Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् कथासंयोजनम्

पाठ्य-पुस्तक के कथासंयोजनम्

प्रश्नः-प्रदत्तरूपरेखया कथासंयोजनं करणीयम्|
(1)
1. वृद्धः व्याघ्रः ……………………………….. जाले बद्धः ……………………………….. न मुक्तः ……………………………….. मूषकः ……………………………….. मोचयितु प्रयासः ……………………………….. अट्टहासम् ……………………………….. क्षुदः जीवः ……………………………….. जालकर्तनं ……………………………….. बहिः कृतवान्।
उत्तर:
एकस्मिन् वने वृद्धः व्याघ्रः निवसति स्म। तेन एकः शशकः जाले बद्धः। सः शशकः प्रचुरप्रयासेन अपि मुक्तः न अभवत्। जाले बद्धं शशकम् अवलोक्य एकः मूषकः तत्र अगच्छत्। तेन मूषकेन शशकं मोचयितुं प्रयासः कृतः। मूषकस्य इदं कृत्यं दृष्ट्वा अन्ये जीवा; अट्टहासम् अकुर्वन्। अनन्तरं तैः ज्ञातं यत् क्षुद्रः जीवः अपि प्रयास कत्तुं शक्नोति। मूषकः जालकर्तनं कृत्वा शशक बहिः कृतवान्।

अभ्यास-कार्य
(2)
2. विशालः वृक्षः ……………………………….. खगाः वसन्ति ……………………………….. बुभुक्षिताः ……………………………….. इतस्ततः भ्रमन्ति ……………………………….. तण्डुलकणान् अपश्यन् ……………………………….. खादन्ति ……………………………….. जालेन बद्धाः ……………………………….. कि करणीयम् ……………………………….. सर्वे जालेन सह एवं एक स्वमित्रम् अगच्छन् ……………………………….. मित्रम् एकः मूषकः ……………………………….. जालं दन्तैः अकर्तयत् ……………………………….. स्वतन्त्राः ……………………………….. सुखं तु एकतायाम् एव विद्यते।
उत्तर:
एकस्मिन् वने एकः विशालः वृक्षः आसीत्। तस्मिन् अनेके खगाः वसन्ति स्म। तत्रैव एकः कपोतानां परिवारः अपि आसीत्। एकदा बुभुक्षिताः कपोताः वने इतस्ततः भ्रमन्ति। वने एकस्मिन् निर्जने स्थाने कपोताः तण्डुलकणान् अपश्यन् यदा ते तण्डुलकणान् खादन्ति तदैव सर्वे कपोता: जालेन बद्धाः अभवन्। अधुना किं करणीयम्? इति विचिन्त्य सर्वे कपोताः जालेन सह एव एकं स्वमित्रम् अगच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः तद्जालं स्वस्य दन्तैः अकर्तयत्। ततः सर्वे कपोताः स्वतन्त्राः जाताः। वस्तुः सुखं तु एकतायाम् एव विद्यते।

(3)
3. नरः सरोवरतटे अभ्रमतू ……………………………….. चिन्तने रतः ……………………………….. वानराणां शब्दैः तस्य ध्यानभङ्गः अभवत् ……………………………….. वानराः नातिदूरे ……………………………….. धावितुम् आरभत् ……………………………….. वानराः अपि अनुधावितवन्तः ……………………………….. मा धाव, भयं त्यक्त्वा ……………………………….. स्थिरः भव ……………………………….. वृद्धजनस्य उच्चस्वर ……………………………….. तत्रैव स्थितवन्तः ……………………………….. वानरसमूहः पलायितः ……………………………….. ज्ञानचक्षुषी उन्मीलिते ……………………………….. आपयः मुक्तिः दृढ़सङ्कल्पेन, ……………………………….. न ताभ्यः पलायनेन। किं भवन्तः जानन्ति एषः ……………………………….. एषः आसीत् स्वामी ………………………………..।
उत्तर:
कोऽपि नरः सरोवरतटे अभ्रमत्। सः चिन्तने रतः आसीत्। सहसा वानराणां शब्दैः तस्य ध्यान-भङ्गः अभवत्। ते वानराः नातिदूरे आसन्। भयात् सः नरः धावितुम् आरभत्। ततः वानराःअपि तम् अनुधावितवन्तः। एतद् दृष्ट्वा एक वृद्धजनः उच्चस्वरेण अवदत्-मा धाव, भयं त्यक्त्वा त्वम् स्थिरः भव। ततः वृद्धजनस्य उच्चस्वरं श्रुत्वा ते सर्वे तत्रैव स्थितवन्तः। तस्य नरस्य भयात् सः वानरसमूहः ततः पलायितः। अनेन तस्य नरस्य ज्ञानचक्षुषी उन्मीलिते यत् आपद्भयः मुक्तिः दृढ़सङ्कल्पेन एव प्राप्यते न ताभ्यः पलायनेन। किं भवन्तः जानन्ति एषः कः आसीत्? एषः आसीत् स्वामी विवेकानन्दः।

अन्य महत्त्वपूर्ण कथासंयोजनम्

प्रश्न-प्रदत्तरूपरेखया कथासंयोजनं करणीयम्

(1)
……………………………….. वृद्धा। ……………………………….. पुत्राः। ज्येष्ठपुत्रं सा युद्धं ………………………………..। सः ……………………………….. मृतः। द्वितीय, तृतीयं च प्रेषयति। ……………………………….. मृतौ। ……………………………….. रोदिति। वृद्धा कथयति चतुर्थः ……………………………….. नास्ति खलु इति रोदिमि।

उत्तर:
एका वृद्धा आसीत्। तस्या त्रयः पुत्राः आसन्। ज्येष्ठपुत्रं सा युद्धं प्रेषयति। सः युद्धे मृतः। सा पुनः द्वितीय, तृतीयं च पुत्रं प्रेषयति। तावपि पुत्रौ मृतौ। सा रोदिति। वृद्धा कथयति यत् चतुर्थः पुत्रः नास्ति खलु इति रोदिमि।

(2)
……………………………….. गुरुकुलम्। गुरुः ………………………………..। शिष्यः भवितुम् ……………………………….. परीक्षा। देवः कुत्र ……………………………….. सर्वत्र ………………………………..। गुरुः सन्तुष्टः शिष्यः भवति।
उत्तर:
एकदा एकः जनः अध्ययनार्थम् अगच्छत् एकं गुरुकुलम्। गुरुः तं प्रति अवदत्। शिष्यः भवितुम् किञ्चिद् योग्यता आवश्यकी वर्तते। गुरुकुले प्रवेशात् पूर्व परीक्षा भवति। तं परीक्षितुं गुरुः कथयति यत् ‘देवः कुत्र वसति?’ सः जनः अवदत्देवः सर्वत्र वसति। तेन गुरुः सन्तुष्टः अभवत्। तदनन्तरं सः जनः गुरोः योग्यः प्रमुखश्च शिष्यः भवति।

(3)
एकदा ……………………………….. आहारार्थी कश्चित् ……………………………….. ग्रामं प्रविष्टः। तत्रत्याः ……………………………….. जम्बुकदर्शनेन जातरोषाः तं ………………………………..। सोऽपि प्राणरक्षणायै ……………………………….. प्रविष्टः तत्र स्थापिते नीलीभाण्डे च। अनन्तरं नीलवर्णमनोहरं स्वशरीरं ……………………………….. मुदितमनाः शनैः बहिः ……………………………….. विचित्रवर्णं तम अपूर्वसत्त्वम् ……………………………….. कुक्कुराः अपि ……………………………….. दूरं पलायिताः।
उत्तर:
एकदा सायंकाले आहारार्थी कश्चित् जम्बूकः ग्रामं प्रविष्टः। तत्रत्याः कुक्कुराः जम्बूकदर्शनेन जातरोषाः तं प्रत्यधावन्। सोऽपि प्राणरक्षणायै रजकगृहं प्रविष्टः तत्र स्थापिते नीलीभाण्डे च पतितः। अनन्तरं नीलवर्णमनोहरं स्वशरीरं मन्यमानः मुदितमनाः शनैः बहिः। निष्क्रान्तः विचित्रवर्णं तं अपूर्वसत्त्वं विलोक्य कुक्कुराः अपि भूयात् दूरं पलायिताः।

(4)
कस्मिंश्चिद् वने ” वृक्षात् ……………………………….. एक सिंहः निद्रया ……………………………….. आसीत्। तस्य सिंहस्य उपरि कश्चित् मूषकः ………………………………..। सिंहः प्रबुद्धोऽभवत्। मूषकं च ……………………………….. प्रावर्तत तदा मूषको न्यवेदयत्-” भवान् ……………………………….. अस्ति। मां दीनं प्रति ……………………………….. कुरु इति।” सिंहः तं ………………………………..। एकदा स एव सिंहः कस्मिंश्चित् ……………………………….. आपतितः। मूषकः प्रत्युपकारेण जालम् ……………………………….. सिंहो मूषकं ……………………………….. गतः। सत्यमिदं यत् कस्यापि कृते कृतः ……………………………….. निरर्थको न भवति।
उत्तर:
कस्मिंश्चिद् वने एकस्मात् वृक्षात् अधः एक सिंहः निद्रया परिभूतः आसीत्। तस्य सिंहस्य उपरि कश्चित् मूषकः अनृत्यत्। सिंह प्रबुद्धोऽभवत्। मूषकं च हन्तुं प्रावर्तत तदा मूषको न्यवेदयत्-” भवान् मृगराजः अस्ति। मां दीनं प्रति दयां कुरु इति।” सिंहः तं मुक्तवान्। एकदा स एव सिंहः कस्मिंश्चित् जाले आपतितः। मूषकः प्रत्युपकारेण जालं अकृन्तत् सिंहो मूषकं प्रशंसन् गतः। सत्यमिदं यत् कस्यापि कृते कृतः उपकारो निरर्थको न भवति।

(5)
कस्मिंश्चित् स्थाने ……………………………….. प्रतिवसति स्म। तस्य पाश्र्वे एकः दुर्बलः गर्दभः ………………………………..। सः रजकः कुतश्चित् व्याघ्रचर्म ……………………………….. अचिन्तयत्। अज्ञेन चर्मणा प्रच्छाद्य रासभं ……………………………….. यवक्षेत्रेषु प्रेषयानि। क्षेत्रपालश्च तं व्याघ्नं मत्वा क्षेत्रात् न ………………………………..। एवं च कृते सः गर्दभः बहुकालं यावत् करोति स्म। एकदा सः गर्दभः गर्दभीशब्दं श्रुत्वा स्वयमपि ……………………………….. आरब्धः। अथ ते क्षेत्रपालाः तं ……………………………….. ज्ञात्वा लगुडग्रहाः तं हृतवन्तः।
उत्तर:
कस्मिंश्चित्स्थाने रजकः प्रतिवसति स्म। तस्य पार्वे एकः दुर्बलः गर्दभः आसीत्। सः रजकः कुतश्चित् व्याघ्रचर्म आदाय अचिन्तयत्। अनेन चर्मणा प्रच्छाद्य रासभं रात्रौ यवक्षेत्रेषु प्रेषयानि। क्षेत्रपालश्च तं व्याघ्रं मत्वा क्षेत्रात् न निष्कासयिष्यति। एवं च कृते सः गर्दभः बहुकालं यावत् यवभक्षणं करोति स्म। एकदा सः गर्दभः गर्दभीशब्दं श्रुत्वा स्वयमनि शब्दापयितुं आरब्धः। अथ ते क्षेत्रपालाः तं गर्दभं ज्ञात्वा लगुडप्रहारैः तं हतवन्तः।

(6)
कस्मिश्चित् नगरे मित्रशर्मा नाम एक ……………………………….. प्रतिवसति स्म। कदाचित् कश्चित् ब्राह्मणः तस्मै एकं ……………………………….. अददात्। यदा सः छागं ……………………………….. संस्थाप्य गच्छति स्म तदा तंत्रय ……………………………….. अमिलन्। तेष्वेकः वंचकः ……………………………….. भूत्वा ……………………………….. भो ब्राह्मण! इमं कुक्कुरं स्कन्धे स्थापयित्वा कुत्रं गच्छसि? सः सक्रोधमाह-किं त्वं अन्धोऽसि यत् छागं कुक्कुरः ………………………………..? तदा द्वितीय आगत्य अवदत्-भो! मन्ये कुक्कुरः ते तदापि स्कन्धे न करणीयः। अत्रान्तरे तृतीयः वञ्चकोऽपि आगत्य अवदत्-भो ब्राह्मण! कुक्कुर ……………………………….. कृत्वा न गच्छ। एवं ब्राह्मणः छागं तत्रैव ……………………………….. अगच्छत्। वञ्चकाः छागं ………………………………..।
उत्तर:
कस्मिश्चित् नगरे मित्रशर्मा नाम एक ब्राह्मणः प्रतिवसति स्म। कदाचित् कश्चित् ब्राह्मणः तस्मै एकं छागं अददात्। यदा सः छागं स्कन्धे संस्थाप्य गच्छति स्म तदा तं त्रय वञ्चकाः अमिलन्। तेष्वेकः वंचकः प्रत्यक्षं भूत्वा अकथयत्-भो ब्राह्मण ! इमं कुक्कुरं स्कन्धे स्थापयित्वा कुत्र गच्छसि? सः सक्रोधमाह–किं त्वं अन्धोऽसि यत् छागं, कुक्कुरः कथयसि? तदा द्वितीय आगत्य अवदत्-भो ! मन्ये कुक्कुरः ते वल्लभः तदापि स्कन्धे न करणीयः। अत्रान्तरे तृतीयः वञ्चकोऽपि आगत्य अवदत्-भो ब्राह्मण ! कुक्कुरं स्कन्धे कृत्वा न गच्छ। एवं ब्राह्मणः छागं तत्रैव त्यक्त्वा अगच्छत्। वञ्चकाः छागं अनयन्।

(7)
कस्मिश्चितु ……………………………….. हरिदत्तः नाम ब्राह्मणः प्रतिवसति स्म। एकदा सः ……………………………….. क्षेत्रे वृक्षस्य छायायाम्। तदा सः समीपे सर्प ……………………………….. अचिन्तयत्-एषः ……………………………….. मया कदापि न पूजितः अतः एव मम ……………………………….. निष्फलमभवत्। अद्यैव इमं। एवं चिन्तयित्वा सः दुग्धं ……………………………….. तत्र च स्थापयित्वा ………………………………..। अग्रिम ……………………………….. प्रातः तत्रागत्य सः तस्मिन् पात्रे ……………………………….. एकमपश्यत्। एवं सः प्रतिदिनं तथैव दुग्धं दत्त्वा दीनारं
उत्तर:
कस्मिश्चित् नगरे हरिदत्तः नाम ब्राह्मण: प्रतिवसति स्म। एकदा सः उपाविशत् क्षेत्रे वृक्षस्य छायायाम्। तदा सः समीपे सर्प दृष्ट्वा अचिन्तयत्-एषः क्षेत्रपालः मया कदापि न पूजितः अत एव मम कृषिकर्म निष्फलमभवत्। अद्यैव इमं पूजयामि। एवं चिन्तयित्वा सः दुग्धं अनीय तत्र च स्थापयित्वा अगच्छत्। अग्रिम दिवसे प्रातः तत्रागत्य सः तस्मिन् पात्रे दीनारं एकमपश्यत्। एवं सः प्रतिदिनं तथैव दुग्धं दत्त्वा दीनारमलभत।

(8)
ऐकदा मुनि काकेन ……………………………….. एकं दुर्बलं मूषक-शावकमपश्यत्। दयालुः ……………………………….. तं मूषकं नीवार कणैः सम्वर्धयति स्म। मुनिना ……………………………….. मूषकः प्रसन्नः आसीत्। एकदा कोऽपि विडालः तं मूषकं ……………………………….. ऐच्छत्। तदा मुनि तं मूषकं ……………………………….. अकरोत्। सः विडालः कुक्कुरात् भीतः आसीत्। मुनि तद् ……………………………….. तं विडालं ……………………………….. अकरोत्। अन्ततः एकः सिंह ……………………………….. प्रत्यवधावत्। मुनिः तं कुक्कुरं सिंहाद् ……………………………….. दृष्ट्वा तं कुक्कुरं व्याघ्रं कृतवान्। सिंहः भूत्वा सः मूषकः मुनिं एवं ……………………………….. प्रयतते स्म। तदा मुनिः ……………………………….. ‘पुनर्मूषको भव’। मुनी इति —एव सः सिंहः पुनर्मूषकः जातः।
उत्तर:
एकदा मुनि काकेन नीयमानं एकं दुर्बलं मूषक-शावकमपश्यत्। दयालुः मुनिः तं मूषकं नीवार कणैः सम्वर्धयति स्म। मुनिना संवर्धिति मूषकः प्रसन्नः आसीत्। एकदा कोऽपि विडालः तं मूषकं खादितुं ऐच्छत्। तदा मुनि तं मूषकं विडालम् अकरोत्। एकदा सः विडालः कुक्कुरात् भीतः आसीत्। मुनि तद् भीतं तं विडालं कुक्कुरमकरोत्। अन्ततः एकः सिंह कुक्कुरं प्रत्यवधावत्। मुनिः तं कुक्कुरं सिंहा भीतं दृष्ट्वा तं कुक्करं व्याघ्रं कृतवान्। सिंहः भूत्वा सः मूषकः मुनिं एवं खादितुं प्रयतते स्म। तदा मुनिः उवाच-‘पुनर्मूषको भव’। मुनौ इति उक्तवति एव सः सिंहः पुनर्मूषकः जातः।

(9)
भगवान् बुद्धः ……………………………….. अन्वेष्टुम् प्रस्थितः। तदन्वेषणे एतावान्कालो व्यतीतः जातः यत् सः गृहं ……………………………….. निश्चयमकरोत। परं यावदेव से प्रतिनिवर्तितुम् ……………………………….. आसीत्। तावदेव स एक चमरपुच्छां सरोवरतटे ……………………………….. अपश्यत्। सा च पुच्छं भूयोभूयः ……………………………….. कृत्वा सा बहिभूमौ वेगेन प्राकम्पयत्। भगवान् बुद्धोऽवदत्-‘अयि मम लघुचमरपुच्छे त्वं किं ……………………………….. चमरपुच्छाऽकथयत्-”अहं एतत् सरोवरं करोमि।” भगवान् बुद्धो विहस्याकथयत्-एततु त्वं कदापि न शक्नोषि। चमरपुच्छा अकथयत्-अहं दृढ़तया सततं ……………………………….. भविष्यामि इति। ततः भगवान् बुद्धः एकं महान्तं ……………………………….. अशिक्षत्।
उत्तर:
भगवान् बुद्धः सत्यं अन्वेष्टं प्रस्थितः। तदन्वेषणे एतावान्कालो व्यतीतः जातः यत् सः गृहं प्रतिनिवर्तितुम् निश्चयमकरोत। परं यावदेव स प्रतिनिवर्तितुम् तत्परः आसीत्। तावदेव से एक चमेरपुच्छां सरोवरतटे स्थिताम् अपश्यत्। सा च पुच्छं। भूयोभूयः जलमग्नं कृत्वा सा बहिभूमौ वेगेन प्राकम्पयत्। भगवान् बुद्धोऽवदत्-“अयि मम लघुचमरपुच्छे त्वं किं करोषि।”चमरपुच्छाऽकथयत्- “अहं एतत् सरोवरं जलविरहितं करोमि।” भगवान् बुद्धो विहस्याकथयत्-एततु त्वं कदापि कर्तुं न शक्नोषि। चमरपुच्छा अकथयत्-अहं दृढ़तया सततं यत्लनरता भविष्यामि इति। ततः भगवान् बुद्धः एकं महान्तं पाठं अशिक्षत्।

(10)
कस्मिश्चिद् ग्रामे धर्मदत्तो नाम ……………………………….. प्रतिवसति स्म। एकदा स पालितं ……………………………….. सह नीत्वा केनचिद् ……………………………….. अन्यं ग्रामं अगच्छत्। मार्गे सः सरमेकं ……………………………….. विश्रामार्थं तत्रैव ………………………………..। सः ……………………………….. दध्योदनपात्रमेकस्य वृक्षस्य मूले ……………………………….. हस्ती प्रक्षालनाय ……………………………….. तीरे आगच्छत्। दुष्टः वानरः तत्र स्थापितं दध्योदनं ………………………………..। स्वहस्ताभ्यां दधिं ……………………………….. अजायाः मुखे आलेप्यं दूरं ……………………………….. उपाविशत्। ब्राह्मणः ……………………………….. दृष्ट्वा दण्डेन अताडयत्। दुष्टः अपराधन्तु स्वयं ……………………………….. परं दण्डेन परान् योजयति।
उत्तर:
कस्मिश्चिद् ग्रामे धर्मदत्तो नाम ब्राह्मण प्रतिवसति स्म। एकदा स पालितं वानरं सह नीत्वा केनचिद् हेतुना अन्यं ग्रामं अगच्छत्। मार्गे सः सरमेकं दृष्ट्वा विश्रामार्थं तत्रैव अतिष्ठत्। सः स्वकीयं दध्योदनपात्रमेकस्य वृक्षस्य मूले संस्थाप्य हस्तौ प्रक्षालनाय सरस्य तीरे आगच्छत्। दुष्टः वानरः तत्र स्थापितं दध्योदनं अखादत्। स्वहस्ताभ्यां दधिं समीपस्थायाः अजायाः मुखे आलेप्यं दूरं गत्वा उपाविशत्। ब्राह्मणः अजां दृष्ट्वा दण्डेन अताडयत्। दुष्टः अपराधन्तु स्वयं करोति परं दण्डेन परान् योजयति।

(11)
कस्मिश्चित् वने कश्चित् लोमशः ……………………………….. पीडित इतस्ततः ……………………………….. स्म। एकस्मिन् ……………………………….. तेन मधुराभिः ……………………………….. परिपूरिता लता दृष्टा। लतायां ……………………………….. उच्चाः आसन्। उत्कृर्दनेनापि लोमशः किमपि नसः अगच्छत् ……………………………….. च लतायां द्राक्षाफलानि अम्लानि। उक्तं च चतुरः चातुर्यं न ………………………………..।
उत्तर:
कस्मिश्चित् वने कश्चित् लोमशः बुभुक्षया पीडित इतस्ततः भ्रमति स्म। एकस्मिन् स्थले तेन मधुराभिः द्राक्षाभिः परिपूरिता लता दृष्टा। लतायां द्राक्षाः उच्चाः आसन्। उत्कृर्दनेनापि लोमशः किमपि न अलभत। अन्ते सः अगच्छत् अकथयत् च लतायां द्राक्षाफलानि अम्लानि। उक्तं च चतुरः चातुर्यं न त्यजति।

(12)
कस्मिन् देवालये ताम्रचूड नाम ……………………………….. वसति स्म। सः ……………………………….. देशाटनं कृत्वा जीविका निर्वाहं करोति स्म। एकदा भिक्षां ……………………………….. संस्थाप्य नागदन्ते अवलम्ब्य सः ………………………………..। एकः मूषकः उत्कृत्य उत्कृत्य भिक्षापात्रस्थां सर्वा अखादत्। सः खिन्नः तत्र अधः भूमौ ………………………………..। सः तत्रस्थं ……………………………….. आदाय सुप्तः। तदा मूषकः उत्कर्तुं न। परिव्राजकः ……………………………….. धनं हृत्वा प्रसन्नोऽभवत्।
उत्तर:
एकस्मिन् देवालये ताम्रचूड नाम परिव्राजकः वसति स्म। सः प्रत्यहं देशाटनं कृत्वा जीविका निर्वाहं करोति स्म। एकदा भिक्षां भिक्षापात्रे संस्थाप्य नागदन्ते अवलम्ब्य सः अस्वपत्। एकः मूषकः उत्कृत्य उत्कृत्य भिक्षापात्रस्थां सर्वां भिक्षाम् अखादत्। सः खिन्नः तत्र अधः भूमौ अखनत्। सः तत्रस्थं धनं आदाय सुप्तः। तदा मूषकः उत्कर्तुं न अशक्नोत्। परिव्राजकः मूषकस्य धनं हृत्वा प्रसन्नोऽभवत्।

(13)
एकदा एकः व्याघ्रः – बद्धः – न मुक्तः – मूषकः – मोचयितुं – क्षुद्रजीवः – जालकर्तनं – बहिः कृतवान्।
अथवा
वृद्धः व्याधः ……………………………….. जाले बद्धः ……………………………….. न मुक्तः ……………………………….. मूषकः ……………………………….. मोचयितुं प्रयासः ……………………………….. अट्टहासम् ……………………………….. क्षुद्रः जीवः ……………………………….. जालकर्तनं ……………………………….. बहिः कृतवान्।
उत्तर:
एकस्मिन् वने कोऽपि वृद्धः व्याघ्रः निवसति स्म। एकदा वने विचरन् सः व्याघ्रः केनापि व्याधेन प्रसारिते जाले बद्धः जातः। तं दृष्ट्वा भयेन न केनापि सः जालात् मुक्तः। व्याघ्र जाले बद्ध्वा दृष्ट्वा एकः मूषकः तत्र आगच्छत् तथा च तं व्याघ्र मोचयितुं तेन प्रयास कृतः। तस्य मूषकस्य प्रयासं दृष्ट्वा अन्ये जीवाः अट्टाहासम् अकुर्वन्, किन्तु तदैव ते ज्ञातवन्तः यत् सः क्षुद्रजीवः मूषकः जालकर्तनं कृत्वा व्याघ्र जालात् बहिः कृतवान्। वस्तुतः समये क्षुद्रजीवोऽपि महद् परोपकारं कर्तुं शक्नोति।

[नोट-पूर्व के उत्तरों के समान ही निम्नलिखित कथाओं के उत्तर में दिए गये शब्दों को यथाक्रम रिक्त स्थानों में भरकर सम्पूर्ण लघुकथा को ही अपनी उत्तरपुस्तिका में लिखिए।]

(14)
हरियाणाराज्ये यमुनानगरमण्डले एकः (i) ……………………………….. अस्ति। तस्मिन् गृहे सर्वे संस्कृतेन (ii) ………………………. कुर्वन्ति। तत्र (iii) ………………………………. संस्कृतम् अवबोद्धं समर्थाः सन्ति। तस्मिन् गृहे अभिमन्युः नाम एकः (iv) ………………………………..। सोऽपि संस्कृतं वदति। एकदा तत्र (v) ……………………………….. “संस्कृतआगतवान्। तेन सह अभिमन्युः संस्कृतेन सम्भाषणं कृतवान्। तस्य युवकस्य (G) ……………………………….. दृष्ट्वा (vii) ……………………………….. तस्मै शतं रुप्यकाणि दत्तवान्। तस्मात् दिनात् तस्य मनसि संस्कृतं प्रति (viii) ……………………………….. अभिरुचिः समुत्पन्ना। सः प्रतिदिनं (ix) ……………………………….. श्लोकान् पठित्वापठित्वा सर्वान् (x) ……………………………….. अस्मरत्।
उत्तर:
(i) संस्कृतपरिवारः, (ii) सम्भाषणं, (iii) पश्वोऽपि, (iv) युवकः (v) एकः, (vi) प्रतिभां, (vii) प्राध्यापकः, (viii) महती, (ix) गीतायाः, (x) श्लोकान्।

(15)
निषधदेशे अतीव सुन्दरः सर्वगुणसम्पन्नः राजा (i) ……………………………….. आसीत्। एकदा राजा नलः स्वस्य (ii) ……………………………….. एकं विशालं सरः अपश्यत्। तत्र (iii) ……………………………….. हिरण्यमयं विचित्रं (iv) ……………………………….. दृष्ट्वा राजा कुतूहलेन तं स्वपाणिना (v) ……………………………….. करपञ्जरस्थितः हंसः स्वस्य दयनीय दशां वर्णयन् (vi) ……………………………….. विलापं कृतवान्। राजा हंसस्य विलापं श्रुत्वा (vii) ……………………………….. अभवत्। तस्य (viii) ……………………………….. अश्रूणि अवहन्। अश्रुसेकं प्राप्य करमध्ये स्थितः सुवर्णहंसः (ix) ……………………………….. अलभत। ततः राजा अवदत्-‘तव ईदृशम् अपूर्वं रूपं दष्टुम् एव अहं त्वां धृतवान्। अधुना तुभ्यम् (x) ……………………………….. ददामि। यथेच्छं। गच्छ।’ इत्युक्त्वा राजा नलः तं विलपन्तं हंसम् अमुञ्चत्।
उत्तर:
(i) नलः, (ii) उपवने, (iii) सरसि तटे, (iv) हंसं, (v) धृतवान्, (vi) करुणं, (vii) दयार्द्रहृदयः, (vii) नेत्राभ्याम्, (ix) सञ्जाम्, (x) अभयम्।

(16)
एकदा गुरुः द्रोणाचार्यः स्वस्य सर्वान् (i) ……………………………….. धनुर्विद्याम् अशिक्षयत्। सः वृक्षे स्थितं कश्चित् खगं (ii) ……………………………….. शिष्यान् अवदत्- अस्य (iii) ……………………………….. लक्ष्यं साधयत। गुरोः (iv) ……………………………….. प्राप्य सर्वे शिष्याः लक्ष्यं साधितं प्रयत्नम् (v) ………………………………..। तदानीं द्रोणाचार्यः तान् अपृच्छत्- यूयं किं (vi) ………………………………..? शिष्याः उत्तरं दत्तवन्तः-गुरुदेव! वयं (vii) ……………………………….. पश्यामः। इति (viii) ……………………………….. श्रुत्वा गुरोः सन्तोषः न अभवत्। तदा सः (ix) ……………………………….. आहूय अपृच्छत्-भो अर्जुन! त्वं किं पश्यसि? अर्जुनः (x) ………………………………..” हे गुरो! अहं खगस्य नेत्रं पश्यामि।
अर्जुनस्य लक्ष्यं प्रति (ii) ………………………………..” दृष्ट्वा गुरुः द्रोणाचार्यः अतिप्रसन्नः भूत्वा तस्मै आशिष दत्तवान् यत् त्वं श्रेष्ठः (xii) ……………………………….. भविष्यसि। अर्जुनः गुरवे अनमत्। अत एव अर्जुनः (xiii) ……………………………….. प्रियः शिष्यः अभवत्।
उत्तर:
(i) शिष्यान्, (ii) दर्शयित्वा, (iii) नेत्रे, (iv) आज्ञां, (v) अकुर्वन्, (vi) पश्यथ, (vii) खगं, (viii) उत्तरं, (ix) अर्जुनम्, (x) अवदत्, (xi) एकाग्रता, (xii) धनुर्धरः, (xii) द्रोणाचार्यस्य।

(17)
कश्चित् (i) ……………………………….. एका विडाली अवसत्। सा प्रतिदिनं बहून् मूषकान् (ii) ……………………………….. एवं स्वविनाशं दृष्ट्वा (iii) ……………………………….. स्वप्राणरक्षार्थं एकां (iv) ……………………………….. आयोजितवन्तः। सभायां मूषकाः इमं निर्णयम् (v) ……………………………….. यत् यदि विडाल्याः (vi) ……………………………….. घण्टिकाबन्धनं भविष्यति तदा तस्याः नादं (vii) ……………………………….. वयं स्वबिलं गमिष्यामः। एवं श्रुत्वा तेषु मूषकेषु एकः (viii) ……………………………….. मूषकः किञ्चित् विचारयन् तान् अपृच्छत्-कः तस्याः ग्रीवायां (ix) ……………………………….. करिष्यति ? तदानीम् एव (x) ……………………………….. आगता। तां (xi) ………………………………… सर्वे मूषकाः स्वबिलं पलायिताः।
उत्तर:
(i) ग्रामे, (ii) अभक्षत्, (iii) मूषकाः, (iv) सभाम् (v) अकुर्वन्, (vi) ग्रीवायां, (vii) श्रुत्वा, (viii) वृद्धः, (ix) घण्टिकाबन्धनं, (x) विडाली, (xi) दृष्ट्वै व।

(18)
जीवने ……………………………….. अत्यधिकं महत्त्वम् अस्ति। धनेन ……………………………….. भवति। विना ……………………………….. वयं कथं ……………………………….. भोजनम् अपि ……………………………….. शक्नुमः? वयं लोभेन अन्धो ……………………………….. प्राप्तुम् इच्छामः। ……………………………….. साधनानां ……………………………….. कुर्मः। तर्हि तेन ……………………………….. भविष्यति। तस्य रक्षणे ……………………………….. व्यतीतः भवति। तस्करः ……………………………….. हरिष्यति। तदा ……………………………….. वर्धते। अभिमानं ……………………………….. च नाशयति।।
उत्तर:
जीवने धनस्य अत्यधिकं महत्त्वम् अस्ति। धनेन विना जीवनयापनं न भवति। धनेन विना वयं कथं मधुरं भोजनम् अपि कर्तुं शक्नुमः? वयं लोभेन अन्धो भूत्वा धनं प्राप्तुम् इच्छामः। वयं विपुल साधनानां सञ्चयं कुर्मः। तर्हि तेन धनस्य असुरक्षा भविष्यति। तस्य रक्षणे समयः व्यतीतः भवति। तस्करः धनं हरिष्यति। तदा। महत्त्वकांक्षा वर्धते। अभिमानं मनुष्यं च नाशयति।