Rajasthan Board RBSE Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः

RBSE Class 12 Sanskrit विजेत्री Chapter 13 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 12 Sanskrit विजेत्री Chapter 13 वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
‘सङ्घ शक्तिः पाठः सङ्कलितोऽस्ति
(क) यात्राविलासात्।
(ख) प्रबन्धमकरन्दात्
(ग) प्रबन्धामृतात्।
(घ) शास्त्रसर्वस्वात्
उत्तर:
(ख) प्रबन्धमकरन्दात्

प्रश्न 2.
‘सङ्घ शक्तिः कलौयुगे’ इति कथितम्
(क) वेदव्यासेन
(ख) चाणक्येन
(ग) नवलकिशोरेण
(घ) बाणभट्टेन
उत्तर:
(ग) नवलकिशोरेण

प्रश्न 3.
‘सङ्घटनद्वारा किं न भवति’? अत्र सङ्घटनशब्दः कस्मिन् अर्थं प्रयुक्तोऽस्ति
(क) सामूहिक-शक्तिः
(ख) सैन्यशक्तिः
(ग) मनवचनकर्मभिः एकीभूता जनानां शक्तिः
(घ) सामाजिकशक्तिः
उत्तर:
(ग) मनवचनकर्मभिः एकीभूता जनानां शक्तिः

प्रश्न 4.
रिक्तस्थानपूर्तिः क्रियताम्
(क) माताऽपि तनयं रोदनं विना न …………………………………….. पाययति।
(ख) तद् बलं साम्प्रतं …………………………………….. एव निवसति।
(ग) नान्यः …………………………………….. विद्यतेऽयनाय।
(घ) वस्तुतः …………………………………….. एव शक्तिनिवासः।
उत्तर:
(क) स्तन्यम्,
(ख) सङ्घ,
(ग) पन्थाः
(घ) सङ्टने।

RBSE Class 12 Sanskrit विजेत्री Chapter 13 अतिलघूत्तरात्मक-प्रश्नाः

प्रश्न 1.
स्वभावतः एव मानवाः किं कामयन्ते?
उत्तर:
सर्वत्र विजयम्।

प्रश्न 2.
शक्तेः स्थानं कुत्र?
उत्तर:
सङ्घटने।

प्रश्न 3.
शक्तिः कथं लक्ष्या?
उत्तर:
संधटनद्वारा।

प्रश्न 4,
कलौ युगे शक्तिस्वरूपं कीदृशम्?
उत्तर:
सङ्घ शक्ति: कलौ युगे।

RBSE Class 12 Sanskrit विजेत्री Chapter 13 लघूत्तरात्मक-प्रश्नाः

प्रश्न 1.
पं. नवलकिशोरकाङ्करस्य परिचयं लिखत?
उत्तर:
पं. नवलकिशोरकाङ्करस्य जन्म 1910 तमे ईस्वीये वर्षे जयपुरे अभवत्। शिक्षां गृहीतवता नवलकिशोरेण स्वकीयप्रतिभाबलाद् गद्य-पद्यरचनायां प्रावीण्यमधिगतम्। शास्त्रसर्वस्वम्, प्रबन्धामृतम्, प्रबन्धमकरन्दश्च इत्यादयः निबन्धसंग्रहाः संस्कृतसेविसमाजे सुतरां समादरणीयाः सन्ति। कविभूषणः, कविशिरोमणिः, विद्यावाचस्पतिः, महामहिमोपाध्यायः, गद्यसम्राट्-शास्त्रमार्तण्डेत्यादिभिरुपाधिभिरेते व्यूभूष्यन्त। 1985 ई. वर्षे भारत-राष्ट्रपतिना सम्मानिता: इमे। एते हि राष्ट्रीय-भावनानां प्रबलाः पोषकाः आसन्।

प्रश्न 2.
कः मानवः शत्रु जेतुं न पारयति?
उत्तर:
शक्तिशून्यो मानवः शत्रु जेतुं न पारयति।

प्रश्न 3.
अस्माकं दुर्दशानिदानं कथं भवेत्?
उत्तर:
यदा वयं रागद्वेषादिकं विहाय संघटनस्य महत्त्वं सम्यगभिनन्दिष्यामः तदैव अस्माकं दुर्दशानिदानं भवेत्।

अधोलिखितवाक्येषु रेखाङ्कितान् पदान् आश्रित्य प्रश्ननिर्माणं कुरुत
(क) मानवाः सर्वत्र विजयं कामयन्ते।
प्रश्नः
के सर्वत्र विजयं कामयन्ते?

(ख) शक्तिशून्यो मानवः स्वप्नेऽपि शत्रु जेतुं न पारयति।
प्रश्नः
शक्तिशून्यो मानवः स्वप्नेऽपि कम् जेतुं न पारयति?

(ग) सङ्घटनशक्त्या सुकरं जायते।
प्रश्नः
कया सुकरं जायते?

(घ) सङ्टने एव शक्तिनिवासः।
प्रश्नः
कुत्र एव शक्ति निवासः?

RBSE Class 12 Sanskrit विजेत्री Chapter 13 निबन्धात्मक-प्रश्नाः

प्रश्न 1.
‘सङ्गटनस्य महत्त्वं’ सविस्तरं लिखत?
उत्तर:
पाठेऽस्मिन् संगठनशक्ते: माहात्म्यं वर्णितमस्ति। धनधान्यसुसम्पन्नं स्वर्णरत्नमयाकरं राष्ट्रम् अपि सुसंहतिं विना विभवास्पदं न भवेद्। सुसङ्घटितजीवनम् एव राष्ट्रभावस्य कारणं भवति। लोके लोकसङ्टनम् आततायिनां परिध्वंसने सुदर्शनचक्रवत् नूनम् आयुधमैश्वरम्।

ईशोपनिषदि अपि कथ्यते–’सम्भूत्याम् अमृतमश्नुते’ अर्थात् संगठनेनैव अमृततत्त्वस्य प्राप्तिर्भवति। संगठनस्य महत्त्वस्य प्रतिपादनं कृत्वा डॉ. श्रीधर-भास्कर-वर्णेकरः कथयति–

अपारभूमिविस्तारमगण्यजनसंकुलम्।
राष्टं सङ्घटनाहीनं प्रभवेन्नात्मरक्षणे।
विपत्सु वज्रधैर्याणां संग्रामेवज्रदेहिनाम्।
सङ्गो राष्ट्रविपत्काले सद्वज्रकवचायते।

नारायणपण्डितः हितोपदेशे कथ्यते–

अल्पानामपिवस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।

प्रश्न 2.
‘सङ्घ शक्तिः कलौयुगे’ अस्य कथनस्य आशयं लिखत।
उत्तर:
पुरातनकाले कृतयुगे या शक्तिः मन्त्रप्रयोगे आसीत्, त्रेतायां या तन्त्रसाधने आसीत् द्वापरे च या व्यूहरचने आसीत्, सा हि शक्तिः कलौ सङ्घः सङ्घीभूता। अतः साधूच्यते “सङ्घ शक्तिः कलौ युगे”–अर्थात् वर्तमानकाले एकतायामेव शक्तिः वर्तते। अद्य जातिः, व्यक्तिः, सामाजिकस्थितिः सम्पूर्णदेशः वा संघटनादेव स्वसत्तां बिभर्ति। अस्मिन् कलिकाले संघटनेनैव दुष्करं कार्यमपि सुकरं जायते।

प्रश्न 3.
अस्मात् पाठात् को शिक्षा मिलति? इति सविस्तारं लिखत।
उत्तर:
अस्मात् पाठात् संघटनशक्तेः महत्त्वस्य शिक्षा मिलति यत् संघटने एव शक्तिनिवासः। शक्तिद्वारैव मानवः सर्वं कर्तुं शक्यते। यत्र संघटनं तत्र सर्वसम्पत्तिः, यत्र च विघटनं तत्र सर्वविपत्तिरिति निश्चितम्। अद्य वयं यदा परिस्थितिं पश्यन्तः रागद्वेषादिकं विहाय संघटनस्य महत्त्वं सम्यगभिनन्दिष्यामः तदैव वास्तविकं समुन्नतपदं प्राप्स्यामः। अतः प्रभविष्णुभिरस्माभिः जीवनं सुखेन यापयितुं शक्तिसंग्रहोऽवश्यं करणीयः। संघटनशक्त्या दुष्करं कर्म सुकरं जायते। अनया लोकाः असम्भवमपि कार्यं सम्भवं कुर्वन्ति।

RBSE Class 12 Sanskrit विजेत्री Chapter 13 व्याकरणात्मक-प्रश्नाः

प्रश्न 1.
अधोलिखितपदानां सन्धिविच्छेदं कृत्वा नामपि लेख्यम्
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 1

प्रश्न 2.
अधोलिखितेषु समस्तपदेषु नामनिर्देशपूर्वक समासविग्रहो विधेयः
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 2

प्रश्न 3.
अधोलिखितपदानां विभक्तिः वचनञ्च लिख्यताम्
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 3

प्रश्न 4.
निम्नलिखितेषु पदेषु प्रकृतिः प्रत्ययश्च पृथक् लिख्यताम्
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 4

प्रश्न 5.
अधोनिर्दिष्टान् पदान् आश्रित्य वाक्यानि रचयत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 5
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 6

प्रश्न 6. निम्नलिखितवाक्यानां वाच्यपरिवर्तनं कुरुत
(क) मानवाः सर्वत्र विजयं कामयन्ते।
(ख) बलं साम्प्रतं सल्ले एव निवसति।
(ग) शक्तिद्वारैव सर्वं कर्तुं शक्यते।
(घ) जनः युद्धे विजयं लप्स्यते।
उत्तर:
(क) मानवैः सर्वत्र विजयः काम्यते।
(ख) बलः साम्प्रतं सङ्घ एव निवस्यते।
(ग) शक्तिद्वारैव सर्व कर्तुं शक्नोति।
(घ) जनेन युद्धे विजयः लप्स्यते।

RBSE Class 12 Sanskrit विजेत्री Chapter 13 अन्य महत्त्वपूर्ण प्रश्नोत्तर

1. शब्दार्थाः

प्रश्न 1.
अधोलिखितशब्दानाम् हिन्द्याम् अर्थं लिखत
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 7

2. प्रश्ननिर्माणम्
प्रश्न 2.
रेखांङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

  1. स्वभावतः एव मानवाः विजयं कामयन्ते।
  2. प्रयत्नं विना साफल्यं न लभते।
  3. शक्तिद्वारैव सर्वं कर्तुं शक्यते।
  4. माताऽपि तनयं रोदनं विना स्तन्यं न पाययति।
  5. शक्तिशून्यः मानवः शत्रु जेतुं न पारयति।
  6. शक्तिपदेन बलमेव गृह्यते लोके।
  7. बलं साम्प्रतं सझे एव निवसति।
  8. यत्र संघटनं तत्र सर्वसम्पत्तिः भवति।
  9. वयं स्वदेशस्य दयनीय दशां न पश्यामः।
  10. वयं संघटनात्मक बुद्धिं दूरतस्त्यजामः।
  11. संघटनशक्त्या दुष्करं कर्म सुकरं जायते।
  12. वयम् अकर्मण्याः भूत्वा तिष्ठामः।
  13. लोकाः असम्भवं कार्य सम्भवं कुर्वन्ति।

उत्तर:
प्रश्ननिर्माणम्

  1. स्वभावतः एव मानवाः किम् कामयन्ते?
  2. कम् विना साफल्यं न लभते?
  3. कया सर्वं कर्तुं शक्यते।
  4. माताऽपि तनयं रोदनं विना किं न पाययति?
  5. कीदृशः मानवः शत्रु जेतुं न पारयति?
  6. केन बलमेव गृह्यते लोके?
  7. बलं साम्प्रतं कुत्र एव निवसति?
  8. यत्र संघटनं तत्र किं भवति?
  9. वयं कस्य दयनीय दशां न पश्यामः?
  10. वयं कीदृशीं बुद्धिं दूरतस्त्यजामः?
  11. कया दुष्करं कर्म सुकरं जायते?
  12. वयम् कीदृशाः भूत्वा तिष्ठामः?
  13. लोकाः कीदृशं कार्यं सम्भवं कुर्वन्ति?

3. भावार्थलेखनम्
प्रश्न 3.
अधोलिखितानां वाक्यांशानां हिन्दीभाषया भावार्थं लिखत
(i) यत्र संघटनं तत्र सर्वसम्पत्तिः
(ii) वयं भूताविष्टा इव व्यर्थकोलाहलमाचरामः।
(iii) सङ्घ शक्तिः कलौयुगे।
उत्तर:
(i) यत्र संघटनं तत्र सर्वसम्पत्तिः।
भावार्थ-प्रस्तुत वाक्य ‘सङ्घ शक्ति:’ शीर्षक पाठ से उद्धृत है। मूलत: यह पाठ पं. नवलकिशोर कांकर द्वारा रचित ‘प्रबन्धमकरन्द’ नामक ग्रन्थ से संकलित है। इसमें संगठन के महत्त्व का वर्णन किया गया है। प्रस्तुत वाक्य का भाव यह है कि जहाँ संगठन होता है, वहां सभी सम्पत्तियाँ होती हैं, किन्तु जहाँ संगठन का अभाव है। वहाँ विपत्तियाँ होती हैं। वस्तुतः संगठन में ही शक्ति का निवास है। शक्ति के द्वारा ही मनुष्य सब कुछ कर सकता है। जो देश, समाज या जाति जितना शक्तिसम्पन्न होता है, वह उतना ही उन्नति को प्राप्त करता है। संगठन के बल से मनुष्य असम्भव कार्य को भी सम्भव कर देता है। अतः संगठन के बल से सभी सम्पत्तियाँ मानव प्राप्त कर लेता

(ii) वयं भूताविष्टा इव व्यर्थकोलाहलमाचरामः।
भावार्थ-सड़े शक्तिः’ शीर्षक पाठ से उधृत प्रस्तुत पंक्ति का भाव यह है कि जिस प्रकार असत्यकारणरूप भूत-प्रेत से मनुष्य स्वयं को आक्रान्त मानकर व्यर्थ में ही अत्यधिक भयभीत रहता है, उसी प्रकार वर्तमान में हम अपने अतीत को भूलकर, परस्पर में विभाजित होकर तथा संगठन के महत्त्व को न जानकर अज्ञात कारण से व्यर्थ में ही पीड़ित होकर कोलाहल करते रहते हैं। यदि हम अपने पूर्वजों के संगठन के महत्त्व को जानकर सभी वैरभाव भूलकर तथा आपस में संगठित होकर रहेंगे तो निश्चय ही हमारे मन में किसी भी प्रकार का भय उत्पन्न नहीं होगा एवं उस संगठन के बल से सब कुछ सरलता से प्राप्त कर सकते हैं।

(iii) सङ्गे शक्तिः कलौयुगे।
भावार्थ-‘सङ्घ शक्ति:’ शीर्षक पाठ से उधृत प्रस्तुत वाक्य का भाव है कि इस भयानक कलियुग में संगठन में ही शक्ति है, अर्थात् प्राचीनकाल में सतयुग में जो शक्ति मन्त्र-प्रयोग में थी, त्रेता युग में जो शक्ति तन्त्र-साधना में थी और द्वापर युग में जो शक्ति व्यूहरचना में थी, वही शक्ति कलियुग में संगठन में एकत्रित है। वस्तुतः संगठन में ही शक्ति का निवास है, तथा वर्तमान युग में जो जितना संगठित है, वह उतना ही शक्तिमान् है। शक्ति से मानव सब कुछ कर सकता है। प्राचीन काल से लेकर आज तक असंख्य उदाहरण है जिसमें संगठन के बल से मानव ने दुष्कर कार्य को भी सरलता से सिद्ध कर लिया है। अतः हमें अपने अतीत के संगठन के महत्त्व को जानकर शक्तिमान् बनने का प्रयास करना चाहिए।

4. पाठ्यपुस्तकाधारितं भाषिककार्यम्
(क) कर्तृक्रियापदचयनम्प्रश्नः-अधोलिखितवाक्येषु कर्तक्रियापदयोः चयनं कुरुत
(i) मानवाः सर्वत्र विजयं कामयन्ते।
(ii) कश्चन प्रयत्नं विना साफल्यं न लभते।
(iii) माताऽपि तनयं रोदनं विना न स्तन्यं पाययति।
(iv) शक्तिशून्यः मानवः शत्रु जेतुं न पारयति।
(v) अस्माभिः शक्तिसंग्रहोऽवश्यं करणीयः।
(vi) सम्पूर्णदेश: संघटनादेव स्वसत्तां बिभर्ति।
(vii) वयं नैतन्महत्त्वं जानीमः।
(viii) पवित्रात्मान इव वयं न तो स्पृशामः।
(ix) अस्माकं देशः पूर्ववत् जगद्गुरुपदमलङ्करिष्यति।
(x) वयं तदैव समुन्नतपदं प्राप्स्यामः।
(xi) अस्माकं पूर्वजानां गौरवगाथाः सुवर्णाक्षरैरंकिताः सन्ति।
(xii) वयम् अकर्मण्या भूत्वा तिष्ठामः।
(xiii) लोकाः असम्भवमपि कार्यं सम्भवं कुर्वन्ति।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 8

(ख) विशेषणविशेष्यचयनम्
प्रश्न (i)
‘शक्तिद्वारैव सर्वं कर्म कर्तुं शक्यते’–इत्यत्र विशेषणपदं किम्?
उत्तर:
सर्वम्।

प्रश्न (ii)
‘शक्तिशून्यो मानवः शत्रु जेतुं न पारयति’ इत्यत्र विशेषणपदं किम्?
उत्तर:
शक्तिशून्यः।

प्रश्न (iii)
‘ज्वरादिग्रस्तो जनः युद्धे विजयं न लप्स्यते’–इत्यत्र विशेष्यपदं किम्?
उत्तर:
जनः।

प्रश्न (iv)
अधोलिखितवाक्येषु विशेषण-विशेष्यपदयोः चयनं कुरुत
(क) सः हीनशक्तिकं देशं स्वात्मसात् करोति।
(ख) प्रभविष्णुभिरस्माभिः शक्तिसंग्रहः करणीयः।
(ग) अद्य बलस्वरूपायाः शक्तेः आवश्यकता वर्तते।
(घ) महाकालकल्पे कलिकाले संघटनद्वारैव सा प्राप्तुं शक्यते।
(ङ) चञ्चला प्रगतिः प्रत्यक्षं सर्वेषाम्।
(च) स्वदेशस्य दयनीयां दशां न पश्यामः।
(छ) संघटनात्मिकां बुद्धिं दूरतस्त्यजामः।
(ज) लोकाः असम्भवमपि कार्यं कुर्वन्ति।
उत्तर:
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 9
RBSE Solutions for Class 12 Sanskrit विजेत्र Chapter 13 सङ्घ शक्तिः 10

(ग) सर्वनाम-संज्ञा-प्रयोगः
प्रश्न:
अधोलिखितवाक्येषु रेखांङ्कित सर्वनामपदस्य स्थाने संज्ञापदस्य प्रयोगं कृत्वा वाक्यं पुनः लिखत

  1. सः तावानेव समुन्नते; शिखरमारोहति।
  2. कथं च सा लभ्या?
  3. कुत्र च तस्याः स्थानम्?
  4. यस्या अभावेन लोका अवनतेर्गतमनुपतन्ति।
  5. वयं नैतन्महत्त्वं जानीमः।
  6. सः प्रयत्नं विना साफल्यं न लभते।

उत्तर:

  1. शक्तिमान् तावानेव समुन्नते: शिखरमारोहति।
  2. कथं च शक्तिः लभ्या?
  3. कुत्र च शक्ते: स्थानम्?
  4. शक्तेः अभावेन लोका अवनतेर्गतमनुपतन्ति।
  5. मानवाः नैतन्महत्त्वं जानन्ति।
  6. मानवः प्रयत्नं विना साफल्यं न लभते।

प्रश्नः
अधोलिखितवाक्येषु सर्वनामपदचयनं कुरुत

  1. सः समुन्नतेः शिखरमारोहति।
  2. कथं च सा लभ्या?
  3. कुत्र च तस्याः स्थानम्?
  4. तद् बलं साम्प्रतं सड़े एव निवसति।
  5. सा चेयं शक्तिः संघटनद्वारैव प्राप्तुं शक्यते।
  6. अस्माकं कम्पितं जायते चेतः।

उत्तर:

  1. सः
  2. सा
  3. तस्याः
  4. तद्
  5. सा, इयम्
  6. अस्माकम्।

(घ) समान-विलोमपदचयनम्
प्रश्न:
अधोलिखितवाक्येषु रेखाङ्कितपदानां पर्यायबोधकपदानि लिखत

  1. स्वभावतः एव मानवाः विजयं कामयन्ते।
  2. कामनामात्रेण साफल्यं न लभते।
  3. माताऽपि तनयं रोदनं विना स्तन्यं न पाययति।
  4. जगति सः समुन्नते: शिखरमारोहति।
  5. चिन्तनेनैव कम्पितं जायते चेतः।
  6. संघटनशक्त्या सुकरं जायते।

उत्तर:

  1. जनाः, मनुष्याः
  2. इच्छामात्रेण
  3. दुग्धम्
  4. संसारे
  5. हृदयम्
  6. सरलम्।

प्रश्नः
अधोलिखितवाक्येषु रेखाङ्कितपदानां विलोमपदानि लिखत

  1. मानवाः सर्वत्र विजयं कामयन्ते।
  2. माता तनयं स्तन्यं पाययति।
  3. शक्तिशून्यो मानवः शत्रु जेतुं न पारयति।
  4. शक्तिमान् समुन्नतेः शिखरमारोहति।
  5. जीवनं सुखेन यापयितुं शक्तिसंग्रहः करणीयः।
  6. लोकाः अवनतेः गर्तमनुपतन्ति।
  7. यत्र संघटनं तत्र सर्वसम्पत्तिः।
  8. यत्र विघटनं तत्र सर्वविपत्तिः।
  9. संघटनशक्त्या सुकरं जायते।
  10. लोका असम्भवमपि कार्यं सम्भवं कुर्वन्ति।

उत्तर:

  1. पराजयम्
  2. तनयाम्
  3. मित्रम्
  4. अवनतेः
  5. दुःखेन
  6. उन्नतेः
  7. सर्वविपत्तिः
  8. संघटनम्
  9. दुष्करम्
  10. असम्भवम्।