Rajasthan Board RBSE Class 12 Sanskrit लौकिकसाहित्यम्-गद्यकाव्यानि

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
संस्कृतगद्यकाव्यस्य विशेषता अस्ति
(क) समासबहुलता
(ख) ओजसमासबहुलता
(ग) अल्पसमासबहुलता।
(घ) समासरहितबहुलता।
उत्तर:
(ख) ओजसमासबहुलता

प्रश्न 2.
वासवदत्ता’ रचना वर्तते-
(क) सुबन्धोः
(ख) दण्डिनः
(ग) बाणस्य
(घ) अम्बिकादत्तस्य।
उत्तर:
(क) सुबन्धोः

प्रश्न 3.
‘हर्षचरितम्’ इत्याख्यायिकायाः रचनाकारः अस्ति–
(क) बाणभट्ट
(ख) सुबन्धुः
(ग) दण्डी
(घ) अम्बिकादत्तः।
उत्तर:
(क) बाणभट्ट

प्रश्न 4.
संस्कृतसहित्यस्य प्रथमः उपन्यासः अस्ति—-
(क) कादम्बरी
(ख) वासवदत्ता
(ग) दशकुमारचरितम्।
(घ) शिवराजविजय।
उत्तर:
(घ) शिवराजविजय।

अतिलघूत्तरात्मकप्रश्नाः
प्रश्न 1.
कादम्बर्याः उत्तरार्द्धभागस्य कथा केन पूरिता?
उत्तर:
कादम्बर्या: उत्तरार्द्धभागस्य कथाबाणभट्टस्य पुत्रेण भूषणभट्टेन पूरिता।

प्रश्न 2.
चण्डीशतकम्’ इत्यस्य ग्रन्थस्य रचनाकारः कः?
उत्तर:
अस्य ग्रन्थस्य रचनाकारः बाणभट्टः मन्यते।

प्रश्न 3.
पं. अम्बिकादत्तस्य पितुर्नाम किम्?।
उत्तर:
पं. अम्बिकादत्तस्य पितुर्नाम पण्डितः दुर्गादत्तव्यासः आसीत्।

प्रश्न 4.
‘शतावधानिकः’ ‘घटिकाशतकम्’ इत्यादिभिः उपाधिभिः कः प्रसिद्धः?
उत्तर:
इत्यादिभिः उपाधिभिः पं. अम्बिकादत्त व्यासः प्रसिद्धः।

लघूत्तरात्मकप्रश्नाः
प्रश्न 1.
हर्षचरितस्य परिचयं संक्षेपेण लिखत?
उत्तर:
‘हर्षचरितम्’ बाणभट्टेन विरचितः प्रथम: ग्रन्थः अस्ति। कादम्बर्याः अपेक्षया हर्षचरितम् प्रथमा रचना अस्ति। यतो हि कादम्बर्याः भाषाशैली हर्षचरितस्य तुलनाया अतिप्रौढ़ा अस्ति।’ हर्षचरितम्’ अष्टोच्छ्वासेषु विभक्तम् एका आख्यायिका अस्ति। अत्र बाणेनं स्वयमपि लिखितम्–

तथापि नृपतेर्भक्त्या भीतो निर्वहणाकुलः।।
करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्।।

ग्रन्थेऽस्मिन् प्रथमोच्छ्वासत्रये बाणेन स्वीया आत्मकथा लिखिता। चतुर्थादुच्छ्वासात् आरभ्य समाप्तिपर्यन्तं राज्ञः हर्षस्य चरितं वर्णितम्। हर्षस्य पितरौ
यशोमती-प्रभाकरवर्धनौ आस्ताम्। ज्येष्ठः भ्राता राज्यवर्द्धनः, अनुजा राज्यश्री: चासीत्। चतुर्थोच्छवासे राजकु मारयो : तत्स्वस्श्च जन्मवृत्तानि, पञ्चमे उच्छवासे राजकुमारयोर्विजययात्रा वर्णिता। हूणानां जयार्थे गते राज्यवर्धेने हर्षे च मृगयां गते प्रभाकरवर्धनः मृतकल्पः जातः इति श्रुत्वा हर्षः मृगतयाः निवृत्तः। षष्ठे उच्छ्वासे राज्यवर्धनस्य परावर्तनम्, ग्रहवर्मणः मृत्युः, राज्यश्रियः बन्दीभावः, राज्यश्रियः उद्धाराय राज्यवर्धनस्य प्रस्थानम्, गौडेश्वरशशाङ्कद्वारा तस्य वधश्च वर्णितः। सप्तमे उच्छ्वासे हर्षस्य दिग्विजययात्रा, अष्टमे च राज्यश्रियः प्राप्तिः च वर्णिता।।

प्रश्न 2.
‘शिवराजविजयस्य’ परिचयं संक्षेपेण लिखत।
उत्तर:
पण्डितेन अम्बिकादत्तव्यासेन विरचितः शिवराज-विजयः संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः अस्ति यः व्यासमहाभागेन 1870 ईशवीये वर्षे लिखितः। अयं ग्रन्थः एकोनविंशत्याः शताब्द्यः सर्वश्रेष्ठः सुललितः गद्यग्रन्थः अस्ति।

शिवराजविजये वर्णिता कथा यद्यपि ऐतिहासिकप्रधाना, तथापि अम्बिकादत्तव्यासेन स्वप्रतिभया कल्पनया च उच्चकोटिसाहित्यिकतया विभूषिता। अत्र कथावस्तु संघटना प्राच्यपाश्चात्योः शिल्पविधानेन समन्विता अस्ति। अत्र कथाद्वयं समानरूपेण चलति। एकस्याः कथायाः नायकः वीरशिवाजी अस्ति अपरस्य च नायकः रघुवीरसिंहः अस्ति। कथाद्वयम् परस्परं पूरकम् अन्योन्याश्रितं चास्ति। शिवराजविजयस्य सम्पूर्ण कथा त्रिषु निःश्वासेषु समाहिता अस्ति।

अस्मिन् शिवराजविजये इतिहासकल्पनयोः यथार्थादर्शयोः कल्पनानुभवयोः च सुसमन्वयः विद्यते। सर्वाणि पात्राणि स्वचरित्रनिर्वहणे पूर्णरूपेण पारङ्गतानि। शिववीरः, गौरसिंहः, रघुवीरसिंहः, यशवन्तसिंहः, अफजलखान्, शाइस्ताखान्, ब्रह्मचारी आदयः सर्वे स्वाभाविकतायाः यथार्थातायाः च निर्वहणे पूर्णतया सफलाः सन्ति। ब्रह्मचारिवणेने कविः तस्य स्वाभाविकं चित्रम् उपस्थापयति।

निबन्धात्मकप्रश्नाः

प्रश्न 1.
‘बाणभट्टस्य’ भाषाशैल्याः समीक्षणं कुरुत।
उत्तर:
बाणः प्रायशः स्वरचनासु पाञ्चालीरीतेः विभावनां प्रस्तौति। अस्य रचनासु पदपदार्थानां, मनोभावावेशानां यादृशं सुरुचिपूर्ण सामञ्जस्यमभिलक्ष्यते न तादृगन्यत्र क्वचिदवतरति दृष्टिपथम्। वर्त्यवस्त्वनुरूपः पदविन्यासविलास एवं अस्य रचनायाः वैशिष्ट्यम्।।

कादम्बर्याम् अयं बाणः यत्र दीर्घसमासोपेतं वाक्यावलिं विन्यस्य वाचकानां पुरतः वर्णनबाहुल्यमुपस्थापयति तत्रैव लघुवाक्यानां प्रयोगेऽपि न मन्दायते। एतेन तत्प्रतिभायाः सर्वगुरुत्वं प्रकीभवति।
शुकनासोपदेशे अल्पसमासयुक्तपदैः लघुवाक्यैः च सरसं वर्णनं कविना कृतम्।

यथा-
अतः बाणभट्टस्य माधुर्यगुणोपेतां ललितां पदावली दृष्ट्वा केनापि सत्यमेव उक्तम्

यत्-

रुचिरस्ववर्णपदाः रसभाववती जगन्मनो हरति।
सा कि तरुणी? नहि नहि वाणी बाणस्य मधुरशीलस्य।।

महाकविबाणस्य भाषाऽपि अतिसमृद्धा सर्वथा भावानुरूपा चास्ति। उत्तमानां निम्नानां च पात्राणां वर्णने, अच्छदादिविविधप्राकृतिकवस्तुवर्णने सर्वत्र सजीवत्वं सृष्टं साफल्यं चासादितम्। अस्य बाणस्य भाषासमृद्धिं दृष्ट्वैव पाश्चात्य-विद्वांसः कादम्बरीं अरण्यानीं मन्यन्ते। तेषां मते बाणस्य गद्यं खलु तद् भारतीयम् अरण्यं यत्र क्षुपोच्छेदं विना मार्गो दुर्लभः। यत्र च बहवः अप्रतीतार्थाः शब्ददन्दशूकाः तत्र प्रविविझून् प्रतीक्षमाणाः निलीय स्थिताः।

वस्तुतः बाणभट्टस्य गद्यं महाविशालसप्तभूमराजप्रासादोपमम्, यत्र वचन प्रकोष्ठेरमणीयाकृतिविशिष्टपरिधानोपबृहितंरमणीचित्रम् क्वचिन्मृगयोपयुक्तनाना-जीवस्य चित्राणि, क्वचित्कलकलनिनादिनी खरस्रोता नदी चित्रिता, क्वचित्तपो-भूमिर्निदर्शिता, क्वचिच्च निपतत् शरभीषणा रणभूमिः अङ्किता। संस्कृतभाषाकविषु बाणभट्टसमानः कोऽपि शब्दचित्रप्रस्तुतौ सिद्धहस्तः नाभूत् इति कथनं नितान्त-सत्यम्। साधारणतः अन्ये कवयः घटनां वर्णयन्ति, परं तु बाणः चित्रोपस्थापनद्वारा कथां विस्तारयति, अत एव तस्य कथा मन्दं चलति।

एतत्सकलं वैशिष्ट्यं दृष्ट्वा गोवर्द्धनाचार्येण उक्तम्-

जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि।
प्रागल्भ्याधिकमाप्तुं वाणी बाणो बभूवेति।।

प्रश्न 2.
शिवराज विजयमाश्रित्य तत्कालीन सामाजिक चित्रणं कुरुत?
उत्तर:
सामाजिक-चित्रणम्-शिवराजविजयः एकमात्रम् ईदृशः उपन्यासः अस्ति यत्र तात्कालिकसामाजिकदशानां चरित्राणाश्च समग्ररूपेण वर्णनं उपलभ्यते। साहित्यम् समाजस्य दर्पणम् भवति इत्यनुसारम् शिवराजविजयः पूर्णरूपेण तत्समयस्य चित्रणे सफलः।

पण्डितव्यासेन शिवराजविजये तत्कालीनमुगलसम्राज्यस्य सुन्दरं चित्रणं कृतम्। तस्मिन् समये राजानः अकर्मण्याः विलासप्रियोः आसन्। सम्पूर्णा हिन्दुजातिः मुगलानां (यवनानां) अत्याचारे पीडिता आसीत्। मुगलानां साम्राज्यः भारतवर्षे निरन्तरं वृद्धित्वं प्राप्य अग्रसरः आसीत्। यवनेभ्यः हिन्दुकन्यायाः अपहरणं, मन्दिरे देवमूर्तीनां विध्वंसः पवित्रधर्मग्रन्थानां विनाशः, अनाथहिन्दूनां प्रताडनं च सततं क्रियते स्म, हिन्दुराजानः मुगलशासकानां दासतां स्वीकृत्य तेषां कृपायाम् जीविताः आसन्।।

अस्याम् विषमपरिस्थितौ महाराष्ट्राधीश्वरेण वीरशिवाजी द्वारा स्वशौर्यपराक्रम-सदाचरणेन हिन्दुप्रजाया: हिन्दुत्वस्य च रक्षणं कृतम्। तेन शिववीरेण हिन्दुजनानां मध्ये शौर्यस्यवीरतायाः च भावः पुनर्जागरितः। हिन्दुजनेषु देशभक्तेः, राष्ट्रभक्तेः, आत्मविश्वासस्य, स्वधर्मानुरागस्य, मातृभूमेः सेवाभावस्य भावना विकसिता शिवाजी द्वारा। हिन्दूनां उपरि यवनानां आत्याचारस्य चरमसीमा आसीत् तत्समये। व्यास महोदयेन तस्य स्वाभाविकं चित्रणं कृतम् –
“……………………………. क्वचिद्दारा अपहियन्ते क्वचिद्धनानि लुळ्यन्ते , क्वचिदार्त्तनादाः,क्वचिद्रुधिरधाराः, क्वचिदग्निदाहः, क्वचिद्गृहनिपातः, इत्येव श्रूयते अवलोक्यते च परितः।”

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
महाकविसुबन्धुना विरचितं गद्यकाव्यमस्ति–
(अ) दशकुमारचरितम्।
(ब) कादम्बरी
(स) वासवदत्ता
(द) शिवराजविजयम्।
उत्तर:
(स) वासवदत्ता

प्रश्न 2.
बाणरचितकादम्बर्या: आधारग्रन्थोऽति
(अ) बृहत्कथामञ्जरी
(ब) बृहत्कथा
(स) कथासरित्सागर
(द) महाभारतम्।
उत्तर:
(ब) बृहत्कथा

प्रश्न 3.
का रचना बाणभट्टस्य प्रथमा रचना मन्यते?
(अ) कादम्बरी
(ब) हर्षचरितम्
(स) चण्डीशतकम्।
(द) पार्वतीपरिणयः।
उत्तर:
(ब) हर्षचरितम्

प्रश्न 4.
गद्यपद्यमिश्रितं काव्यं भवति-
(अ) रूपकम्
(ब) चम्पूकाव्यम्।
(स) नाटकम्
(द) प्रकरणम्।
उत्तर:
(ब) चम्पूकाव्यम्।

प्रश्न 5.
सुबन्धोः समयः मन्यते-
(अ) षष्ठशतकं
(ब) चतुर्थशतकं
(स) सप्तमशतकं
(द) नवमशतकं।
उत्तर:
(अ) षष्ठशतकं

प्रश्न 6.
राजकुमारस्य कन्दर्पकेतोः पितुः नाम आसीत्-
(अ) मकरन्दः
(ब) श्रृंगारशेखरः
(स) चिन्तामणिः
(द) चन्द्रापीडः।
उत्तर:
(स) चिन्तामणिः

प्रश्न 7.
शूद्रकाय स्वपूर्वजन्मनः कथाम् आख्यातवान्,
(अ) चाण्डालकन्या
(ब) शुकः
(स) तारापीडः
(द) चन्द्रापीडः।
उत्तर:
(ब) शुकः

प्रश्न 8.
कादम्बर्याः विवाहः सञ्जातः–
(अ) तारापीडेन सह
(ब) शुकनासेन सह
(स) पुण्डरीकेन सह
(द) चन्द्रापीडेन सह।
उत्तर:
(द) चन्द्रापीडेन सह।

प्रश्न 9.
यशोमती-प्रभाकरवर्धनौ पितरौ आस्ताम्
(अ) हर्षस्य।
(ब) बाणस्य
(स) चन्द्रापीडस्य
(द) उदयनस्य।।
उत्तर:
(अ) हर्षस्य।

प्रश्न 10.
शिवराजविजयस्य रचयिता वर्तते
(अ) सुबन्धुः
(ब) कलानाथशास्त्री
(स) पं. अम्बिकादत्तव्यासः
(द) पं. दुर्गादत्तव्यासः
उत्तर:
(स) पं. अम्बिकादत्तव्यासः

प्रश्न 11.
शिवराजविजयस्य सम्पूर्ण कथा कति निःश्वासेषु समाहिता अस्ति?
(अ) द्वयोः
(ब) त्रिषु
(स) चतुषु
(द) सप्तसु।
उत्तर:
(स) चतुषु

प्रश्न 12.
शिवराजविजयस्य प्रधानरसः वर्तते
(अ) शृङ्गाररसः
(ब) हास्यरसः
(स) करुणरसः
(द) वीररसः।
उत्तर:
(द) वीररसः।

लघूत्तरात्मकप्रश्नाः
प्रश्न 1.
केन कविना केवलं नायिकायाः अभिधानमेवाधारीकृत्य वासवदत्ता रचिता?
उत्तर:
सुबन्धुना कविना।

प्रश्न 2.
महाकवेः सुबन्धोः प्रसिद्धेः आधारः ग्रन्थः कः?
उत्तर:
‘वासवदत्ता’ इति ग्रन्थः।

प्रश्न 3.
किं श्रुत्वा हर्षः मृगयातः निवृत्तः ( हर्षचरिते )?
उत्तर:
प्रभाकरवर्धनस्य मृत्युसमाचारं श्रुत्वा हर्षः मृमृसातः निवृत्तः।

प्रश्न 4.
पद्यस्यापेक्षया गद्यस्य महत्वं प्रतिपादयितुं संस्कृतप्राचीनाचार्येषु का सूक्तिः प्रसिद्धा?
उत्तर:
‘गद्यं कवीनां निकष वदन्ति’ इति सूक्तिः प्रसिद्धा।

प्रश्न 5.
गद्यस्य महत्त्वं कस्मादेव कारणात् वर्तते?
उत्तर:
गद्यस्य महत्त्वं एतस्मादेव कारणात् वर्तते यत् गद्यकाव्यरचना अतिकठिना। भवति।

प्रश्न 6.
संस्कृतगद्यकाव्ये केषां कवित्रयाणां प्रामुख्यम् अस्ति?
उत्तर:
संस्कृत गद्यकाव्ये कवित्रयाणां प्रामुख्यमस्ति–सुबन्धुः, बाणभट्टः, दण्डी च।

प्रश्न 7.
सुबन्धोः वासवदत्तायाः नायकनायिकयोः नाम किम् स्तः?
उत्तर:
सुबन्धोः वासवदत्तायाः नायकः कन्दर्पकेतुः नायिका च वासवदत्ता वर्तते।

प्रश्न 8.
कन्दर्पकेतोः अन्वेषणे के संलग्ने आस्ताम्।
उत्तर:
कन्दर्पकेतो; अन्वेषणे सारिका तमालिका च संलग्ने आस्ताम्।

प्रश्न 9.
वासवदत्ता किमर्थं कन्दर्पकेतुना सह विन्ध्याव्यां पलायनं करोति?
उत्तर:
वासवदत्तायाः पिता तस्याः विवाह केनचित् विद्याधरेण सह कर्तुमिच्छति स्म, किन्तु वासवदत्ताः कन्दर्पकेतुं प्रति मुग्धा आसीत्, अस्मात् कारणात् सा कन्दर्पकेतुना सह विन्ध्यायां पलायनं करोति।

प्रश्न 10.
कादम्बर्याः उत्तरार्द्धभागस्य कथा केन पूरिता?
अथवा।
कादम्बर्याः उत्तरार्द्धभागः केन प्रणीतः?
उत्तर:
कादम्बर्याः उत्तरार्द्धभागस्य कथा बाणभट्टस्य पुत्रेण भूषणभट्टेन पूरिता।

प्रश्न 11.
बाणभट्टस्य मातुः पितुश्च किन्नाम आसीत्?
उत्तर:
बाणभट्टस्य पितुः नाम चित्रभानुः मातुश्च नाम राज्यदेवी आसीत्।

प्रश्न 12.
संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः कः केन च लिखितः?
अथवा
संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः कः?
उत्तर:
संस्कृतस्य प्रथमः ऐतिहासिकः उपन्यासः शिवराजविजयः अस्ति, यः पण्डितेन अम्बिकादत्त व्यासेन 1870 ईशवीये वर्षे लिखितः।

प्रश्न 13.
शिवराजविजये केषां सुसमन्वयः विद्यते?
उत्तर:
शिवराजविजये इतिहासकल्पनयोः, यथार्थादर्शयोः, कल्पनानुभवयोश्च सुसमन्वयः विद्यते।

प्रश्न 14.
शिवराजविजयस्य कथाद्वयं कथं चलति, तयोः नायकौ च की स्तः?
उत्तर:
शिवराजविजयस्य कथाद्वयं समानरूपेण चलति, परस्परं पूरकम् अन्योन्याश्रितं चास्ति। एकस्याः कथायाः नायकः वीरशिवाजी अस्ति, अपरस्य च नायकः रघुवीरसिंहः अस्ति।

प्रश्न 15.
हर्षचरितस्य केषु उच्छ्वासेषु बाणेन स्वीया आत्मकथा लिखिता?
उत्तर:
हर्षचरितस्य प्रथमत्रिषु उच्छ्वासेषु बाणेन स्वीया आत्मकथा लिखिता।

निबन्धात्मक प्रश्नाः

प्रश्न 1.
सुबन्धोः वासवदत्तायाः कथानकं संक्षेपेण लिखत।
उत्तर:
सुबन्धोः वासवदत्तायाः सम्बन्धः प्राचीनभारतस्य आख्यायिकायाः वासवदत्तायाः उदयनस्य प्रणयकथायाः च सर्वथा भिन्नः अस्ति। अस्याः सम्पूर्णं कथानकं कवेः मस्तिष्कस्य कल्पना अस्ति। केवलं नायिकायाः अभिधानमेव प्राचीनमस्ति।

कथानकम्-

राज्ञः चिन्तामणेः पुत्रस्य राजकुमारस्य कन्दर्पकेतोः स्वप्ने एका परमसुन्दरी कन्या आयाति। तस्याः अन्वेषणे कन्दर्पकेतुः स्वमित्रेण मकरन्देन सह सहसा निर्गच्छति। रात्रौ सः विन्ध्यवने तिष्ठति यत्र वृक्षस्थितसारिकया ज्ञायते यत् पाटलिपुत्रस्य राजकुमारी स्वप्ने। कन्दर्पकेतुं अपश्यत्। तस्य कन्दर्पकेतोः अन्वेषणे सारिका तमालिका च संलग्ने स्तः। एवंविधया शुकदम्पत्तिद्वारा नायकनायिकयोः मिलनं भवति। उभयोः हृदये परस्परं प्रगाढानुरागः अस्ति, परं तु वासवदत्तायाः पिता श्रृंगारशेखरः तस्याः विवाहं केनचित् विद्याधरेण सह कर्तुम् इच्छति। अस्मात् कारणात् वासवदत्ता कन्दर्पकेतुना सह विन्ध्यायां पलायनं करोति। तत्र कन्दर्पकेतुं विना एकाकीरूपेण वने भ्रमणार्थं गच्छति सा। तां प्राप्त्यर्थं किरातानां समूहद्वये सङ्घर्षः भवति। वासवदत्ता गुप्तरूपेण कस्यचित् ऋषेः आश्रमे प्रविशति, यत्र सा ऋषिशीपवशात् शिलारूपेण परिवर्तिता भवति। अपरतः कन्दर्पकेतुः वासवदत्तावियोगे आत्महत्या कर्तुम् उद्यतः भवति, परं तु आकाशवाण्या सः विरमति। अन्ततोगत्वा सः वने तस्याः अन्वेषणं करोति, यत्र कन्दर्पकेतोः स्पर्शद्वारा सा मानुषीरूपं धारयति। अतः परं मकरन्दः तत्र आगच्छति। सर्वे राजधान्यां निवर्त्य सुखपूर्वकं जीवनयापनं कुर्वन्ति इति।

अस्याः वासवदत्तायाः कथा अतिस्वल्पा निर्जीवा चास्ति, परं तु कविना सुबन्धुना स्वप्रतिभया सुन्दरवर्णनेन हृदयावर्जिका कृता।

प्रश्न 2.
सुबन्धोः वासवदत्तायाः काव्यवैशिष्ट्यं विवेचयत।
उत्तर:
अस्याः वासवदत्तायाः प्रशंसायां बाणभट्टः लिखति हर्षचरिते

कवीनामगलद्दप नूनं वासवदत्तया।
शक्त्येव पाण्डुपुत्राणां नूनं वासवदत्तया।।

शब्दार्थालङ्काररससौष्ठवैः वासवदत्तायाः तुलायां कोऽपि अन्यो गद्यग्रन्थो नास्तीति तद् अध्ययनेन प्रतिभासते। तत्र शब्दसौष्ठवं यथा–‘अभूदभूतपूर्व : सर्वोपतिचक्र चूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणिनृसिंह इव दर्शितहिरण्यकशिपुक्षेत्रदानविस्मयः, कृष्ण इव कृतवसुदेवतर्पणः, नारायण इव सौकर्यसमासादितधरणिमण्डलः, कंसारातिरिव जनितयशोदानन्दसमृद्धिः। विरोधाभासः यथा–‘विद्याधरोऽपि सुमनाः धृतराष्ट्रोऽपि गुणप्रियः, क्षमानुगतोऽपि सुधर्माश्रितः, बृहन्नलानुभावोऽप्यन्तः सरलः, महिषीसम्भवोऽपि वृषोत्पाद्यः, तरलोऽपि महानायको राजा चिन्तामणिर्नाम।’ परिसंख्या यथा-‘छलनिग्रहप्रयोगो वादेषु, नास्तिकता चार्वाकेषु, कण्टकयोगो नियोगेषु, खलसंयोगः शालिषु द्विजिह्वसङ्गृहीतिराहितुण्डिकेषु, नेत्रोत्पाटनं मुनीनाम्, द्विजराजविरुद्धता पङ्कजानाम्, सूचीभेदो मणीनाम्।

वासवदत्तायाः आख्यायिकाग्रन्थतया कतिचन श्लोका, अपि यत्र तत्र निवेशिताः सन्ति यैः सुबन्धोः पद्यप्रणयनपाटवं प्रकटीभवति।

इदं सत्यं यत् एवंप्रकारकः वाक्यविन्यासः क्लिष्टतां भजते कृत्रिमतामाश्रयति, वाचकान् क्लिश्नाति तथापि कल्पनाप्रौढिशब्दचयनालङ्कारसज्जाभिः अयं कविः सकलहृदस्तुत्यः इति निर्बाधं वक्तुं शक्यते।

यद्यपि बाणस्य इव रमणीयार्थप्रतिपादनसमये रमणीयशब्दसृष्टिः, दण्डिनः इव पदलालित्यं सुबन्धौ न विद्यते, तथापि विद्वज्जनहृदये श्लेषादिविविधालङ्कारप्रयोगेण सुबन्धोः सम्मानजनकं स्थानं विद्यते एव।

प्रश्न 3.
कादम्बर्याः संक्षेपेण परिचयं लिखत।
उत्तर:
गद्यसम्राट् महाकविबाणभट्टेन विरचिता कादम्बरी बाणस्य सर्वश्रेष्ठं गद्यकाव्यमस्ति। इयं कथाग्रन्थरूपा अस्ति। स्वयमेव कविना-धिया निबद्धेयमतिद्वयी कथा इति कादम्बर्याः कथाग्रन्थत्वम् उद्घोषितम्। कादम्ब निबद्धा कथा गुणाढ्यकृतायाः बृहत्कथायाः गृहीता। बृहत्कथायाः साम्प्रतम् उपलब्धिः नास्ति तथापि बाणकाले सा उपलभ्या आसीत् इति वक्तुं शक्यते। बृहत्कथातः नृपसुमनसः साधारण कथाम् आदाय बाणभट्टेन काव्यकलानैपुण्येन तस्यां वैशिष्ट्यमुत्पाद्य कादम्बरी विरचिता।

कादम्बर्याः कथा जन्मत्रयवृत्तान्तस्य अङ्गीकारेण जटिला जाता। एका कथा कथान्तरमुभावयति इति प्रथमा कथा सावशेषैव द्वितीयस्याः कथायाः अवसानप्रतीक्षमाणा तिष्ठति। एवम् अपरापि कथा इति कथासाङ्कय॑म् अत्र विद्योतते।