29.
अधोलिखितासु पंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. उच्छलद् भूरि की लालः शुशुभे वाहिनीपतिः।
  2. निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः।
  3. स सुरभिं सुरभिं सुमनोभरैः।

उत्तर:

  1. श्लेषः,
  2. उपमा,
  3. यमकम्।

प्रश्न 30.
अधोलिखितासु पंक्तिषु अलंकारस्य नामोल्लेखं कुरुत

  1. संसार विषवृक्षस्य द्वे एव रसवत् फले, काव्यामृत रसास्वादः सङ्गमः सज्जनैः सह।।
  2. वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
  3. लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।

उत्तर:

  1. रूपकम्,
  2. अनुप्रासः,
  3. उत्प्रेक्षालंकारः।