Rajasthan Board RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार:

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः
प्रश्न 1.
ईश्वरविलासस्य रचनाकारः अस्ति
(क) श्रीसीतारामभट्ट पर्वणीकरः
(ख) श्रीकृष्णरामभट्टः
(ग) श्रीसूर्यनारायणशास्त्री
(घ) पण्डितविद्याधरशास्त्री।
उत्तर:
(क) श्रीसीतारामभट्ट पर्वणीकरः

प्रश्न 2.
‘कृष्णदूतम्’ नामकं काव्यस्य प्रणेता अस्ति
(क) श्रीसूर्यनारायणशास्त्री
(ख) पण्डितः विद्याधरशास्त्री
(ग) श्रीपद्मदत्तओझा
(घ) गोस्वामी हरिरायः।
उत्तर:
(क) श्रीसूर्यनारायणशास्त्री

प्रश्न 3.
‘लेनिनामृतम्’ इत्यस्य महाकाव्यस्य रचनाकारः अस्ति
(क) श्रीपद्मदत्तओझा
(ख) श्रीगोस्वामीहरिरायः
(ग) श्रीसूर्यनारायणशास्त्री
(घ) देवर्षिकलानाथशास्त्री।
उत्तर:
(क) श्रीपद्मदत्तओझा

प्रश्न 4.
‘महारथी’ इत्यस्य काव्यस्य रचनाकारः अस्ति
(क) डॉ. रसिकबिहारी जोशी
(ख) पण्डितगुलाबचन्द्र चूलेट
(ग) भट्टमथुरानाथशास्त्री
(घ) पण्डितविद्याधरशास्त्री।
उत्तर:
(ख) पण्डितगुलाबचन्द्र चूलेट

प्रश्न 5.
‘चन्द्रमहीपतिः’ उपन्यासः लिखितः अस्ति
(क) श्रीनिवासाचार्येण
(ख) पण्डितनवलकिशोरशास्त्रिणा
(ग) श्रीनारायणशास्त्रिणी
(घ) डॉ. प्रभाकरशास्त्रिणा
उत्तर:
(क) श्रीनिवासाचार्येण

प्रश्न 6.
भट्टमथुरानाथशास्त्रिणा प्रणीतः उपन्यासः अस्ति
(क) चन्द्रमहीपतिः
(ख) यात्राविलासम्
(ग) आदर्शरमणी
(घ) जीवनस्य पृष्ठद्वयम्।
उत्तर:
(ग) आदर्शरमणी

प्रश्न 7.
‘महाभिनिक्रष्मणम्’ नाट्यरचना अस्ति-
(क) देवर्षेः कलानाथशास्त्रिणः
(ख) पं. देवशर्मा वेदालङ्कारस्य
(ग) डॉ. शिवसागरत्रिपठिनः
(घ) श्रीपद्मशास्त्रिणः।।
उत्तर:
(क) देवर्षेः कलानाथशास्त्रिणः

प्रश्न 8.
‘जगगद्गुरु श्रीशङ्कराचार्यः’ विरचितम् अस्ति
(क) श्रीभट्टमथुरानाथशास्त्रिणा
(ख) देवर्षिकलानाथशास्त्रिणा
(ग) श्री प्रभाकरशास्त्रिणा
(घ) डॉ. वैकुण्ठशास्त्रिणा।
उत्तर:
(ग) श्री प्रभाकरशास्त्रिणा

प्रश्न 9.
‘इन्द्रविजयम्’ इत्यस्य प्रसिद्धः वैदिक विद्वान् अस्ति
(क) पं. दुर्गाप्रसादद्विवेदी
(ख) पं. मधुसूदन ओझा
(ग) पं. दुर्गाप्रसाद शर्मा
(घ) पं. वृद्धिचन्दशास्त्री।
उत्तर:
(ख) पं. मधुसूदन ओझा

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
डॉ. प्रभाकरशास्त्रिणा विरचिता कथा अस्ति
(अ ) आदर्श दम्पति
(ब) उमा
(ब) प्रतिवेशिनी
(द) आत्मवेदना।
उत्तर:
(द) आत्मवेदना।

प्रश्न 2.
‘द्वा-सुपर्णा’ इत्युपन्यासस्य रचनाकारः अस्ति
(अ) पं. वृद्धिचन्द्र शास्त्री
(ब) श्री विद्याधर शास्त्री
(स) डॉ. रामजी उपाध्यायः
(द) डॉ. प्रभाकर शास्त्री।
उत्तर:
(स) डॉ. रामजी उपाध्यायः

प्रश्न 3.
“जीवनस्य पृष्ठद्वयम्” इत्युपन्यासस्य रचनाकारः अस्ति
(अ) भट्ट मथुरानाथ शास्त्री
(ब) पं. गिरिधर शर्मा चतुर्वेदी
(स) पं. वृद्धिचन्द शास्त्री
(द) देवर्षिः कलानाथ शास्त्री।
उत्तर:
(द) देवर्षिः कलानाथ शास्त्री।

प्रश्न 4.
श्रीकृष्णरामभट्टस्य प्रसिद्धं महाकाव्यमस्ति
(अ) लघुरघुकाव्यम्
(ब) उद्योगलहरी
(स) श्रीमहावीरसौरभम्
(द) कच्छवंशमहाकाव्यम्।
उत्तर:
(द) कच्छवंशमहाकाव्यम्।

प्रश्न 5.
छात्रावस्थायामेव मित्रगणसाहाय्येन संस्कृत-रत्नाकर-पत्रिका प्रकाशिता–
(अ) भट्ट मथुरानाथ शास्त्री
(ब) पं. श्री सूर्यनारायण शास्त्री
(स) पं. गणेशराम शर्मा।
(द) पं. गिरिधर शर्मा चतुर्वेदी।
उत्तर:
(द) पं. गिरिधर शर्मा चतुर्वेदी।

प्रश्न 6.
जयवंशमहाकाव्यस्य रचनाकारः अस्ति
(अ) श्रीसीतारामभट्टपर्वणीकरः
(ब) श्रीकृष्णरामभट्टः
(स) श्रीभट्टमथुरानाथ शास्त्री
(द) पण्डितगुलाबचन्द्रचूलेट।
उत्तर:
(अ) श्रीसीतारामभट्टपर्वणीकरः

प्रश्न 7.
पं. श्रीसूर्यनारायणशास्त्रीविरचितं महाकाव्यमस्ति
(अ) कच्छवंशम्
(ब) राघवचरितम्
(स) मानवंशम्।
(द) हरनामामृतम्।
उत्तर:
(स) मानवंशम्।

प्रश्न 8.
आचार्यमधुकरशास्त्रिणा विरचितं प्रसिद्धं महाकाव्यमस्ति
(अ) लेनिनामृतम्।
(ब) श्रीमहावीरसौरभम्
(स) नृपविलासः।
(द) जरासन्धवधम्।
उत्तर:
(ब) श्रीमहावीरसौरभम्

प्रश्न 9.
‘यात्राविलासम्’ इति उपन्यासस्य प्रणेता अस्ति
(अ) गुलाबचन्द्रचूलेट
(ब) कलानाथशास्त्री
(स) भट्टमथुरानाथशास्त्री
(द) नवलकिशोरकांकरः।
उत्तर:
(द) नवलकिशोरकांकरः।

प्रश्न 10.
भट्टमथुरानाथशास्त्रिणा विरचितः प्रमुखः उपन्यासः अस्ति
(अ) आदर्शरमणी
(ब) जीवनस्य पृष्ठद्वयम्
(स) चन्द्रमहीपतिः
(द) द्वा-सुपर्णा।
उत्तर:
(ब) जीवनस्य पृष्ठद्वयम्

प्रश्न 11.
‘आदर्श-दम्पती’ इत्यस्य उपन्यासस्य लेखकः वर्तते
(अ) डॉ. पुष्करदत्तशर्मा
(ब) मेधाव्रताचार्यः
(स) पं. वृद्धिचन्द्रशास्त्री
(द) डॉ. रामजीउपाध्यायः।
उत्तर:
(स) पं. वृद्धिचन्द्रशास्त्री

प्रश्न 12.
संस्कृतविषये सर्वप्रथमं ‘डी-लिट्.’ इत्युपाधिना विभूषितः
(अ) डॉ. रामजीउपाध्याय
(ब) डॉ. प्रभाकरशास्त्री
(स) कलानाथशास्त्री
(द) डॉ. नारायणशास्त्री।
उत्तर:
(ब) डॉ. प्रभाकरशास्त्री

प्रश्न 13.
दूरदर्शने ‘दायरे’ इति सीरियलमाध्यमेन बहुचर्चितः–
(अ) डॉ. वैकुण्ठशास्त्री
(ब) डॉ. शिवसागर त्रिपाठी
(स) डॉ. प्रभाकरशास्त्री
(द) डॉ. हरिरामाचार्यः।
उत्तर:
(द) डॉ. हरिरामाचार्यः।

लघूत्तरात्मकप्रश्नाः
प्रश्न 1.
कस्मिन् खण्डकाव्ये जयपुरस्य तात्कालिकस्थितेः चित्रणं अस्ति?
उत्तर:
श्रीकृष्णरामभट्टविरचिते ‘जयपुरविलासः’ इति खण्डकाव्ये।

प्रश्न 2.
अधोलिखितरचनानां लेखकानां नामानि लेखनीयानि
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 1

प्रश्न 3.
देवर्षिः कलानाथः शास्त्री महाभागः कया रचनया राष्ट्रपतिपुरस्कारेण सम्मानितः?
उत्तर:
‘साहित्यवल्लरी’ इति रचनया।

प्रश्न 4.
अधोलिखितरचनानां लेखकानां नामानि लेखनीयानि।
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 2

प्रश्न 5.
पञ्चदशवर्षीये लघ्वस्थायामेव केन कविना ‘शिवपुष्पाञ्जलिः नामकं स्तोत्रं रचितम्?
उत्तर:
पण्डितविद्याधरशास्त्रिणा।।

प्रश्न 6.
अधोलिखितरचनानां लेखकानां नामानि लेखनीयानि।
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 3

प्रश्न 7.
कः कविः सोवियतभूमि नेहरू पुरस्कारेण सम्मानित:?
उत्तर:
श्री पद्मदत्त ओझा।

प्रश्न 8.
अधोलिखित रचनानां लेखकानां नामानि लिख्यन्ताम्।
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 4

प्रश्न 9.
अधोलिखितलेखानां प्रसिद्धैककैकमहाकाव्यस्य नाम लिखत।
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 5

प्रश्न 10.
अधोलिखितग्रन्थानां लेखकानां नामानि लिखत।
उत्तर:
RBSE Class 12 Sanskrit लौकिकसाहित्यम्-राजस्थानस्य अर्वाचीनसाहित्यकार 6

निबन्धात्मकप्रश्नाः

प्रश्न 1.
निम्नलिखितानां विदुषां व्यक्तित्वं कृतित्वञ्च संक्षेपेण लिखत

  1. श्रीनिवासाचार्यः।
  2. पं. नवलकिशोरशास्त्री कांकरः
  3. स्व. भट्टमथुरानाथशास्त्री
    अथवा
    भट्टमथुरानाथशास्त्रिणः संक्षिप्तपरिचयं दत्वा तस्य द्वयोः ग्रन्थयोः नामनी लिखत।
  4. देवर्षिः कलानाथशास्त्री
  5. स्व. पं. गिरिधरशर्मा चतुर्वेदी
  6. विद्याभूषण पं. गणेशराम शर्मा
  7. पण्डितः वृद्धिचन्द्रशास्त्री
  8. डॉ. पुष्करदत्त शर्मा
  9. डॉ. प्रभाकरशास्त्री
  10. पण्डितः दुर्गाप्रसाद द्विवेदी
  11. ण्डित मधुसूदन ओझा।
  12. डॉ. नारायणशास्त्री काङ्करः।
  13. डॉ. हरिराम आचार्य।
  14. श्रीसीतारामभट्ट पर्वणीकरः।
  15. राजवैद्यः श्रीकृष्णभट्टः।।
  16. पं. श्री सूर्यनारायणशास्त्री।
  17. पं. विद्याधरशास्त्री।
  18. आचार्यः मधुकरशास्त्री।
  19. श्रीपद्मदत्त ओझा (पद्मशास्त्री)।

उत्तर:
1. श्रीनिवासाचार्यः
श्रीनिवासाचार्यस्य जन्म राजस्थानस्य चुरू’ जनपदे अभवत्। अस्य पिता पण्डितः नौरंगण्यशास्त्री संस्कृतस्य प्रकाण्डः पण्डितः आसीत्। श्रीनिवासाचार्योपरि तस्य पूर्णः प्रभावः आसीत्।।

अतः एतेन 1933 ईशवीयस्य समीपे ‘चन्द्रमहीपतिः’ नाम्नः एकः उपन्यासः। रचितः। एतस्य प्रकाशनं स्वतन्त्रताप्राप्तेः पश्चात् अभवत्। अस्मिन् उपन्यासे राजकुमारस्य राजकुमार्याः च प्रणयप्रसङ्गस्य वर्णनम् प्रस्तुतम्। खलनायकस्य विधानमपि अत्र कृतम् यः प्रणयप्रसङ्गे बाधामुपस्थापयति। परं तु नायकः बाधां समुत्तीर्य नायिकया सह सुखेन मिलति। उपन्यासस्य नायकः राज्ञः नवेन्दुपालस्य पुत्रः चन्द्रः तथा च नायिका विलासपुरस्य राज्ञः रामपालस्य पुत्री कमला अस्ति। कान्तिसिंहः अस्ति खलनायकः।

अयं उपन्यासः यद्यपि गद्ये लिखितः परं तु मध्ये चित्रकाव्यस्य योजना, विशेषतः एकाक्षर-द्वयक्षरकाव्यस्य समावेशः रसभङ्गं करोति। सर्वतः पर्यालोचनेन इदं ज्ञायते यत् भाषाव्याकरणोपरि उपन्यासकारस्य पूर्वाधिकारः अस्ति।

2. पं. नवलकिशोरशास्त्री कांकरः
भवतः जन्म जयपुरनगरे 1961 संवत्सरे आषाढकृष्णत्रयोदश्यां तिथौ अभवत्। भवतः पिता पण्डितः गणेशनारायणशर्मा आसीत्। पण्डितः नवलकिशोरशास्त्री कांकरः लघुकाश्याः मूर्धन्यः विद्वान् अस्ति। गद्यसम्राट्-साहित्यकाव्यतीर्थ-व्याकरणशास्त्रीसाहित्याचार्य-इत्यादिभिः उपाधिभिः विभूषितः अस्ति एषः कविः।

भवान् राजकीये संस्कृतमहाविद्यालये राजगढे (अलवरजनपदे) किञ्चित्वर्षपर्यन्तं प्रधानाध्यापकपदे कार्यरतः आसीत्। पश्चात् जयपुरस्थिते पारीकविद्यालये, क्रमोन्नते पारीकमहाविद्यालये हिन्दीविषये संस्कृतविषये च अध्यापनकार्यम् अकरोत्। 1918 ईशवीये वर्षे अस्मात् महाविद्यालयात् एषः सेवानिवृत्तः।

अध्यापनेन सह साहित्यसर्जने अपि भवान् अग्रगण्यः। भवतः लेखनक्षेत्रम् अपि विस्तृतम् अस्ति। भवता विभिन्नेषु विषयेषु पञ्चाशताधिकाः कृतयः रचिताः सन्ति। भवान् राष्ट्रपतिपुरस्कारेणापि अलङ्कृतः अस्ति।

‘यात्राविलासम्’ भवता विरचितः एकः प्रौढः उपन्यासः अस्ति। अस्य प्रकाशनं 1993 ईशवीये वर्षे अभवत्। अत्र भवता स्वजीवनस्य एव यथार्थानाम् अनुभवानाम्। अङ्कनं कृतम्। वस्तुतः अयं उपन्यासः विभिन्नानां तीर्थस्थलानां यात्रा सम्बद्धा दर्शनसम्बद्धा च उत्कृष्टा रचना विद्यते।

3. स्व. भट्टमथुरानाथशास्त्री
कविशिरोमणे: स्वर्गीय-भट्टमथुरानाथशास्त्रिणः जन्म जयपुरे 1946 संवत्सरे आषाढमासे कृष्णपक्षे सप्तम्यां तिथौ अभवत्। भवता जयपुरे स्थित्वा लब्धप्रतिष्ठितविदुषां सान्निध्ये स्वशिक्षा गृहीता। भवतः गुरुजनेषु श्रीलक्ष्मीनाथ-द्रविडः, श्रीगोपीनाथशास्त्री-दाधीचः, श्रीहरदत्त ओझा-महाभागः, विद्यावाचस्पतिः मधुसूदन-ओझा महोदयाश्च प्रमुखाः आसन्। भवतः सुपुत्रद्वये वरिष्ठः श्रीदेवर्षिः कलानाथशास्त्री हिन्दीसंस्कृत-आंग्ल-भाषाणां ज्ञाता, प्रसिद्धः लेखकः चास्ति।

भट्ट मथुरानाथशास्त्रिणा ‘संस्कृतरत्नाकरस्य’ सम्पादनं 1933 ईशवीं प्रारभ्य 1989 ईशवीं यावत् कृतम्। भवता ‘संस्कृत-भारती’ पत्रिकायाः 2010 संवत्सरतः 2021 संवत्सरं यावत् सफलतापूर्वकं सम्पादनं कृतम्। भट्टमहाभागः आशुकविः आसीत्। तेन संस्कृते विभिन्नभाषाणां छन्दः सरलतया निपुणतया च प्रयुक्तः। उर्दूभाषायाः गजलपद्धत्याः, ब्रजभाषायाः सवैयायाः, पंजाबी-भाषायाः छन्दसः संस्कृते धाराप्रवाहरूपेण प्रयुज्य गतिशीलता प्रदत्ता।

‘आदर्शरमणी’ भट्टविरचितः एकः प्रमुखः उपन्यासः अस्ति। अस्य कथानकं बंगोपप्रान्तेन (बंगाल प्रान्तेन) सम्बन्धितम् अस्ति। अत्र रचनाकारेण नार्याः आदर्शजीवनस्य तस्याः त्यागमयप्रवृत्तेः वर्णनं कृतम् अस्ति। अस्मिन् उपन्यासे शरच्चन्द्रचटर्जी महोदयस्य स्पष्टः प्रभावः दृश्यते।

भट्टमथुरानाथशास्त्रिणः रचना-क्षेत्रम् अत्यन्तं विशालं विस्तृतञ्चास्ति। काव्यकथा-गद्य-निबन्ध-हास्य-एकांकी-आदिषु सर्वविधासु शास्त्रिणा लेखनकार्यं सम्पादितम्। सर्वेषां वर्णनम् अत्र न सम्भवम्। अतएव कतिपयानां प्रसिद्धानां ग्रन्थानां विवरणं नामशः अत्र प्रस्तूयते

  • साहित्यवैभवम्।
  • जयपुरवैभवम् (काव्यम्)
  • गोविन्दवैभवम् (भक्तिकाव्यम्)
  • आदर्शरमणी (उपन्यास)
  • भारतवैभवम् (ऐतिहासिकं गद्यकाव्यम्)
  • रसगङ्गाधर टीका (टीकाकार्यम्)
  • कादम्बरी (चषकवृत्तिः)
  • गाथारत्नसमुच्चयः

इत्यादयः तेषां प्रसिद्धग्रन्थाः सन्ति। भट्टमथुरानाथशास्त्रिणः देहावसानम् 1964 ईशवीयवर्षे जून मासे चतुर्थ्यां तिथौ अभवत्।

4. देवर्षिः कलानाथशास्त्री
देवर्षिः कलानाथशास्त्री स्व. भट्टमथुरानाथशास्त्रिणः सुपुत्रः अस्ति। भवतः जन्म ” जयपुरनगरे एव अभवत्। भवता 1952 वर्षे साहित्याचार्यस्य, 1957 वर्षे स्नातकोत्तरस्य (आंग्लभाषायाम्) परीक्षां समुत्तीर्य अनेकवर्षपर्यन्तं आंग्लभाषायाः प्रवक्तापदे अध्यापन पश्चाच्च राजस्थान-सर्वकारस्य भाषानिदेशालये निदेशकपदे कार्यमकुर्वन् 1994 वर्षे जुलाई मासे 31 तिथौ सेवानिवृत्तिं प्राप्तवान्।

पितृतुल्यः संस्कृतभाषायाः लेखनकार्ये निष्ठावता भवता नैकवर्षपर्यन्तं ‘स्वरमङ्गलायाः’ भारती-पत्रिकायाः च सफलं सम्पादनं कृतम्। ‘जीवनस्य पृष्ठद्वयम्’ भवता विरचितः एकः सुप्रसिद्ध रोचकः उपन्यासः अस्ति। अयम् उपन्यासः’ भारती’ पत्रिकायां धारावाहिकरूपेण प्रकाशितः जातः। अस्य उपन्यासस्य कथानकं शिष्यायाः ट्यूटरस्य च मध्ये प्रेमप्रसङ्गाधारितम् अस्ति।

देवर्षिः कलानाथशास्त्री महाभागः राष्ट्रपतिपुरस्कारेण सम्मानितः। ‘साहित्यवल्लरी’ नामाख्यकृतिरचनया एषः संस्कृतसाहित्यस्य सम्माननीयं पुरस्कार प्राप्तवान्।

5. महामहोपाध्यायः स्व. पं. गिरिधरशर्मा चतुर्वेदी
भवतः जन्म जयपुरनगरे 1939 विक्रमसंवत्सरे अभवत्। भवतः पिता गोकुलचन्द्रः चतुर्वेदी आसीत्। भवतः शिक्षा-दीक्षा जयपुरे एव अभवत्। भवान् जयपुरस्थितमहाराजसंस्कृतमहाविद्यालयात् व्याकरणाचार्य-परीक्षा प्रथमश्रेण्याम् उत्तीर्ण कृतवान्। भवतः गुरुजनेषु, पण्डितः मधुसूदनओझा-पण्डितः शिवकुमार शर्मा, पं. दामोदरशास्त्री-पं. गोविन्दशास्त्री, प्रमुखाः सन्ति।

छात्रावस्थायामेव मित्रगणसाहाय्येन ‘संस्कृत-रत्नाकरः’ नाम्ना पत्रिका भवता प्रकाशिता सम्पादिता च। पश्चात् भट्ट-मथुरानाथशास्त्रिणा इयं पत्रिका कुशलतापूर्वक सम्पादिता।

चतुर्वेदीमहोदयेन 1907 ई. वर्षतः आरभ्य 1944 ई. वर्षतः पर्यन्तम् विभिन्नस्थानेषु अध्यापनकार्यं कृतम्। 1928 ईशवीये वर्षे भवान् महाराजासंस्कृतमहाविद्यालयस्य अध्यक्षः नियुक्तः। 1944 ईशवीये वर्षे अत्रतः सेवानिवृत्तः। सेवानिवृत्यनन्तरं हिन्दूविश्वविद्यालयस्य काश्याः संस्कृतानुसन्धानविभागस्य अध्यक्षता अपि चतुर्वर्षपर्यन्तं भवता कृता।

काशीनरेशस्य विशेषानुरोधे पौराणिकान् विषयान् अधिकृत्य भवता नैकाः ग्रन्थाः विरचिताः। भवता विरचितेषु ग्रन्थेषु ‘प्रमेयपारिजातम्’, ‘वेदविज्ञानबिन्दुः’, ‘वैदिकविज्ञानम्’, ‘भारतीयसंस्कृतिः’—आदयः ग्रन्थाः विशेषरूपेण उल्लेखनीयाः सन्ति।’ भारतीय संस्कृतिः’ इत्यस्मिन् ग्रन्थे भवान् केन्द्रीय संस्कृत अकादमीतः पुरस्कृतः जातः। भारतस्य राष्ट्रपतिना सर्वप्रथमं संस्कृतम् अधिकृत्य भवतः सम्मानम् कृत।
भवता विरचितं कहानीद्वयं प्रसिद्धम् अस्ति–

  • पितुरुपदेशः,
  • कश्चित् कविः

6. स्व. विद्याभूषण पं. गणेशरामशर्मा
राजस्थानस्य कहानीलेखकेषु पण्डितगणेशरामशर्मणः नाम अग्रगण्यम् अस्ति। भवतः जन्म 1908 ईशवीये वर्षे मार्चमासे 27 तिथौ राजस्थानस्य डूंगरपुरजनपदे अभवत्। भवतः पिता केदारलालशर्मा राजपण्डितः आसीत्। भवतः शिक्षा जयपुरे अभवत्।।

भट्टमथुरानाथशास्त्रिणा काव्यरचनायाः प्रेरणा प्राप्ता। तत्र भवतः प्रेरणया एव पण्डितशर्मणा विविधछन्दःसु रचनाः कृताः। भवता संस्कृतभाषायां नैक-काव्यनिबन्धाः लघुकथाश्च विरचिताः। डूंगरपुरनरेशद्वारा भवतः सम्मानः जातः। भवता 1950 ईशवीवर्षे महारावलस्य लक्ष्मणसिंहस्य रजतजयन्तीसमारोहे अभिनन्दग्रन्थः सम्पादितः। 1949 ईशवीये वर्षे झालवाडस्य इण्टरमहाविद्यालये संस्कृतस्य प्राध्यापकः नियुक्तः, ततः 1977 ईशवीये वर्षे सेवानिवृत्तः।।

भवता विरचितेषु काव्येषु-महिषर्मदिनी-स्तुतिः मोहनाभ्युदयम्, सुशीलोद्वाहमङ्गलम्, आशीः कुसुमाञ्जलिः आदयः प्रमुखग्रन्थाः सन्ति। भवतः विंशतिः कथानां संग्रहः ‘राजस्थान-संस्कृत-अकादमीतः’–संस्कृत कथाकुञ्जम्’ नाम्ना प्रकाशितः।

7. पण्डित वृद्धिचन्दशास्त्री|
भवतः जन्म 1961 संवत्सरे जयपुरे अभवत्। बाल्यकालः वर्धानगरे व्यतीतः। भवतः प्रारम्भिक शिक्षा तत्रैव अभवत्। एकादशवर्षस्य अल्पावस्थायां भवतः पितुः देहावसानम् अभवत्। तत्पश्चात् जयपुरे निवर्तनम् अभवत्। अत्रतः 1984 संवत्सरे शास्त्रिपरीक्षामुत्तीर्य, 1987 संवत्सरे व्याकरणाचार्यस्य परीक्षायां सफलताम् अधिगतवान्।

भवान् 1931 ईशवीवर्षे चमडिया-संस्कृत-महाविद्यालये, फतेहपुरे प्राचार्यपदे नियुक्तः 1933 ईशवीये वर्षे जयपुरस्थिते महाराजसंस्कृतमहाविद्यालये व्याकरणाध्यापकरूपेण कार्यारम्भं कृतवान्। अत्रतः 1961 धर्मशास्त्रस्य विभागाध्यक्षपदात् सेवानिवृत्तः। 1964 ईशवीये वर्षे जनवरीमासे 28 तिथौ अमृतलोकं प्राप्तवान्।

अध्यापनादतिरिक्त बाल्यकालादेव संस्कृत-रचनाकार्ये भवान् संलग्नः आसीत्। भवता उपन्यास-आख्यायिका-लघुकथा-निबन्धलेखनद्वारा संस्कृत-साहित्ये विपुलं योगदानं कृतम्। भक्ता’ 21 ग्रन्थाः विरचिताः। भवता विरचितेषु ग्रन्थेषु ‘आदर्श-दम्पती’ नामकः उपन्यासः ‘उमा’ नाम्नी आख्यायिका च विशेषरूपेण उल्लेखनीये स्तः।

8. बॅ. पुष्करदत्तशर्मा
डॉ. पुष्करदत्तशर्मणः जन्म राजस्थानस्य चुरूजनपदे तारानगरे 1927 ईशवीये वर्षे अप्रैलमासे 21 तिथौ पण्डितस्य जयनारायणशास्त्रिणः गृहे अभवत्। भवतः मातुर्नाम श्रीमती गोपीदेवी आसीत्। भवतः शिक्षा तारानगरे चूरौ रामगढ़, बीकानेरनगरे च अभवत्।

भवान् डूंगरमहाविद्यालये बीकानेरे संस्कृतप्राध्यापकः नियुक्तः। 1982 ईशवीये वर्षे जुलाई मासे सेवानिवृत्तिं प्राप्तवान्। सेवानिवृत्तेः पश्चात् 1982 ईशवीतः 1983 ईशवीपर्यन्तं जैनविश्व-भारती, लाडनू संस्थायां संस्कृतस्य प्राध्यापकरूपेण कार्यं कृतवान्। डॉ. पुष्करदत्तशर्मा संस्कृत हिन्दी भाषाया अतिरिक्तं आंग्ल-रूसी-फ्रेन्च-आदीनां भाषाणां अपि ज्ञाता अस्ति। भवता विविधविधासु लेखनकार्य सम्पादितम्। भवती सम्पादितेषु रचितेषु च कार्येषु उल्लेखनीयाः सन्ति

  • कंटी (हिन्दी उपन्यासः 1973 ईशवीये वर्षे प्रकाशितः)
  • प्रह्मदमहाकाव्यम् (1955-56 मध्ये प्रकाशितः)
  • संवेदन (हिन्द्याः पञ्चकवितायाः सङ्कलनम्)
  • सम्पादनकार्याणि-

संस्कृतकाव्यमञ्जरी, संस्कृतपीयूषम्, लघुसिद्धान्तकौमुदी (नवीनभाष्यम्), संस्कृतसाहित्येतिहासः, कृत्यमहार्णवम् (वाचस्पतिमिश्रस्य), स्वरमङ्गलायाः सम्पादनम्, राजस्थानसंस्कृताकादमीतः प्रकाशितस्य ‘राजस्थानस्याधुनिकाः संस्कृतकथालेखकाः’ इत्यस्या अपि सम्पादनम् भवता महता श्रमेण कृतम्।

भवता अनेकाः कथाः अपि विरचिताः। तासु ‘प्रतिवेशिनी’ कथा बहुचर्चिता। इयं कथा सर्वप्रथमं स्वरमङ्गलायां प्रकाशिता, पश्चात् कन्नडभाषायाम् अनूदितो भूत्वा कन्नडभाषायाः पत्रिकायां प्रकाशिता। भवतां शोधनिर्देशने अनेके छात्राः शोधकार्याणि कृतवन्तः।

9. डॉ. प्रभाकरशास्त्री
डॉ. प्रभाकरशास्त्रिणः जन्म जयपुरनगरे 1939 ईशवीये वर्षे अप्रैलमासे 13 तिथौ अभवत्। भवतः पिता पण्डितः वृद्धिचन्दशास्त्री धर्मशास्त्रस्य उद्भटः विद्वान् आसीत्। स्वपितुः संस्कृतशिक्षा प्राप्तवान् एषः। भवान् सामवेदपरीक्षायां सफलता प्राप्तवान्। धर्मशास्त्रे आचार्यपर्यन्तं नैकपरीक्षायां उत्तीर्णतां गतम्।।

डॉ. प्रभाकरशास्त्रीमहोदयः 1961 ईशवीतः आरभ्य अनेकवर्षपर्यन्तं अध्यापनकार्य कृतवान्। 1993 ईशवीयेवर्षे राजस्थानविश्वविद्यालयस्य संस्कृतविभागे आचार्य: नियुक्तः। बहुवर्षपर्यन्तं विभागाध्यक्षपदम् अलङ्कत्त्य सेवानिवृत्तः। भवान् राजस्थान-संस्कृत-अकादम्याः मानद-निदेशकः अपि आसीत्। 2005 ईशवीयेवर्षे राष्ट्रपतिमहोदयेन सभाजितः अयम् सततं सारस्वत-साधनायां निरत आसीत्।

तेन संस्कृतजगति बहूनि कार्याणि कृतानि। नैकवर्षपर्यन्तं भवता-विश्वम्भरा’ इत्यस्याः पत्रिकायाः सम्पादनं कृतम्। भवतः शोधलेखाः विविधासु पत्रिकासु प्रकाशिताः सन्ति। भवता सम्पादितासु कृतिषु-याज्ञवल्क्य-स्मृतिः (आचाराध्यायपर्यन्तम्), संस्कृतगद्यप्रभा, इन्दुमतीस्वयंवरः, मध्यमव्यायोगः, प्रतिज्ञायौगन्धरायणम्, सौन्दर्यलहरीयेका, आद्याः प्रमुखाः सन्ति।

भवता अनेकानि (आकाशवाणी) रूपकाणि, लिखितानि अनेकाः कथाः च लिखिताः। भवता विरचितासु कथासु ‘जीवन-ज्योतिः’ ‘आत्मवेदना’ च प्रमुखे स्तः। ‘जीवन-ज्योतिः’ ‘स्वरमङ्गला’ पत्रिकायां प्रकाशिता। ‘आत्मवेदना’ इति कथा ‘राजस्थानस्याधुनिकाः संस्कृतकथालेखकाः’ नामकसंकलनग्रन्थे प्रकाशिता अस्ति।

10. महामहोपाध्यायः पण्डितः दुर्गाप्रसादद्विवेदी
भवान् ज्योतिषशास्त्रस्य प्रख्यातः विद्वान् अस्ति। भवतः पिता जयपुरराज्ञा सवाई रामसिंहेन जयपुरे ससम्मानेन आमंत्रितः। पण्डितदुर्गाप्रसादद्विवेदिनः जन्म 1920 संवत्सरे श्रावणमासस्य कृष्णपक्षे चतुर्दश्यां तिथौ सरयूप्रसाद द्विवेदी गृहे अभवत्।

भवतः प्रारम्भिक शिक्षा स्वपितुः समीपे जयपुरे एव अभवत्। ज्योतिषशास्त्रं अध्येतुं भवान् वाराणसीं गत्वा निष्ठया अध्ययनं कृतवान् वैदुष्यं च प्राप्तवान्। वाराणसीतः निवर्त्य महाराजा संस्कृतमहाविद्यालये ज्योतिषविषयस्य प्राध्यापकः नियुक्तः, पश्चात् विभागाध्यक्षः अभवत्। 1925 ईशवीये वर्षे अत्रतः सेवानिवृत्तः। स्वसेवानिवृत्ते : पश्चात् 1932 ईशवीयवर्षे भवता ‘सरस्वतीपीठ’ नाम्ना प्राच्यशोधसंस्थानम् स्थापितम्।

भवता भास्कराचार्यस्य सिद्धान्त-शिरोमणौ’ गणिताध्यायं आधारीकृत्य छात्राणां कृते ग्रहगणित-सिद्धान्तानां विवेचनम् कृतम्।

भवता निर्मितेषु ग्रन्थेषु–देवराजचरितम्, साहित्यदर्पणस्य येका, चातुर्वर्ण्यशिक्षा, उपपत्तीन्दुशेखरः, दशकण्ठवधम्-आदयः प्रमुखा सन्ति।

11. पण्डितमधुसूदनओझा
भवतः जन्म बिहारराज्यस्य मुजफ्फरपुरजनपदस्य ‘गाढा’ नामके ग्रामे पण्डितवैद्यनाथओझागृहे अभवत्। प्रारम्भिक शिक्षा तत्रैव अभवत्। उच्चशिक्षा वाराणस्याम् अभवत्। भवतः कर्मस्थली राजस्थानम् अस्ति। भवतः वैदुष्यात् प्रभावितो भूत्वा जयपुरनरेशद्वारा भवान् महाराजा संस्कृतमहाविद्यालये दर्शनविषयस्य प्राध्यापकपदे नियुक्तः। तत्कालीनशासकेन माधवसिंहेन स्वपोथीखाना इत्यस्य पुस्तकालस्य प्रबन्धकः अपि नियुक्तः। भवता ‘मौज मन्दिरः’ इति शासकीयधर्मसभायाः अध्यक्षपदं सुशोभितम्।

भवता अनेके योग्यशिष्या निर्मिताः, येषु-महामहोपाध्यायाः पं. गिरिधरशर्मा चतुर्वेदाः, आचार्यसूर्यनारायणशास्त्रिणः, पण्डितमोतीलालशास्त्रिणः, भट्टमथुरानाथशास्त्रिणः, स्वामीसुरजनदासाः, पण्डिताः नवलकिशोरकाङ्कराः, उल्लेखनीयाः सन्ति।

भवान् वैदिकवाङ्मयस्य भारतीयधर्मदर्शनयोः च अद्वितीयः विद्वान् आसीत्। भवता ‘वैदिककोषः’ नामकः ग्रन्थः निर्मितः यत्र वैदिकशब्दाः सङ्कलिताः सन्ति।।

भवता विरचितेषु ग्रन्थेषु-इन्द्रविजयः, कादम्बिनी, अहोरात्रवादः, महर्षिकुलवैभवम्, आशौचपञ्जिका, पथ्यास्वस्तिः, श्रीमद्भगवद्गीतायाः विज्ञानभाष्यम्-आदयः ग्रन्थाः महत्त्वपूर्णाः सन्ति, येषु भवतः यशांसि इदानीमपि दिदिगन्ते प्रसरितानि सन्ति।

12. डॉ. नारायणशास्त्री काङ्करः
अधुना राजस्थानप्रान्ते जयपुरनगरस्य निवासी डॉ. नारायणशास्त्री काङ्करः सुप्रसिद्धस्य पण्डितस्य नवलकिशोरशास्त्रिणः योग्यपुत्रः अस्ति। अस्य स्वपिता इव साहित्यसर्जने विशेषरुचिः विद्यते अनेक संस्कृतभाषायां अनेकानि रूपकाणि रचितानि सन्ति। एतेषु कतिपयानि प्रमुखानि एवम् सन्ति

कर्तव्यपरायणता, स्वातन्त्र्य-यज्ञाहुति;, कुणालस्य कुलीनता, धनिक-धूर्तता, सुहृत्समागमः, स्वामिभक्ता पन्ना धात्री, प्रतिभाचमत्कारः, उदारमना-भामाशाहः, गुरुदक्षिणा, प्रेम-परीक्षा, स्वदेश-प्रेम, भक्तराजचन्द्रहासः, अशोकस्य पराजयः, बन्दी चन्द्रगुप्तः, प्रत्युत्पन्नमतिः नापितः, ताडन-भयम्, पशुकल्याणम् इत्यादीनि।।

श्री काङ्करमहोदयः संस्कृतस्य आशुकविः अपि अस्ति। अस्य भाषा-शैली सरला, सरसा रमणीया चास्ति। भाषायामेतेषां स्वाभाविक प्रवाहः विद्यते।

13. डॉ. हरिरामाचार्यः
डॉ. आचार्यः संस्कृतस्य प्रतिष्ठित-साहित्यकारः अस्ति। आकाशवाण्या दूरदर्शनेन च भवतः ख्यातिः दिदिगन्ते व्यासा दूरदर्शने ‘दायरे’ इति ‘सीरयलमाध्यमेन’ भवान् बहुचर्चितः। भवान् एकः सुमधुरः आशुकविः उत्कृष्टः नाटककारः, एकांकीलेखकः अपि अस्ति।

भवता विरचितेषु रूपकेषु-पूर्वशाकुन्तलम् गंगालहरी, नहि भोजसमो नृपः, आषाढस्य प्रथमदिवसे, सत्यमेव जयते, वेतालकथा, नेत्रदानम्, कनिष्ठिकाधिष्ठित-कालिदासः, इत्यादीनि रूपकाणि प्रसिद्धानि सन्ति।

कवितारचनाकार्यहेतोः भवान् मीरापुरस्कारेण पुरस्कृतः अस्ति। राष्ट्रपतिद्वारा अयं 2005 ईशवी वर्षे सम्मानितः।

14. श्रीसीतारामभट्ट पर्वणीकरः
श्रीसीतारामभट्ट पर्वणीकरः पर्वणीकुलप्रवर्तकस्य श्रीमाधवभट्टस्य कनिष्ठः भ्राता आसीत्। पर्वणीकरवंशस्य मूलोद्गमस्थानम् महाराष्ट्रे नासिकजनपदे स्थितः पर्वणी नामकः ग्रामः अस्ति। अयं कविः साई-जयसिंहस्य राज्याश्रितः कविः आसीत्। इतिहासे जयसिंहशासनकालः 1818 ईशवीत् 1834 ईशवीयपर्यन्तम् आसीत्। अतः सीतारामभट्टपर्वणीकरस्य स्थितिः एकोनविंशत्याः शताब्दयाः पूर्वार्धे आसीत्।।

अयं कविः एकः महान् काव्यकारः आसीत्। अनेन विरचितेषु महाकाव्येषु ‘ईश्वरलिासः’ महाकाव्यम् सुप्रसिद्धम् अस्ति। अस्मिन् ऐतिहासिककाव्ये जयपुरशासकस्य ईश्वरीयसिंहस्य तस्य पूर्वजानां क्रमिक वर्णनम् अस्ति। इदं काव्यम् चतुर्दशसर्गे निबद्धम्। अस्यअङ्गीरसः वीररसः अस्ति। अत्र वैदर्भीगौडीपाञ्चाली-आदयः रीतयः यथास्थानं प्रयुक्ताः सन्ति। अस्मिन् महाकाव्ये अलङ्कार-रस-वर्णनवैविध्य-भाषादिदृष्टिभिः महाकवेः अद्भुतकाव्यप्रतिभायाः दर्शनं भवति।

एतदतिरिक्तम् अन्येषु महाकाव्येषु-जयवंशम्, नलविलासः, नृपलिासः, राघवचरितम्, लघुरघुकाव्यम् आदयः काव्यग्रन्थाः प्रमुखाः सन्ति। एतेषां महाकाव्योपरि राजस्थानविश्वविद्यालये नैकशोधकार्याणि सम्पादितानि।।

15. राजवैद्यः श्रीकृष्णरामभट्टः
श्रीकृष्णरामभट्टेन विरचितप्रसिद्धं महवाकाव्यम् ‘कच्छवंश’ महाकाव्यम् अस्ति। अयं कविः जयपुरनरेशस्य राजवैद्यस्य श्रीकुन्दनरामभट्टस्य ज्येष्ठः पुत्र आसीत्। भवतः जन्म राजस्थानस्य राजधान्यां जयपुरे 1905 विक्रमसंत् श्रीकृष्णजन्माष्टम्यां तिथौ अभवत्। भवान् जीवनाथ ओझा महाभागात् चन्दनदास-स्वामिनः च शिक्षा प्राप्तावान्।

श्रीकृष्णरामभट्टः जयपुरस्थिते महाराजा संस्कृतमहाविद्यालये आयुर्वेदस्य व्याख्याता आसीत्। अस्य 1954 ईशीये वर्षे स्वर्गवासः जातः। श्रीकृष्णवरामभट्टविरचितेषु महाकाव्येषु ‘कच्छवंशमहाकाव्यम्’ सुप्रसिद्धम् अस्ति। अस्मिन् जयपुरस्य कच्छवाहा-वंशीयशासकानां जीवनचरितम् 19 सर्गेषु वर्णितम्। अस्य भाषालालित्यं पदप्रयोग-पाण्डित्यञ्च पर्याप्त-प्रशंसनीयमस्ति।

16. पं. श्री सूर्यनारायणशास्त्री
पण्डितः श्रीसूर्यनारायणशास्त्री व्याकरणाचार्यः आसीत्। तस्य जन्म हरियाणाप्रान्तान्तर्गते महेन्द्रगढ़स्थिते गौडपरिवारे 1940 क्रिमाब्दे अभवत्। तस्य शिक्षा जयपुरे अभवत्। सः जयपुरे स्थिते महाराजसंस्कृत-महाविद्यालये प्राध्यापकः विभागाध्यक्षश्च आसीत्। जयपुरतः प्रकाश्यमानायाः मासिक-पत्रिकायाः ‘संस्कृत रत्नाकरस्य’ आजीवनसदस्य आसीत् सः। एतस्य सम्पूर्णाः रचनाः अस्याम् पत्रिकायामेव प्रकाशिताः।

‘मानवंश’ महाकाव्यम् पण्डितशास्त्रिणा विरचितं सुप्रसिद्धं महाकाव्यम् अस्ति। काव्यमिदम् 19 सर्गेषु निबद्धम्। इदम् एकम् ऐतिहासिकं महाकाव्यम् अस्ति। अस्मिन् जयपुरनरेशस्य मानसिंहस्य पूर्वजानाञ्च वर्णनं कृतम्। रघुवंश-शैल्याधारिता इयं अद्वितीया कृतिः। जीवनस्य विविधपक्षाणां स्वाभाविकचित्रणम् अस्य प्रमुखविशेषता अस्ति। भावपक्षस्य कलापक्षस्य च रुचिरं सामञ्जस्यम् अपि अत्रे उपलभ्यते। वीररसप्रधानतया ओजगुणस्यं स्वाभाविकः समावेशः, परं तु प्रसादस्य अपि छटा हृदयावर्जका विद्यते। अलङ्काराणां प्रयोगः अपि कविना सम्यक् प्रकारेण कृतः।

17. पण्डितः विद्याधरशास्त्री
पण्डितविद्याधरशास्त्रिणः जन्म सन् 1901 ईशवीये अगस्त मासे चतुर्थ्यां तिथौ राजस्थानस्य चूरू’ जनपदे अभवत्। अस्य पिता पण्डितदेवीप्रसाद शास्त्री प्रकाण्डः पण्डितः आसीत्। अस्य पितामहः पण्डितः हरनामदत्तशास्त्री भारतीयस्तरे ख्यातिप्राप्तः विद्वान् आसीत्।

पण्डितेन शास्त्रिणा स्वपितामहोपरि ‘हरनामामृतम्’ नामकं 16 सर्गाणां महाकाव्यम् विरचितम्। अस्य महाकाव्यस्य नायकः पण्डितहरनामदत्तः एव अस्ति। महाकाव्यस्य प्रमुखस्थलेषु मरुप्रदेशस्य वर्णनम्, नायकस्य बाल्यावस्थायाः, छात्रावासजीवनस्य च वर्णनम् विशेषरूपेण उललेखनीयम्। नायक-जीवनस्य सर्वपक्षस्य साङ्गोपाङ्ग वर्णनमत्र विद्यते। अस्मिन् महाकाव्ये भाषाशैल्याः सहजता सरलता च विशेषतः उल्लेखनीया। अस्य 11 सर्गे वर्णितस्य वैराग्यभावनायाः चित्रणं रमणीयं वर्तते।

18 आचार्यः मधुकरशास्त्री
आचार्यमधुकरशास्त्रिणः जन्म जयपुरसमीपस्थिते रामपुराग्रामे अभवत्। अस्य पितुर्नाम घासीलाल जोशी अस्ति, यः कोटानगरस्थितस्य राजस्थान-प्राच्यविद्याप्रतिष्ठानात्। नियंत्रकपदात् सेवानिवृत्तः।

आचार्यशास्त्रिणा विरचितं प्रसिद्धं महाकाव्यम् ‘ श्रीमहावीरसौरभम् अस्ति। 16 सर्गेषु निबद्धमिदं महाकाव्यम् तीर्थकरस्य भगवतः महावीरस्य जीनस्य वर्णनस्वरूपम् अस्ति। अस्य रचना आचार्येण निर्धारितमानबिन्दूनां अनुसारेण कृता। प्रत्येके सर्गे यथोचितं छन्दः परिवर्तनं कृतमस्ति।।

अस्य महाकाव्यस्य भाषा सरला सरसा चास्ति। दीर्घसमस्तपदानां प्रयोगः प्रायेण न कृतः। संयोजनाऽपि समुचितदृष्ट्या प्रस्तुता। कविना अत्र उद्घोषितम् यत् भगवता महावीरेण स्याद्वादस्ये अनेकान्तवादस्य उपदेशः प्रजातांत्रिकभावनायाः विकासार्थम् प्रदत्तः।

19. श्रीपद्मदत्त ओझा ( पद्मशास्त्री )
‘लेनिनामृतम्’ महाकाव्यस्य रचयिता श्रीपद्मदत्त ओझा अस्ति। अस्य जन्मस्थली उत्तरप्रदेशस्य अल्मोडाजनपदे अस्ति। उत्तरप्रदेशस्यैव विभिन्नस्थलेषु शिक्षा प्राप्तवान्, परं तु अस्य कार्यस्थली राजस्थानम् अस्ति।

इदं महाकाव्यं महाकविना श्रीपद्मदत्त ओझा महोदयेन सन् 1975 ईशवीये वर्षे रचितम्। इयं कृतिः विश्वेश्वरानन्दवैदिकशोधसंस्थानतः प्रकाशिता अस्ति। अस्य महाकाव्यस्य लेखनस्य प्रेरणा ब्यावरनिवासीकुमारनन्दसमिना प्राप्ता। स्वामी कुमारानन्दः 1913 ईशवीयवर्षे लेनिनात् दीक्षितः निरन्तरं कुमारानन्दसम्पर्कात् श्रीपद्मदत्तओझा साम्यवादेन प्रभावितः भूत्वा इदम् ऐतिहासिकं महाकाव्यम् अरचयत्।

अस्मिन् महाकाव्ये लेनिनस्य जीवनवृत्तं वर्णितम्। अस्मिन् 15 सर्गाः सन्ति। कविवरेण पद्मदत्तशास्त्रिणा अत्र कार्लमार्क्सस्य वर्ग-संघर्ष-सिद्धान्तस्य, रूसदेशस्य प्राकृतिकशोभायाः, लेनिनस्य जन्मनः, तस्य शिक्षा-दीक्षायाः, साईबेरियाकारावासस्य, तेन स्थापितनवसमाजवादीदलस्य जारतन्त्रस्य’ पतनस्य, स्वतन्त्रताप्राप्तेः लेनिनस्य बन्दीगृहीतस्य, प्राणदण्डस्ये घोषणायाः, क्रेमलिनगरे लेनिनस्य स्वागतस्य, तस्य देहावसानस्य भारतरूसमैत्रीप्रसङ्गस्य च सरल-भावानुकूल-भाषामाध्यमेन वर्णनं कृतमस्ति।