Rajasthan Board RBSE Class 12 Sanskrit व्याकरणम् कारकप्रकरणम्

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः-

प्रश्ना 1.
‘अभितः’ शब्दस्य योगे विभक्तिः भवति-
(क) चतुर्थी।
(ख) पंचमी
(ग) द्वितीया
(घ) तृतीया
उत्तर:
(ग) द्वितीया

प्रश्ना 2.
‘सह’ शब्दस्य योगे विभक्तिः भवति-
(क) तृतीया
(ख) चतुर्थी
(ग) पंचमी
(घ) षष्ठी
उत्तर:
(क) तृतीया

प्रश्ना 3.
कर्मवाच्यस्य अनुक्ते कर्तरि विभक्तिः भवति
(क) प्रथमा
(ख) द्वितीयो
(ग) तृतीया
(घ) पंचमी
उत्तर:
(ग) तृतीया

प्रश्ना 4.
अङ्गविकारे विभक्तिः भवति-
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) सप्तमी
उत्तर:
(ग) तृतीया

प्रश्ना 5.
अधस्तनेषु चतुर्थी विभक्तेः कारणम् अस्ति
(क) नमः
(ख) सह
(ग) अभितः
(घ) प्रति
उत्तर:
(क) नमः

प्रश्ना 6.
अधस्तनेषु पंचमीविभक्तेः कारणम् अस्ति-
(क) नमः
(ख) अनन्तरम्
(ग) अधोऽधः
(घ) खल्वाटः
उत्तर:
(ख) अनन्तरम्

प्रश्ना 7.
अपादाने विभक्तिः भवति
(क) द्वितीया
(ख) तृतीया
(ग) पंचमी
(घ) षष्ठी
उत्तर:
(ग) पंचमी

प्रश्ना 8.
रक्षार्थकधातूनां योगे विभक्तिः भवति-
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) तृतीया
उत्तर:
(ग) पंचमी

प्रश्ना 9.
कारकाणां संख्या अस्ति-
(क) सप्तः
(ख) अष्ट
(ग) षट्
(घ) नव
उत्तर:
(ग) षट्

प्रश्ना 10.
सम्बोधने विभक्तिः भवति-
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) षष्ठी
उत्तर:
(ख) प्रथमा

अतिलघूत्तरात्मक प्रश्नाः
प्रश्नः अधस्तनेषु रेखाङ्कितंशब्देषु विभक्तेः कारणं लिखत

  1. ग्रामं परितः वृक्षाणि सन्ति
  2. कंविषु कालिदासः श्रेष्ठः।
  3. मुक्तये हरि भजति।
  4. रामः चतुर्दशवर्षाणि वने अवसत्
  5. बालकः सिंहात् बिभेति
  6. ब्रह्मणः प्रजाः प्रजायन्ते
  7. हिमालयात् गङ्गा प्रभवति
  8. रामः देवदत्ताय शतं धारयति।
  9. गुरवे नमः।

उत्तर:

  1. ‘परितः’ योगे द्वितीया विभक्तिः वर्तते
  2. पृथक्करणे (निर्धारणे) समुदायवाचकपदे सप्तमी वर्तते।
  3. ताद ‘मुक्तये’ पदे चतुर्थी विभक्तिः वर्तते
  4. कर्मणि द्वितीया विभक्तिः वर्तते।
  5. भयार्थे ‘सिंहात्’ पदे पंचमी विभक्तिः वर्तते
  6. ‘जनिकर्तुः प्रकृतिः’ इति कारणात्.पंचमी वर्तते
  7. भुवः प्रभवः’ इति सूत्रेण पंचमी वर्तते।
  8. धारेरुत्तमर्णः’ इति सूत्रेण चतुर्थी वर्तते।
  9. ‘नमः’ योगे चतुर्थी वर्तते

लघूत्तरात्मकप्रश्नाः
प्रश्नः 1
अधोलिखित कारकाणां लक्षणानि उदाहरणानि च लिखत।
उत्तर:
(क) करणम्-‘साधकतमं करणम्।’ कर्मणि द्वितीया यथा बालकः कलमेन लिखति।।
(ख) सम्प्रदानम्-‘कर्मणा यमभिप्रेति सः सम्प्रदानम्।’ सम्प्रदाने चतुर्थी यथानृपः निर्धनीय धनं यच्छति
(ग) अपादानम्-‘ध्रुवमपायेऽपादानम्।’ अपादानेपञ्चमी यथा-नृप: ग्रामात् आगच्छति।
(घ) अधिकरणम्-‘आधारोऽधिकरणम्’ अधिकरणे सप्तमी यथा-स्थाल्यां पचति

प्रश्नः 2.
कारकस्य परिभाषा लेखनीया।
उत्तर:
‘क्रियाजनकत्वं कारकम्’ अथवा क्रियां करोति निर्वर्तयति इतिकारकम्

प्रश्न 3.
संस्कृते कति कारकाणि सन्ति तेषां नामानि लिखत।
उत्तर:
‘संस्कृते षट् कारकाणि सन्ति-कर्ता, कर्म, करणं, सम्प्रदानं, अपादानम्, अधिकरणञ्च’ योग्यताविस्तार खण्डः

प्रश्नः
(क) कोष्ठकगतशब्देषु उचितविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत।

  1. नास्ति …………………………………… समः शत्रुः। (क्रोधः)
  2. शिष्या …………………………………… विद्यां गृहन्ति (गुरु)
  3. माता …………………………………… स्निह्यति। (शिशु)
  4. …………………………………… भीतः बालकः क्रन्दति। (चौर)
  5. …………………………………… क्रोधः जायते (काम)
  6. अलम् …………………………………… (विवाद)
  7. …………………………………… परितः जलम् अस्ति। (नदी)
  8. …………………………………… रामायणं रोचते। (भक्त)।
  9. …………………………………… बहिः छात्राः कोलाहलं कुर्वन्ति (कक्षा)
  10. भिक्षुकः …………………………………… भिक्षां याचते। (नृप)
  11. जनकः …………………………………… क्रुध्यति। (पुत्र)

उत्तर:

  1. क्रोधेन,
  2. गुरोः,
  3. शिशौ,
  4. चौरात्,
  5. कामात्,
  6. विवादेन,
  7. नदीम्,
  8. भक्ताय,
  9. कक्षायाः,
  10. नृपं,
  11. पुत्राय

प्रश्न (ख)
कोष्ठकेभ्यः शुद्धम् उत्तरं चित्वा रिक्तस्थानानि पूरयत

  1. …………………………………… सह सुदामा वनम् अगच्छत् (कृष्णस्य/कृष्णेन)
  2. दिनेशः …………………………………… पुस्तकं यच्छति (रामं/रामाय)
  3. …………………………………… नमः। (शिवः/शिवाय)
  4. पिता …………………………………… क्रु ध्यति (पुत्रे/पुत्राय)
  5. माता …………………………………… स्निह्यति (पुत्रे/पुत्रात्)
  6. …………………………………… परितः क्षेत्राणि सन्ति (ग्रामस्य/ग्राम)
  7. …………………………………… मोदकाः रोचन्ते (बालकाय/बालकाः)
  8. हरिः …………………………………… अधिशेते। (वैकुण्ठे/वैकुण्ठम्)

उत्तर:

  1. कृष्णेन
  2. रामाय
  3. शिवाय
  4. पुत्राय
  5. पुत्रे
  6. ग्राम
  7. बालकाय,
  8. वैकुण्ठम्

प्रश्नः (ग)
अधोलिखितशब्देषु उचितविभक्तिप्रयोगं कृत्वा वाक्यरचना कुरुत।।
उत्तर:

  1. विना-जलं विना जीवनं नास्ति।
  2. धिक्-धिक् दुर्जनम्।
  3. बहिः-ग्रामात् बहिः उपवनमस्ति।
  4. बिभेति-बालकः चौरात् बिभेति।
  5. काणः-सः नेत्रेण काणः।
  6. अन्तरा-रामं लक्ष्मणं चान्तरी सीता वर्तते
  7. पटुतरः-रमेशः मोहनात् पटुतरः।
  8. पटुतमः-जितेन्द्र छात्रेषु पटुतमः।
  9. स्वाहाः-अग्नये स्वाहा।
  10. उपवसति-मुनिः वने उपवसति।
  11. अधः-भूमिम् अधः जलम् अस्ति।
  12. कुशलः-छात्रस्य क्रुशलं भूयात्

प्रश्न (घ)
अधोलिखितवाक्यानि संशोधनीयानि
उत्तर:
RBSE Class 12 Sanskrit व्याकरणम् कारकप्रकरणम् 1

प्रश्नः (ङ)
‘क’ खण्डं ‘ख’ खण्डेन सह योजयत।
RBSE Class 12 Sanskrit व्याकरणम् कारकप्रकरणम् 2
उत्तर:

  1. धारिधातुयोगे. चतुर्थी।
  2. रुधातुयोगे चतुर्थी।
  3. अङ्गविकारे तृतीया।।
  4. सम्बन्धे षष्ठी।
  5. अधिशीधातुयोगे द्वितीया।
  6. वारिधातुयोगे पञ्चमी
  7. यस्य च भावेन भावलक्षणम् सप्तमी।
  8. कर्मवाच्यस्य कर्मणि प्रथमा

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठ प्रश्नाः

प्रश्ना 1.
प्रातिपदिकार्थमात्रे विभक्तिः भवति
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) चतुर्थी
उत्तर:
(क) प्रथमा

प्रश्ना 2.
द्रोणो व्रीहिः इत्यत्र प्रथमा भवति
(क) प्रातिपदिकार्थमात्रे
(ख) परिमाणमात्रे
(ग) संख्यामात्रे
(घ) लिङ्गमात्राधिक्ये
उत्तर:
(ख) परिमाणमात्रे

प्रश्ना 3.
अनुक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) द्वितीया
(घ) प्रथमा
उत्तर:
(ग) द्वितीया

प्रश्ना 4.
उक्ते कर्मणि विभक्तिः भवति
(क) तृतीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पंचमी
उत्तर:
(ग) प्रथमा

प्रश्ना 5.
‘अकथितं च सूत्रेण विधीयते
(क) कर्तृसञ्ज्ञा
(ख) कर्मसञ्ज्ञा
(ग) करणंज्ञा
(घ) हेतुसञ्ज्ञा
उत्तर:
(ख) कर्मसञ्ज्ञा

प्रश्ना 6.
‘अधिशीस्थासां कर्म’ इति सूत्रेण कर्मसंज्ञा विधीयते
(क) आधारस्य
(ख) प्रीयमाणस्य
(ग) अप्रधानस्य
(घ) अङ्गविकारस्य
उत्तर:
(क) आधारस्य

प्रश्ना 7.
उपान्वध्यावसः’ इति सूत्रेण आधारस्य सञ्ज्ञा भवति
(क) कर्तृ
(ख) करण
(ग) सम्प्रदान
(घ) कर्म
उत्तर:
(घ) कर्म

प्रश्ना 8.
क्रियासिद्धौ प्रकृष्टोपकारकस्य भवति
(क) कर्मसंज्ञा
(ख) करणसंज्ञा
(ग) कर्तृसंज्ञा
(घ) सम्प्रदानसंज्ञा
उत्तर:
(ख) करणसंज्ञा

प्रश्ना 9.
अनुक्ते कर्तरि करणे च विधीयते
(क) द्वितीया
(ख) प्रथमा
(ग) तृतीया
(घ) पंचमी
उत्तर:
(ग) तृतीया

प्रश्ना 10.
जटाभिस्तापसः अत्र जटाशब्दे तृतीया विधीयते
(क) फलवाचके
(ख) लक्षणवाचके
(ग) प्रकृष्टोपकारके
(घ) विकारवाचके
उत्तर:
(ख) लक्षणवाचके

प्रश्ना 11.
इत्थंभूतलक्षणे विधीयते
(क) द्वितीया
(ख) तृतीया
(ग) सप्तमी
(घ) प्रथमा
उत्तर:
(ख) तृतीया

प्रश्ना 12.
कर्मणा यम् अभिप्रेति स भवति
(क) अपादानम्
(ख) सम्प्रदानम्।
(ग) करणम्
(घ) अधिकरणम्
उत्तर:
(ख) सम्प्रदानम्।

प्रश्ना 13.
‘हरये रोचते भक्तिः इत्यत्र पदार्थे चतुर्थी अस्ति
(क) प्रीयमाणे
(ख) अप्रीयमाणे
(ग) साधकंतमे।
(घ) ईप्सिततमे।
उत्तर:
(क) प्रीयमाणे

प्रश्ना 14.
क्रुधद्रुहोरुपसृष्टयोः संज्ञा भवति
(क) सम्प्रदानसंज्ञा
(ख) करणसंज्ञा
(ग) कर्तृसंज्ञा
(घ) कर्मसंज्ञा
उत्तर:
(घ) कर्मसंज्ञा

प्रश्ना 15.
‘परिक्रयणे सम्प्रदानमन्यतरस्याम्’ इत्यनेन किल्पेन सम्प्रदानसंज्ञा भवति
(क) ईप्सितंतमस्य
(ख) साधकतमस्य
(ग) उत्तमर्णस्य
(घ) ईप्सितस्य
उत्तर:
(ख) साधकतमस्य

प्रश्ना 16.
नमः स्वस्तिस्वाहा ………………………………………. एषां योगे विभक्तिः विधीयते
(क) चतुर्थी
(ख) पंचमी
(ग) तृतीया
(घ) सप्तमो
उत्तर:
(क) चतुर्थी

प्रश्ना 17.
अपाये अर्थे संज्ञा विधीयते
(क) करणसंज्ञा
(ख) सम्प्रदानसंज्ञा
(ग) अधिकरणसंज्ञा
(घ) अपादानसंज्ञा
उत्तर:
(घ) अपादानसंज्ञा

प्रश्ना 18.
स्वस्वामिभावे अर्थे विभक्ति विधीयते
(क) पंचमी
(ख) सप्तमी
(ग) षष्ठी
(घ) चतुर्थी
उत्तर:
(ग) षष्ठी

प्रश्ना 19.
‘देवदत्तस्य मोक्षे इच्छास्ति’-अत्र मोक्षपदे आधारः अस्ति
(क) औपश्लेषिकः
(ख) वैषयिकः
(ग) अभिव्यापकः।
(घ) भावलक्षणः
उत्तर:
(ख) वैषयिकः

प्रश्ना 20.
‘यस्य च भावेन भावलक्षणम्’-सूत्रेण विधीयते
(क) षष्ठी
(ख) पंचमी
(ग) सप्तमी
(घ) चतुर्थी
उत्तर:
(ग) सप्तमी

अतिलघूत्तरात्मक प्रश्नाः

प्रश्न 1.
प्रातिपदिकार्थेति सूत्रे समासविग्रहः करणीयः।
उत्तर:
अस्मिन् सूत्रे द्वन्द्वसमासः वर्तते-प्रातिपदिकार्थश्च लिङ्गञ्च परिमाणञ्च वचनञ्चेति। तान्येव प्रातिपदिकार्थलिङ्गवचनमात्रम्, तस्मिन् प्रथमा भवति

प्रश्न 2.
‘सम्बोधने च’ सूत्रस्थसम्बोधनपदस्य अर्थं स्पष्टयत।
उत्तर:
सम्बोधनम् अर्थात् कमपि जनं किमपि कथयितुं तस्य अभिमुखीकरणं भवति।।

प्रश्न 3.
कति कारकाणि, कानि च तानि? स्पष्टरूपेण प्रतिपादयत्।।
उत्तर:
क्रियाजनकत्वं कारकम्’-अर्थात् यस्य क्रियया सह साक्षात् सम्बन्धः भवति तत् कारकम् कथ्यते संस्कृते षट्कारकाणि भवन्ति-कर्ता, कर्म, करणम्, सम्प्रदानम्, अपादानम्, अधिकरणञ्चेति सम्बन्धस्य कारकान्तर्गते परिगणनं न भवति, यतोहि तस्य क्रियया सह साक्षात् योगः न भवति।।

प्रश्न 4.
‘कर्तुरीप्सिततमं कर्म’ सूत्रस्य अर्थं स्पष्टयत।।
उत्तर:
कर्ता स्वक्रियया अत्यधिकरूपेण यम् अभिलषति तस्य कर्मसंज्ञा भवति यथा ‘देवदत्तः हरिं भजति’ इत्यत्र देवदत्तस्य भजनक्रियया अतिशयेन ईप्सितः ‘हरिः अस्ति अतएव ‘हरिः’ पदस्य कर्मसंज्ञा, कर्मणि च द्वितीया विभक्ति भवति।

प्रश्न 5.
‘सुधां क्षीरनिधिं मनाति’-अस्मिन् वाक्ये चिह्नितपदे कारणनिर्देशपूर्वकं विभक्तिं लिखत।।
उत्तर:
अस्मिन् वाक्ये मथ् धातोः प्रयोगे क्षीरनिधि’ शब्दे अधिकरणस्य अविवक्षया कर्मसंज्ञा तथा च द्वितीया विभक्तिः वर्तते

प्रश्न 6.
‘वने उपवसति’ इत्यत्र वनशब्दे द्वितीया कथं नेति स्पष्टयत।
उत्तर:
अत्र ‘उप’ उपसर्गपूर्वक ‘वस्’ धातोः प्रयोगः उपवासार्थे अस्ति न तु निवासे अर्थे। अतः तस्य आधारवाचकस्य ‘वन’ शब्दस्य कर्मसंज्ञायाः’अभुक्त्यर्थस्य न’ इति वार्तिकेन। निषेधः। फलतः ‘वन’ शब्दस्य अधिकरण संज्ञा भूत्वा सप्तमी विभक्तिः अस्ति।

प्रश्न 7,
‘कालाध्वनोरत्यन्तसंयोगे’ सूत्रस्यर्थं प्रतिपादयत्।
उत्तर:
गुणेन क्रियया द्रव्येण च कालवाचकस्य मार्गवाचकस्य च निरन्तरसंयोगे द्वितीया विभक्तिः भवति यथा-मासम् अधीते क्रोशं कुटिला नदि।

प्रश्न 8.
‘कालाध्वनोरत्यन्तसंयोगे’, ‘अपवर्गे तृतीया’ अनयोः द्वयोः सूत्रयोः अन्तरं स्पष्टयत।
उत्तर:
गुणेन क्रियया द्रव्येण च कालवाचकस्य अध्वा (मार्ग) वाचकस्य च निरन्तर-संयोगे द्वितीया विभक्तिः भवति यत्र ‘फलप्राप्तिः’ इत्यस्य अर्थस्य ज्ञानं भवति तत्र कालवाचकस्य मार्गवाचकस्य च शब्दस्य निरन्तरसंयोगे तृतीया भवति।

द्वयोः सूत्रयोः अन्तरम्-‘कालाध्वनोरत्यन्तसंयोगे’ सूत्रस्य प्रयोगदशायां फलप्राप्तिः भवति न वा अत्र सन्देहः, किन्तु ‘अपवर्गे तृतीया’ इति सूत्रप्रयोगे फलप्राप्तिविषये सन्देहः नास्ति।

प्रश्न 9.
पुत्रेण सहागतः पिता। अत्र चिह्निते शब्दे कारणनिर्देशपूर्वकं विभक्तिं लिखत।
उत्तर:
अत्र ‘सह’ अव्ययस्य योगे अप्रधानपदे ‘पुत्रेण’ इत्यत्र ‘सहयुक्तेऽप्रधाने’ इति सूत्रेण तृतीया विभक्तिः अस्ति।

प्रश्न 10,
“धारेरुत्तमर्णः” इत्यस्मिन् सूत्रे ‘उत्तमर्ण’ शब्दं स्पष्टयत।
उत्तर:
ऋणदाता उत्तमर्णः भवति, ऋणग्रहीता च अधमर्णः।’ धारि’ धातोः प्रयोगे य उत्तमर्णः भवति, तस्य सम्प्रदानसंज्ञा भवति यथा-भक्ताय धारयति मोक्षं हरिः। अत्र ‘भक्तः उत्तमर्णः (भक्तिरूपऋणदाता) अस्ति।

प्रश्न 11.
‘स्पृहेरीप्सितः’, ‘कर्तुरीप्सिततमं कर्म’ अनयोः सूत्रयोः अर्थं स्पष्टयत।
उत्तर:
‘स्पृहि’ धातोः प्रयोगे यः इष्टः भवति तस्य सम्प्रदानसंज्ञा भवति इयं सम्प्रदानसंज्ञा ‘स्पृहेरीप्सितः’ सूत्रेण केवलम् ईप्सिते अर्थे भवति, यत्र तु ईप्सिततमस्य विवक्षा भवति तत्र तु ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेण कर्मसंज्ञा भवति।

प्रश्न 12.
क्रुधद्हेष्यसूयार्थानां यं प्रति कोपः’ इति सूत्रस्य व्याख्यां कुरुत।
उत्तर:
क्रुध् = क्रोधः, द्रुह् = अपकारः, ईष्र्ण्य = अक्षमा, असूयः = गुणेषु दोषदर्शनम्, एतदर्थकानां धातूनां प्रयोगे ये प्रति कोपः = क्रोधः, तस्य सम्प्रदानसंज्ञा भवति।

प्रश्न 13.
‘नमस्करोति देवान्’ इत्यत्र ‘देव’ पदे चतुर्थी कथन्नेति स्पष्टयत?
उत्तर:
अत्र नमः पदमधिकृत्य नमः स्वस्तीत्यादि सूत्रेण ‘देव’ पदे चतुर्थी प्राप्ताऽस्ति एवञ्च ‘नमस्करोति’ इति क्रियापदमधिकृत्य कर्तुरीप्सिततमं कर्म’ इति सूत्रेण द्वितीया कारक विभक्तिः प्राप्ता अस्ति नमः’ पदमधिकृत्य तु चतुर्थी उपपदविभक्तिः वर्तते अतः उपपदविभक्तेः कारकविभक्तिर्बलयसी’ इति परिभाषाबलेन अत्र द्वितीया एव भवति।।

प्रश्न 14,
‘ताद चतुर्थी वाच्या’ इत्यत्र तादर्थ्यपदस्य कोऽर्थः स्पष्टयत?
उत्तर:
तस्मै इदं तदर्थम् तदर्थस्य भावः तादर्थ्यम् अर्थात् यत् प्रयोजनं हृदि निधाय किमपि कार्यं क्रियते, तत् प्रयोजन तादर्थ्यम् भवति, तस्मिन् ताद च चतुर्थी विभक्तिः भवति।।

प्रश्न 15.
ईप्सित-ईप्सिततमयोः को भेदः सूत्रे निर्दिष्टोदाहरणाभ्यां स्पष्टयत?
उत्तर:
‘स्पृहेरीप्सितः’ इति सूत्रेण ‘स्पृहि’ धातो: प्रयोगे केवलम् ईप्सिते अर्थे सम्प्रदानसंज्ञा भवति, यत्र तु ईप्सिततमस्य विवक्षा भवति तत्र तु कर्तुरीप्सिततमं कर्म’ इतिसूत्रेण कर्मसंज्ञा भवति यथा-‘पुष्पाणि स्पृहयति’ अत्र ‘पुष्प’ पदे कर्तुः ईप्सिततमस्य विवक्षा वर्तते किन्तु ‘पुष्पेभ्यः स्पृहयति’ इत्यत्र पुष्पाणि ईप्सितानि सन्ति

प्रश्न 16.
‘आढयातोपयोगे’ इति सूत्रस्य अर्थं स्पष्टयत।
उत्तर:
यत्र नियमितरूपेण विद्याग्रहणं भवति तत्र आढयाता अर्थात् विद्याप्रदातुः अपादानसंज्ञा भवति यथा-उपाध्यायात् अधीते।

प्रश्न 17,
‘जनिकर्तुः प्रकृतिः’ इति सूत्रे ‘जनिकर्तुः’ पदस्य अर्थम् प्रतिपादयतः?
उत्तर:
जननं जनिः, जनेः कर्ता जनिकर्ता तस्य जनिकर्तुः अर्थात् जायमानस्य पदार्थस्य यः हेतुः भवति सः ‘जनिकर्ता’ कथ्यते यथा ‘ब्रह्मणः प्रजाः प्रजायन्ते’ अत्र जायमानायाः प्रजायाः हेतु ‘ब्रह्मा’ अस्ति।

प्रश्न 18.
‘भुवः प्रभवः’ सूत्रस्थ ‘प्रभवः’ शब्दस्य अर्थं निरूपयत।।
उत्तर:
‘भुवः प्रभवः’ इत्यत्र ‘प्रभवः’ शब्दस्यार्थः वर्तते-कस्यचिदपि उत्पद्यमानस्य पदार्थस्य प्रथमं प्रकाशनस्थानम्। तस्य च अपादानसंज्ञा भवति यथा-‘हिमवतः गङ्गा प्रभवति।’ अस्मिन् वाक्ये गङ्गायाः प्रथमः प्रभवः = प्रकाशनस्थानं ‘हिमवत् अस्ति।

प्रश्न 19.
सम्बन्धस्य कारकसंज्ञा कथं न भवति? स्पष्टरूपेण विवेचनं कुरुत?
उत्तर:
यस्य क्रियया सह साक्षात् सम्बन्धः भवति तदेव कारकं कथ्यते सम्बन्धः तु वाक्यप्रयोगस्य दृशा तु अपरिहार्यः, किन्तु कारकान्तर्गते तस्य परिगणनं न भवति। अस्येदं कारणमस्ति यत् सम्बन्धस्य क्रियया सह साक्षात् योगः न भवति यथा-‘देवदत्तः रामस्य पुस्तकं पठति।’ अस्मिन् वाक्ये रामस्य पठनक्रियया सह साक्षात् योगः नास्ति।

प्रश्न 20.
‘षष्ठी शेषे’ इत्यत्र शेषपदस्य कोऽर्थः? स्पष्टयत।
उत्तर:
यत्र कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धः दृश्यते स शेषः तस्मिन् शेषे अर्थे षष्ठी विभक्तिः भवति। यथा-राज्ञः पुरुषः। अस्मिन् वाक्ये राजा स्वामी पुरुषः सेवकः (स्वः) इत्थमत्र कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावसम्बन्धः वर्तते

प्रश्न 21.
‘षष्ठी हेतुप्रयोगे’ ‘हेतौ’ इत्यनयोः सूत्रयोः सूक्ष्मविवेचनं कुरुत?
उत्तर:
‘हेतौ’ इति सूत्रानुसारेण कारणपर्यायवाचकस्य हेतुशब्दस्य अर्थे द्योतिते सति तृतीया विभक्तिः भवति, यथा-दण्डेन घटः। किन्तु यस्मिन् वाक्ये हेतु’ शब्दस्यैव प्रयोगः दृश्यते तत्र हेतुवाचके शब्दे षष्ठी विभक्तिः भवति, यथा-अन्नस्य हेतोः वसति।

प्रश्न 22.
‘कर्तृकर्मणोः कृतिः’, ‘उभयप्राप्तौ कर्मणि’:अनयोः सूत्रयोः अन्तरं स्पष्टयत।
उत्तर:
‘कर्तृकर्मणोः कृतिः’ इति सूत्रेण कृत्प्रत्ययस्य प्रयोगे सति कर्तरि कर्मणि च षष्ठी विभक्त्याः विधानं भवति। किन्तु ‘उभयप्राप्तौ कर्मणि’ इति सूत्रेण यस्मिन् वाक्ये एकस्य कृत् प्रत्ययस्य प्रयोगे कर्तरि कर्मणि च उभयत्र षष्ठी विभक्तिः प्राप्ता भवति तत्र केवलं कर्मणि षष्ठी भवति।।

प्रश्न 23.
‘षष्ठी चानादरे’ सूत्रस्य अर्थम् स्पष्टयत?
उत्तर:
अनादरस्य आधिक्ये प्रकटिते सति यस्य क्रियया अन्या क्रिया लक्षिता भवति तया पूर्वक्रियया षष्ठी सप्तमी च विभक्ती भवतः। यथा-‘रुदति रुदतो वा प्राव्राजीत्’

प्रश्न 24.
‘यतश्च निर्धारणम्’ सूत्रस्थ निर्धारणम्’ पदस्य अर्थम् स्पष्टयतः।
उत्तर:
यत्र कस्माच्चिदपि समुदायात् जात्या गुणेन क्रियया संज्ञया वा कस्यचिदपि पृथक्करणं भवति तदेव निर्धारणं कथ्यते यथा-‘गवां गोषु वा कृष्णा बहुक्षीरा’

प्रश्न 25.
‘यतश्च निर्धारणम्’, ‘पञ्चमी विभक्ते’ सूत्रयोः अन्तरं स्पष्टयत।
उत्तर:
यत्र कस्माच्चिदपि समुदायात् जात्या गुणेन क्रियया संज्ञया वा कस्यचिदपि पृथक्करणं भवति, तत्र यतः पृथक्करणं भवति तस्मात् समुदायवाचकात् शब्दात् यतश्च निर्धारणम्’ सूत्रेण षष्ठी सप्तम्यौ भवतः।
यथा-
छात्राणां छात्रेषु वा रमेशः पटुः।

यत्र द्वयोः समुदाययोः तुलनायां यस्मात् भेदः क्रियते तत्र ‘पञ्चमी विभक्तेः’ इति सूत्रेण पञ्चमी विभक्तिः भवति यथा माथुराः पाटलिपुत्रकेभ्यः आढ्यतराः।

प्रश्न 26.
अभिमुखीकरणार्थे का विभक्तिः भवति?
उत्तर:
प्रथमाविभक्तिः (सम्बोधने)।

प्रश्न 27.
अधोलिखितेषु रेखांकितपदेषु प्रयुक्तविभक्तयाः विधायकं सूत्रं लिखत

  1. बलिं याचते वसुधाम्
  2. हरये रोचते भक्तिः
  3. सर्वस्मिन् आत्मास्ति

उत्तर:

  1. “अकथितं च” इति सूत्रेण द्वितीया विभक्तिः
  2. ‘रुच्यर्थानां प्रीयमाणाः’ इति सूत्रेण चतुर्थी विभक्तिः।
  3. “सप्तम्यधिकरणे च” इति सूत्रेण सप्तमी विभक्तिः।

प्रश्न 28.
अधोलिखितेषु अशुद्धवाक्येषु द्वे वाक्ये शुद्धं कृत्वा लिखत

  1. गृहस्य परितः गृहाणि सन्ति।
  2. हिमवता गङ्गा प्रभवति
  3. रामस्ये साकं सीता वनं गतवती

उत्तर:
शुद्ध वाक्य-

  1. गृहं परितः गृहाणि सन्ति।
  2. हिमवतः गङ्गा प्रभवति।
  3. रामेण साकं सीतावनं गतवती।

प्रश्न 29.
अधोलिखितेषु द्वयोः पदयोः संस्कृते वाक्यरचनां कुरुत

  1. नमस्करोति
  2. स्वस्ति
  3. त्रायते

उत्तर:

  1. राजेन्द्रः अध्यापकं नमस्करोति।
  2. स्वस्ति बालकेभ्यः।
  3. सः पापात् त्रायते

प्रश्न 30.
अपादानकारकं विधायकं सूत्रं लिखत।
उत्तर:
ध्रुवमपायेऽपादानम्।

प्रश्न 31.
अधोलिखितेषु रेखांकितपदेषु प्रयुक्तविभक्त्याः विधायक सूत्रं वार्तिकं वा लिखते

  1. हरिः वैकुण्ठम् अधिशेते।
  2. पुण्येन दृष्टः हरिः।
  3. राजा विप्राय गां ददाति।

उत्तर:

  1. ‘अधिशीसां कर्म’ इति सूत्रेण द्वितीया विभक्तिः।
  2. ‘हेतौ’ इति सूत्रेण तृतीया विभक्तिः।
  3. चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी विभक्तिः

प्रश्न 32.
अधोलिखितेषु अशुद्धवाक्येषु द्वे वाक्ये शुद्धं कृत्वा लिखत

  1. वृक्षस्य परितः बालकाः सन्ति।
  2. कविभिः कालिदासः श्रेष्ठः।
  3. हरिं रोचते भक्तिः

उत्तर:
शुद्ध वाक्य-

  1. वृक्षं परितः बालकाः सन्ति।
  2. कविषु कालिदासः श्रेष्ठः।
  3. हरये रोचते भक्तिः

प्रश्न 33.
अधोलिखितेषु द्वयोः पदयोः संस्कृते वाक्यरचनां कुरुत

  1. क्रुध्यति
  2. काणः।
  3. विभेति।

उत्तर:

  1. पिता पुत्राय क्रुध्यति
  2. वृद्धः नेत्रेण काणः अस्ति।
  3. सः सिंहात् विभेति।

प्रश्न 34.
कारकं किम्?
उत्तर:
क्रियाजनकत्वं कारकम्।

प्रश्न 35.
अधोलिखितेषु रेखांकित-पदेषु प्रयुक्तविभक्त्याः विधायकं सूत्रं वार्तिकं वा लिखत।।

  1. सः सन्मार्गम् अभिनिविशते।
  2. जनन्या समं पुत्रः आपणं गच्छति।
  3. ब्रह्मणः प्रजाः प्रजायन्ते।

उत्तर:

  1. ‘अभिनिविशश्च’ इति सूत्रेण द्वितीयाविभक्तिः।
  2. ‘सहयुक्तेऽप्रधाने’ इति सूत्रेण तृतीयाविभक्तिः
  3. ‘जनिकर्तुः प्रकृतिः’ इति सूत्रेण पंचमीविभक्तिः।

प्रश्न 36.
अधोलिखितेषु अशुद्धवाक्येषु द्वे वाक्ये शुद्धं कृत्वा लिखत

  1. वृक्षे उपरिकाकः तिष्ठति।
  2. धनिकः भिक्षुकं वस्त्राणि यच्छति।
  3. देवदत्तः नेत्रात् काणः।

उत्तर:
शुद्ध वाक्य

  1. वृक्षस्य उपरि काकः तिष्ठति
  2. धनिकः भिक्षुकाय वस्त्राणि यच्छति।
  3. देवदत्तः नेत्रेण काणः।

प्रश्न 37.
अधोलिखितेषु द्वयोः पदयोः संस्कृते वाक्यरचनां कुरुत

  1. सार्धम्
  2. त्रायते
  3. स्पृह्यति

उत्तर:

  1. पिता पुत्रेण सार्धं गच्छति।
  2. नृपः चौरात् जायते।
  3. बालिका पुष्पेभ्यः स्पृह्यति।।

प्रश्न 38.
करणकारकविधायकं सूत्रं लिखत।
उत्तर:
साधकतमं करणम्।

प्रश्न 39.
अधोलिखितेषु रेखांकितपदेषु प्रयुक्तविभक्त्याः विधायकं सूत्रं वार्तिकं वा लिखत
(i) विद्यालयं समया एव देवालयः वर्तते।
उत्तर:
अभितः परितः समया निकषा हा प्रतियोगेऽपि इति सूत्रेण द्वितीया विभक्तिः।

(ii) अलं मल्लो मल्लाय।
उत्तर:
नमः स्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च इति सूत्रेण चतुर्थीविभक्तिः।

(iii) मम पिता आजीविकायाः हेतोः कार्यशाला गच्छति।
उत्तर:
षष्ठी हेतुप्रयोगे इति सूत्रेण षष्ठीविभक्तिः।

प्रश्न 40.
अधोलिखितेषु अशुद्धवाक्येषु द्वे वाक्ये शुद्धं कृत्वा लिखत

  1. मोहनः पर्यङ्के अधिशेते।
  2. वृक्षैः फलानि पतन्ति।
  3. वने पशवः सिंहेन बिभ्यन्ति।

उत्तर:
शुद्ध-वाक्य

  1. मोहनः पर्यङ्कम् अधिशेते।
  2. वृक्षेभ्यः फलानि पतन्ति।
  3. वने पशवः सिंहात् बिभ्यन्ति।

प्रश्न 41.
अधोलिखितेषु द्वयोः पदयोः संस्कृते वाक्यरचनां कुरुत

  1. बधिरः
  2. स्वाहा
  3. उद्भवति

उत्तर:

  1. बधिरः-सः वृद्धः कर्णाभ्यां बधिरः।
  2. स्वाही-अग्नये स्वाहा
  3. उद्भवति–गङ्गा हिमालयात् उद्भवति।

प्रश्न 42.
‘हिमवतः गङ्गा प्रभवति।’ इत्यत्र ‘हिमवत्’ शब्दस्यापादानसंज्ञा केन सूत्रेण जाता ?
उत्तर:
‘भुवः प्रभवः’ इति सूत्रेण अपादानसंज्ञा जाता।

प्रश्न 43.
वने उपवसति। वनमुपवसति। इति द्वयोः शुद्धवाक्ययोः ‘उपवसति’ पदम् कस्मिन् कस्मिन्नर्थे प्रयुक्तम् ?
उत्तर:
‘वने उपवसति’ इत्यत्र ‘उपवसति’ पदं ‘उपवासं करोति’ इत्यर्थे प्रयुक्तम्, तथा च ‘वनमुपवसति’ इत्यत्र ‘उपवसति’ पदं निवास करोति’ इत्यर्थं प्रयुक्तम्

प्रश्न 44.
अधोलिखिते वाक्ये कारकसम्बन्थ्यशुद्धिं दूरीकृत्य पुनः लेखनीये

  1. रामः बाणेन बाली हतः।
  2. हे राम मर्म रक्ष।

उत्तर:
शुद्धवाक्यम्-

  1. रामेण बाणेन बाली हतः।
  2. हे राम ! माम् रक्ष।

प्रश्न 45.
कारकनियमानुसारमधोलिखितपदयोः स्वरचितवाक्ययोः प्रयोगः क्रियताम्

  1. कुशला
  2. अध्यास्ते

उत्तर:

  1. कुशला-रमा गृहकर्मणि कुशला वर्तते।
  2. अध्यास्ते-हरिः वैकुण्ठम् अध्यास्ते।

प्रश्न 46.
निम्नलिखितवाक्ये पञ्चवाक्यानि संशोधनीयानि
(क) बालकः अध्यापकात् प्रश्नं पृच्छति।।
(ख) महेशः प्रकृत्याः साधुः।
(ग) मा पुस्तकं पठ्यते।
(घ) धनिकः भिक्षुकं वस्त्राणि यच्छति।
(ङ) दुर्जनः सज्जने असूयति।।
(च) जनः सिंहेन बिभेति।
(छ) माता गुरुतरा भूमिः।
(ज) इदं फलं बालकं कृते वर्तते
उत्तर:
शुद्ध वाक्यानि
(क) बालकः अध्यापकं प्रश्नं पृच्छति।
(ख) महेशः प्रकृत्या साधुः।
(ग) मया पुस्तकं पठ्यते
(घ) धनिकः भिक्षुकाय वस्त्राणि यच्छति
(ङ) दुर्जनः सज्जनाय असूयति।
(च) जनः सिंहात् बिभेति
(छ) माती गुरुतरा भूमेः।
(ज) इदं फलं बालकस्य कृते वर्तते।

प्रश्न 47.
निम्नलिखितवाक्ये केषाञ्चित् पञ्चवाक्यानां संशोधनं कुरुत
(क) सः नृपात् धनं याचते।
(ख) ग्रामस्य निकषा उपवनमस्ति
(ग) सज्जनः सुखात् जीवति
(घ) सः जटाभ्यः तापसः प्रतीयते
(ङ) मां रुप्यकाणि देहि।
(च) दैत्येषु हरिः अलम्
(छ) बालकः शिक्षकं निवेदयति
(ज) नृपः चौराय जायते
उत्तर:
शुद्ध वाक्यानि
(क) सः नृपं धनं याचते।
(ख) ग्रामं निकषा उपवनमस्ति।
(ग) सज्जनः सुखेन जीवति।
(घ) सः जटाभिः तापसः प्रतीयते
(ङ) मह्यं रुप्यकाणि देहि
(च) दैत्येभ्यः हरिः अलम्
(छ) बालकः शिक्षकाय निवेदयति
(ज) नृपः चौरात् जायते।।

प्रश्न 48.
निम्नलिखितवाक्यानि संशोधनीयानि
(क) वृक्षे उपरि काकः तिष्ठति।।
(ख) सविता मातरं स्मरति।
(ग) भोजनेन कृते गच्छामि।।
(घ) गृहस्य प्रति जनाः आगच्छन्ति
(ङ) भोजेन राज्यं कविः दत्तम्।
उत्तर:
शुद्ध वाक्यानि
(क) वृक्षस्य उपरि काकः तिष्ठति।
(ख) सविता मातुः स्मरति।
(ग) भोजनस्य कृते गच्छामि।
(घ) गृहं प्रति जनाः आगच्छन्ति
(ङ) भोजेन राज्यं कवये दत्तम्।

प्रश्न 49.
निम्नलिखितवाक्यानि संशोधनीयानि
(क) त्वम् राज्यस्य रक्षसि।
(ख) हरिः वैकुण्ठे अधिशेते
(ग) विद्या विनयात् शोभते
(घ) रामस्य समः कृष्ण
(ङ) तव जनकं नमः।
उत्तर:
शुद्ध वाक्यानि
(क) त्वम् राज्यं रक्षसि।
(ख) हरिः वैकुण्ठम् अधिशेते।
(ग) विद्या विनयेन शोभते
(घ) रामेण समः कृष्णः।।
(ङ) तव जनकाय नमः।

प्रश्न 50.
कारकनियमानुसारं निम्नलिखितवाक्यानि शुद्धं कृत्वा लेख्यानि
(क) शिष्यः गुरवे प्रश्नं पृच्छति।
(ख) बालकः चौरं बिभेति
(ग) गवां पयः दोग्धि।
(घ) अलं विवादात्
(ङ) तं धनं दातव्यम्।
उत्तर:
शुद्ध वाक्यानि
(क) शिष्यः गुरुं प्रश्नं पृच्छति।
(ख) बालकः चौरात् बिभेति।
(ग) गां पयः दोग्धि
(घ) अलं विवादेन।
(ङ) तस्मै धनं दातव्यम्।

निर्देशः-निम्नलिखितपदानां वाक्यप्रयोगं कुरुत

प्रश्न 51.
(क) वयम्
(ख) पठन्ति
(ग) परितः
(घ) कविषु
(ङ) प्रातः।
उत्तर:
(क) वयम्-वयं गृहं गच्छामः।
(ख) पठन्ति-छात्राः पुस्तकं पठन्ति।
(ग) परितः-विद्यालयं परितः वृक्षाः सन्ति।
(घ) कविषु-कविषु कालिदासः श्रेष्ठतमः वर्तते।
(ङ) प्रातः-अत्रः जनाः प्रातः भ्रमणं कुर्वन्ति।

प्रश्न 52.
(क) कुशलतमः
(ख) अयम्
(ग) भ्रमन्ति
(घ) अपि।
उत्तर:
(क) कुशलतमः-मोहनः सर्वेषु बालकेषु कुशलतम् वर्तते।
(ख) अयम्-अयम् मम विद्यालयः अस्ति।
(ग) भ्रमन्ति-बालकाः क्रीडाक्षेत्र भ्रमन्ति।
(घ) अपि-रामः अपि मया सह पठति।

प्रश्न 53.
(क) ददाति
(ख) गुरवे
(ग) पातुम्
(घ) तस्य।
उत्तर:
(क) विद्या विनयं ददाति।
(ख) गुरवे नमः।
(ग) सः जलं पातुम् इच्छति।
(घ) मोहनः तस्य पुत्रः वर्तते।

प्रश्न 54.
(क) इमानि
(ख) देशस्य
(ग) गत्वा
(घ) अपठन्
(ङ) शनैः।
उत्तर:
(क) बालकाः इमानि फलानि खादन्ति
(ख) वीराः देशस्य रक्षां कुर्वन्ति।
(ग) मोहनः गृहं गत्वा पठति।
(घ) अत्र छात्राः अपठन्।
(ङ) गजः शनैः चलति।

प्रश्न 55.

  1. अहम्
  2. पठितुम्
  3. खलु
  4. देशस्य
  5. सरित्।

उत्तर:

  1. अहं पुस्तकं पठामि।
  2. छात्राः पठितुम् अत्र आगच्छन्ति
  3. ते खलु धनिकाः सन्ति।
  4. वीराः देशस्य रक्षां कुर्वन्ति।
  5. वनं निकषा सरित् वहति।

प्रश्न 56.

  1. प्रति
  2. सह
  3. मम
  4. तस्मै।

उत्तर:

  1. कृषक: ग्राम प्रति गच्छति।
  2. सोहनः मित्रेण सह पठति
  3. अयं मम विद्यालयः अस्ति।
  4. सुरेशः तस्मै बालकाय धनं यच्छति

प्रश्न 57.

  1. तौ
  2. देशस्य
  3. स्नातुम्
  4. तर्हि।

उत्तर:

  1. तौ-तौ विद्यालयं गच्छतः।
  2. देशस्य-अहं स्वदेशस्य सेवां करोमि।
  3. स्नातुम्-सोहनः स्नातुम् गच्छति।
  4. तर्हि-यदि त्वं आगमिष्यसि तर्हि अहं तत्र गमिष्यामि।

प्रश्न 58.
गन्तुम्, तस्य, अपि, गुरो, सर्वतः।
उत्तर:
(क) जनाः गृहं गन्तुम् इच्छन्ति।
(ख) सः तस्य भ्राता अस्ति।
(ग) अहम् अपि पठामि।
(घ) गुरो! मां पाठयतु।
(ङ) ग्रामं सर्वतः वृक्षा सन्ति।

प्रश्न 59.
सहते, अपि, नमन्ति, पितुः।
उत्तर:
(क) निर्धनः सर्वमपि कष्टं सहते।
(ख) मया सह त्वम् अपि पाठं पठ।
(ग) बालकाः विद्यालये शिक्षकान् नमन्ति।
(घ) तस्य पितुः नाम श्रीमनोजः वर्तते।

प्रश्न 60.
दातुं, अस्माकम्, पश्यन्ति, यथा।
उत्तर:
(क) दातुम्-राजा चौराय सुवर्ण दातुम् आदिशति
(ख) अस्माकम्-अधुना अस्माकं देशः स्वतन्त्रोऽस्ति।
(ग) पश्यन्ति-ते चलचित्रं पश्यन्ति।
(घ) यथा-यथा राजा तथैव प्रजा आचरति

प्रश्न 61.
गन्तुम्, विदेशे, अतीव, तिष्ठति।
उत्तर:
(क) गन्तुम्-अहं गृहं गन्तुम् इच्छामि।
(ख) विदेशे-विदेशे भौतिकसभ्यता वर्धते।
(ग) अतीव-अद्य अतीव चिन्ता अस्ति।
(घ) तिष्ठति-सुरेशः स्वगृहे तिष्ठति।।

प्रश्न 62.
अद्य, कस्य, पातुम्, इच्छामि, भवान्।
उत्तर:
(क) अद्य वर्षा भवति
(ख) इदं पुस्तकं कस्य वर्तते।
(ग) कृष्णा जलं पातुम् इच्छति।
(घ) अहं क्रीडितुम् इच्छामि।
(ङ) भवान् कुत्र निवसति?

प्रश्न 63.
यथा, कर्तुम, तत्र, पतन्ति, भवती।
उत्तर:
(क) यथा राजा तथा प्रजा भवति।
(ख) सेवकः कार्यं कर्तुम् गच्छति
(ग) तत्र पञ्चदशजनां: सन्ति।
(घ) वृक्षात् पत्राणि पतन्ति।
(ङ) भवती अधुना कुत्र गच्छति?

प्रश्न 64.
कदा, अस्माकम्, गत्वा, क्रीडथ।
उत्तर:
(क) कदा-त्वं कदा गृहं गमिष्यसि?
(ख) अस्माकम्-जयपुरे अस्माकं गृहं वर्तते।
(ग) गत्वा-छात्रः विद्यालयं गत्वा पठति।
(घ) क्रीडथ-यूयं सर्वे तत्र क्रीडथ।

प्रश्न 65.
विनी, प्रातः, यूयम्, आगत्य।
उत्तर:
(क) विना-विनयं विना विद्या न शोभंते
(ख) प्रातः-सर्वेः जनाः प्रातः उत्तिष्ठन्ति।
(ग) यूयम्-यूयम् अत्र पथ
(घ) आगत्य-सः गृहम् आगत्य भोजनं करोति।।

प्रश्न 66.
सह, तत्र, आवाम्, पठितुम्।
उत्तर:
(क) सह-रामेण सह सीता वनं गच्छति
(ख) तत्र-तत्र उपवने पुष्पाणि विकसन्ति।
(ग) आवाम्-अद्य आवाम् आपणं गच्छावः।
(घ) पठितुम्-छात्राः पठितुं विद्यालयं गच्छन्ति।

प्रश्न 67.
कुत्र, वयम्, विना, हसितुम्।
उत्तर:
(क) कुत्र-मोहनः कुत्र गच्छति?
(ख) वयम्-वयं दुग्धं पिबामः।।
(ग) विना-जलं विना भोजनं न पचति
(घ) हसितुम्-सर्वे मानवाः हसितुम्, वाञ्छन्ति