Chapter 12 गान्धिनः संस्मरणम्
Textbook Questions and Answers
प्रश्न: 1.
संस्कृतेन उत्तरं दीयताम् –
(क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् संकलितः?
उत्तरम् :
प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः।
(ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता?
उत्तरम् :
गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता।
(ग) गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः कः?
उत्तरम् :
गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित होसकेरे नागप्पा शास्त्री अस्ति।
(घ) महात्मागांधी किन्नाम नाटकमपठत्?
उत्तरम् :
महात्मागांधी ‘श्रवणपितृभक्तिः नामक नाटकमपठत्।
(ङ) गान्धिनः ग्रामं के उपागच्छन्?
उत्तरम् :
गान्धिनः ग्रामं पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्।
(च) गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म?
उत्तरम् :
गान्धिनः मनसि श्रवणस्य मातापित्रो: विलापः पुनः पुनः श्रूयते स्म।
(छ) महात्मागांधी हरिश्चन्द्रनाटकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्?
उत्तरम् :
महात्मागांधी हरिश्चन्द्र नाटकं द्रष्टुं स्वपितुः अनुज्ञाम् अध्यगच्छत्।
(ज) कस्य कथायां सत्यत्वप्रतीतिः आसीत्?
उत्तरम् :
हरिश्चन्द्रस्य कथायां सत्यत्वप्रतीतिः आसीत।
(झ) को गान्धिनः हृदये नित्यं सन्निहितौ आस्ताम्?
उत्तरम् :
श्रवणहरिश्चन्द्रौ गान्धिनः हृदये नित्यं सन्निहितौ आस्ताम्।
(ञ) कीदृशस्य श्रवणस्य प्रतिकृति: गान्धिना अवलोकिता?
उत्तरम् :
वीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिः गान्धिनाऽवलोकिता।
(ट) गान्धिनः मनसा किं प्रयुक्तम् आसीत्?
उत्तरम् :
गान्धिनः मनसा सत्य हरिश्चन्द्रनाटकं प्रयुक्तम्।
(ठ) कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म?
उत्तरम् :
‘हरिश्चन्द्रेणेव सर्वैरपि कस्मात् सत्यवद्भिः न भवितव्यम्’ इति प्रश्नः गान्धिन मनसि पुनः पुनः स्फुरति स्म।
प्रश्नः 2.
रिक्तस्थानानि पूरयत –
(क) ग्रामात् ग्राम……….पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्।
उत्तरम् :
ग्रामात् ग्रामं पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्।
(ख) श्रवणस्य पितृभक्तिः………….त्वया स्थापनीया।
उत्तरम् :
श्रवणस्य पितृभक्तिः आदर्शरूपेण त्वया स्थापनीया।
(ग) स रागः मे……….. तन्मयमकरोत्।
उत्तरम् :
स रागः मे हृदयं तन्मयमकरोत्।
(घ) अनेकशः मे नेत्राभ्याम् ………..निस्सारितानि।
उत्तरम् :
अनेकशः मे नेत्राभ्याम् अश्रूणि निस्सारितानि।
(ङ) हरिश्चन्द्रश्रवणौ……..मम हृदये नित्य सन्निहितौ।
उत्तरम् :
हरिश्चन्द्र श्रवणौ उभावापि मम हृदये नित्य सन्निहितौ।
प्रश्न: 3.
अधोलिखितेषु यथानिर्देशं पदचयनादिकं कुरुत –
(क) अस्मात् पाठात् अव्ययपदानि चिनुत।
उत्तरम् :
अव्ययपदानि-उपरि (ऊपर), कथम् (कैसे), अपि (भी), एव (ही), इति (वस), च (और), कदापि (कभी), अद्य (आज), पुनः पुनः (बार-बार), तथापि (फिर भी), किन्तु (लेकिन), इव (तरह, समान), वत् (तरह), अनेकशः (अनेक बार), अक्षरशः (अक्षर-अक्षर)।
(ख) एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत पर्यटनम्, उद्दिश्य, संवृत्ता, प्राप्य, भवितव्यम्।
उत्तरम् :
- पर्यटनम्-तीर्थस्थानानां पर्यटनं मह्यं रोचते।
- उद्दिश्य-किं उद्दिश्य त्वं तत्र गतवान्?
- संवत्ता-श्रवणसदशी एका घटना मम जीवने संवत्ता।
- प्राप्य-सः पितुः आज्ञां प्राप्य चलचित्रं दृष्टुम् गतवान्।
- भवितव्यम्-सर्वैः हरिश्चन्द्रेणैव सत्यवद्भिः भवितव्यम्।
(ग) अस्मिन् पाठे कर्मवाच्ये प्रयुक्तानि क्रियापदानि चिनुत।
उत्तरम् :
कर्मवाच्ये प्रयुक्तानि क्रियापदानि-अवलोकिता, स्थापनीया, श्रूयते, भवितव्यम्, निस्सारितानि, शक्यते, विलीयते।
(घ) अधोलिखितानां शब्दानां समानार्थक शब्दं लिखत।
उत्तरम् :
(i) लोचनम् – नेत्रम्, चक्षुः, अक्षि, नयनम्।
(ii) पितरौ – मातापितरौ, जनकजनकौ।
(iii) मनः – चित्तम्, चेतः, हृदयम्।
प्रश्न: 4.
अधोलिखितपदेषु सन्धिं, सन्धिविच्छेदं कुरुत –
(क) दृष्टिरपतत् = …………. + ………….
(ख) ग्रामात् + ग्रामम् = …………….
(ग) कदा + अपि + अप्रमार्जनीयाम् = ……………
(घ) घटनैका = ……………… + ………………
(ङ) तत् + नाटकम् = ………………….
(च) इत्येष = ……………. + …………..
(छ) मनसि + आविरभूत् = ……………..
उत्तरम् :
(क) दष्टिः + अपतत।
(ख) ग्रामादग्रामम।
(ग) कदाऽप्यप्रमार्जनीयाम।
(घ) घटना + एका।
(ङ) तन्नाटकम्।
(च) इति + एष।
(छ) मनस्याविरभूत्।
प्रश्नः 5.
हिन्दीभाषया आशयं स्पष्टीकुरुत –
(क) सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशामनुभवः।
उत्तरम् :
महात्मा गाँधी ने अपनी आत्मकथा में लिखा है कि हरिश्चन्द्र नाटक को देखकर मेरे मन में बार-बार यह प्रश्न उठने लगा हरिश्चन्द्र के समान सत्य के लिए सत्य का अनुसरण करना, सत्य के लिए निर्विकल्प मन में क्लेशों का अनुभव करना।
(ख) निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्तं स्यात्।
उत्तरम् :
हरिश्चन्द्र नाटक को देखने के उपरान्त गाँधीजी ने अपनी मनःस्थिति का वर्णन करते हुए कहा-अनेक बार इस नाटक को मैंने स्वयं मन से प्रयुक्त किया। अर्थात् मन ही मन अनेक बार इसके व्यवहार पक्ष एवं परिणाम के सन्दर्भ में चिन्तन-मनन किया।
(ग) श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्।।
उत्तरम् :
‘श्रवणपितृभक्ति’ नाटक को बाल्यावस्था में पढ़कर तथा कठपुतली प्रदर्शन में कावड़ पर बैठाकर अपने माता-पिता को यात्रा कराने की प्रतिकृति को देखकर गाँधीजी के मन में विचार आया कि श्रवणकुमार की पितृभक्ति को आदर्श रूप से मुझे अपने हृदय में स्थापित करना चाहिए – ऐसा स्वयं ने स्वयं को समझाया अर्थात् अन्त:करण में इस प्रकार की अनुभूति हुई।
Important Questions and Answers
संस्कृतभाषया उत्तरम् दीयताम् –
प्रश्न: 1.
महात्मागान्धिनः आत्मकथा कस्यां भाषायां वर्तते?
उत्तरम् :
महात्मागान्धिनः आत्मकथा गुजरातीभाषायां वर्तते।
प्रश्न: 2.
गान्धिनः आत्मकथायाः संस्कृतभाषायां किं अभिधानमस्ति?
उत्तरम् :
गान्धिनः आत्मकथायाः संस्कृतभाषायां ‘सत्यशोधनम्’ अस्ति।
प्रश्न: 3.
महात्मागान्धिनः दृष्टिः कस्मिन् ग्रन्थे अपतत्?।
उत्तरम् :
महात्मागान्धिनः दृष्टिः श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि अपतत्।
प्रश्न: 4.
किं द्वयं मिलित्वा श्रवणकथां गान्धिनः मनसः अप्रमार्जनीयामकरोत्?
उत्तरम् :
श्रवणपितृभक्त्याख्य नाटकं पुत्तलिका चेति द्वयं मिलित्वा श्रवणकथां गान्धिन: मनसः अप्रमार्जनीयामकरोत्।
प्रश्नः 5.
कस्य कथायां सत्यत्वप्रतीतिरासीत्?
उत्तरम् :
हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिरासीत्।
प्रश्नः 6.
किं नाटकं नि:संख्यवारं गान्धिना स्वयं मनसा प्रयुक्तम्?
उत्तरम् :
हरिश्चन्द्रचरितात्मकं नाटकं नि:संख्यवारं गान्धिना स्वयं मनसा प्रयुक्तम्।
प्रश्न: 7.
महात्मागान्धिनः आत्मकथायाः कति भाषासु अनुवादः वर्तते?
उत्तरम् :
महात्मागान्धिनः आत्मकथायाः विश्वस्य अनेक भाषासु अनुवादः वर्तते।
प्रश्न: 8.
गान्धिनः अनुसारेण तेषां आत्मकथा कस्मिन् रूपे वर्तते?
उत्तरम् :
गान्धिनः अनुसारेण तेषां आत्मकथा आत्मपरीक्षणरूपे वर्तते।
प्रश्न: 9.
गांधीमहोदयः कस्य सत्यनिष्ठया अभिभूताः?
उत्तरम् :
गांधीमहोदयः नृपहरिश्चन्द्रस्य सत्यनिष्ठया अभिभूताः।
प्रश्न: 10.
कं ग्रन्थं गांधीमहोदयः तत्परया अपठत्?
उत्तरम् :
श्रवणपितृभक्त्याख्यनाटकं गांधीमहोदयः तत्परया अपठत्।
प्रश्न: 11.
गांधीमहोदयः किं आत्मनात्मानमबोधयत्?
उत्तरम् :
श्रवणस्यपितृभक्तिरादर्शरूपेण स्थापनीयेत् इति गांधीमहोदयः आत्मना- त्मानमबोधयत्।
प्रश्न: 12.
अद्यापि तन्नाटकपाठेन पूर्ववत् कस्य हृदयं विलीयते?
उत्तरम् :
अद्यापि तन्नाटकपाठेन पूर्ववत् गान्धिनः हृदयं विलीयते स्म।
Summary and Translation in Hindi
गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या –
1. मम पित्रा………………………………………….तन्मयमकरोत्॥
कठिन-शब्दार्थ :
- क्रीत्वा = खरीदकर।
- स्थापितस्य = रखी हुई।
- पर्यटन्तः = घूमते हुये।
- पुत्तलिकाप्रदर्शनोपजीविनः = कठपुतली का नाच दिखाकर जीविका चलाने वाले।
- उपागमन् = आये।
- स्कन्धावलम्बिवीवधेन = कन्धे पर लटकी कावड़।
- वहमानस्य = ढोते हुये।
- प्रतिकृति = चित्र।
- कदाप्यप्रमार्जनीया = कभी न मिटने वाली।
- सन्तप्यमानयोः = दु:खी होते हुओं का।
- वितीर्णेन = दिये गये।
- आलापयम् = गाया।
प्रसंग – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘शाश्वती’ प्रथम भाग के ‘गान्धिनः संस्मरणम्’ शीर्षक पाठ से लिया गया है। मूलतः यह पाठ गांधीजी के संस्कृत भाषा में अनूदित ‘सत्यशोधनम्’ नामक ग्रन्थ से संकलित किया गया है। इस गद्यांश में गांधीजी ने ‘श्रवणपितृभक्ति’ नामक पुस्तक का वर्णन किया है, जिसका उनके जीवन पर आगे जाकर अमिट प्रभाव पड़ा।
हिन्दी अनुवाद/व्याख्या – (गांधीजी कहते हैं) मेरे पिताजी के द्वारा खरीदकर रखी हुई ‘श्रवणपितृभक्ति’ नाम वाले नाटक की पुस्तक के ऊपर किसी प्रकार से मेरी दृष्टि चली गई, उसे मैंने ध्यानपूर्वक पढ़ा। तत्काल ही एक गाँव से दूसरे गाँव तक घूमते हुये कठपुतली का नाच दिखाकर आजीविका चलाने वाले कुछ लोग हमारे गाँव में आए। उनके द्वारा दिखाई गई कठपुतलियों में यात्रा के उद्देश्य से कन्धे पर लटकी कावड़ से अपने माता-पिता को उठाकर ले जाते हुये श्रवणकुमार का एक चित्र देखा। इस पुस्तक तथा कठपुतली – इन दोनों ने मिलकर श्रवण कथा को कभी न मिटने वाली बना दिया। श्रवणकुमार की पितृभक्ति को आदर्श रूप से तुझे स्थापित करना चाहिए – ऐसा स्वयं को स्वयं से ही समझाया। श्रवण की मृत्यु से दुःखी होते हुये उसके माता-पिता का विलाप आज भी मेरे मन में बार-बार सुनाई-सा देता है। मेरे लिए पिताजी के द्वारा दिये गये बाजे से मैंने उसे गाया। उस राग ने मेरे हृदय को तन्मय कर दिया।
विशेष – यहाँ श्रवणकुमार के चरित्र का गाँधीजी के जीवन पर पड़े प्रभाव का सुन्दर एवं सरल भाषा में चित्रण हुआ है।
सप्रसङ्ग संस्कृत-व्याख्या –
प्रसङ्ग: – अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शाश्वती’ इत्यस्य ‘गान्धिनः संस्मरणम्’ इतिशीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं ‘सत्यशोधनम्’ नाम्नः ग्रन्थात् संकलितः। अयं ग्रन्थः गाँधी-महोदयस्य आत्मकथायाः संस्कृतभाषायां अनुवादः वर्तते। बाल्यकाले गाँधी महोदयः केन प्रकारेण श्रवणकुमारस्य मातृ-पितृभक्त्या प्रभावितः इत्यत्र प्रतिपादितः।
संस्कृत-व्याख्या – मम पित्रा = मम जनके न, क्रीत्वा = क्र यं कृत्वा, स्थापितस्य = विद्यमानस्य, श्रवणपितृभक्त्याख्यग्रन्थस्योपरि = श्रवण पितृभक्ति इति आख्या यस्य तत् नाटकम्, ग्रन्थस्य = पुस्तकस्य उपरि, कथमपि = येन केन प्रकारेण, मे = मम, दृष्टिः अपतत् = ग्रन्थोपरि दृष्टिपातः अभवत्। तम् एनं = नाटकं, तत्परया = तत्परतापूर्वकम्, अहम् अपठम् = पठितवान्। तत्कालमेव = तस्मिन् समये एव, ग्रामाद ग्रामम् = एक ग्रामात् अपरं ग्रामम्, पर्यटन्तः = भ्रमणं कुर्वन्तः, पुत्तलिका प्रदर्शोपजीविनः = पुत्तलिका प्रदर्शनेन उपजीविका येषां ते तेन, केचिद् अस्मद् = अस्माकं ग्रामम् उपागमन् = आगच्छन्।
तत्प्रदर्शित पुत्तलिकासु = तेन प्रदर्शित पुत्तलिकासु, यात्रामुद्दिश्य = यात्रां विषयीकृत्य, स्कन्धावलम्बिनीवधेन = स्कन्धयोः अवलम्बितेन नीवधेन, स्वमाता-पितरौ = स्वकीयपितरौ, वहमानस्य = नीयमानस्य श्रवणस्य = श्रवणकुमारस्य, एका प्रतिकृतिः = एकं चित्रं, अवलोकिता = मया अवलोकितम्। एतत् पुस्तकं = इदं पुस्तकं पुत्तलिका च इति द्वयं = उभयम्, मिलित्वा = संम्मील्य, श्रवणकथां = श्रवणस्य कथा श्रवणकथा, ताम्, मे = मम, मनसः चेतसः कदापि अप्रमार्जनीयम्, न प्रमार्जनीयम् इति अप्रमार्जनीयम् = अमिट प्रभाव अकरोत्।
श्रवणस्यपितृभक्तिः = श्रवणकुमारस्य पितृभक्तिः, आदर्शरूपेण = निदर्शरूपेण, त्वया = भवता, स्थापनीया = स्थापितं करणीया, स्वीकरणीया, इत्यात्मनात्मानमबोधयम् = एवं स्वयमेव आत्मानं बोधितवान्। श्रवणस्यमरणेन = श्रवणकुमारस्य मृत्युना, सन्तप्यमानयोः = सन्ताप-निमग्नयोः, पित्रोः = जननीजनकयोः, विलापः = रुदनम्, अद्यापि = इदानीमपि, मे मनसि = मम मनसि, पुनः पुनः = भूयः भूयः श्रूयते इव = आकर्ण्यते इव। मदर्थे = मध्यम्, पित्रा = जनकेन, वितीर्णेन = प्रदत्तेन, वाद्येन = वाद्ययन्त्रेण, तमहम् आलापथम् = तमहम् आगयम्। स रागो = असौ स्वरः, मे हृदयम् = मम मानसम्, तन्मयमकरोत् = तल्लीनम् विहितवान्, कृतवान् वा।
विशेष: –
(i) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते।
(ii) अस्मिन् गद्यांशे श्रवणकुमारस्य मातृपितृभक्तेः गान्धिनः जीवने कियत् प्रभावः जातः इति सम्यक् प्रकारेण प्रतिपादितः।
(iii) व्याकरणम्-क्रीत्वा-क्री + त्वा। दृष्टि:-दृश् + क्तिन्। पर्यटन्-परि + अट् + शतृ। मातापितरौ-माता च पिता च (द्वन्द्व)। वहमानस्य-वह् + शानच्। मिलित्वा-मिल् + क्त्वा। प्रतिकृतिरेका-प्रतिकृतिः + एका (रुत्व)। अद्यापि-अद्य + अपि (दीर्घ सन्धि)।
2. नाटकान्तरसम्बन्धिन्यपरा ……………………………………………… इत्यहं जाने॥
कठिन-शब्दार्थ :
- संवृत्ता = हुई।
- अवलोकयितुम् = देखने के लिए।
- अध्यगच्छत् = प्राप्त की।
- लोचनासेचनकम् = नेत्रों को शीतल करने वाले।
- अकर्षत् = आकर्षित किया।
- कतिकृत्वः = कितनी बार।
- व्यसनम् = लगन या आसक्ति।
- निस्संख्यवारम् = अनेक बार।
- दिवानिशम् = दिन-रात।
- निस्सारितानि = निकाले हैं, बहाये हैं।
- विलीयते = लीन हो रहा है।
- जाने = जानता हूँ।
प्रसंग – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक ‘शाश्वती’ प्रथम भाग के ‘गान्धिनः संस्मरणम्’ शीर्षक पाठ से लिया गया है। मूलतः यह पाठ गांधीजी के संस्कृतभाषा में अनुदित ‘सत्यशोधनम्’ नामक ग्रन्थ से संकलित किया गया है। इस गद्यांश में गांधीजी ने किसी नाटक मंडली द्वारा प्रयुक्त ‘हरिश्चन्द्र’ नाटक को देखने से उनके हृदय पर जो अमिट प्रभाव पड़ा, उसका वर्णन किया है
हिन्दी अनुवाद/व्याख्या – नाटक से सम्बन्धित एक और उसके समान अन्य घटना घटित हुई। इसी समय ही किसी नाटक मण्डली द्वारा प्रयुक्त नाटक को देखने के लिए पिताजी की आज्ञा को मैंने प्राप्त किया। वह नाटक हरिश्चन्द्र के चरित्र से सम्बन्धित था। नेत्रों को शीतलता प्रदान करने वाले इस प्रकार के उस नाटक ने मेरे मन को आकर्षित कर लिया। परन्तु आज्ञा प्राप्त करके कितनी बार जाया जा सकता है।
फिर भी इसके निमित्त आसक्ति ने मुझे नहीं छोड़ा। अनेक बार इस नाटक को मैंने स्वयं से मन से प्रयुक्त किया। हरिश्चन्द्र के समान सभी को क्यों नहीं सत्यवादी होना चाहिए – यही प्रश्न दिन-रात मेरे मन में बार-बार उठता था। सत्य के लिए सत्य का अनुसरण करना, मन से कष्टों का अनुभव करना मन में उभरने लगा। यही एक आदर्श ही मेरे मन में प्रकट हुआ। हरिश्चन्द्र की कहानी में अक्षरशः सत्यता को प्रतीति थी। इन सबके स्मरण ने मेरे नेत्रों से अनेक बार आँसू बहाये हैं। हरिश्चन्द्र तथा श्रवणकुमार दोनों ही मेरे हृदय में सदैव समाये हुये हैं। आज भी उस नाटक को पढ़ने से पूर्व की तरह मेरा हृदय लीन हो रहा है ऐसा मैं जानता हूँ।
विशेष – यहाँ सत्यवादी राजा हरिश्चन्द्र एवं पितृभक्त श्रवणकुमार के चरित्र पर गाँधीजी के जीवन पर पड़ने वाले अमिट प्रभाव का रोचकता एवं सरसतापूर्ण चित्रण हुआ है।
सप्रसङ्ग संस्कृत-व्याख्या –
प्रसङ्गः – अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शाश्वती’ इत्यस्य ‘गान्धिनः संस्मरणम्’ इतिशीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं ‘सत्यशोधनम्’ नाम्नः ग्रन्थात् संकलितः। अस्मिन् गद्यांशे गान्धी महोदयेन हरिश्चन्द्रचरितात्मकं नाटकस्य तस्य जीवने कियत् प्रभावः जातः इति प्रस्तुतः
संस्कृत-व्याख्या – नाटकान्तर सम्बन्धिनी = नाट्य सम्बन्धिनी, अपरा = द्वितीया, तत्सदृशी = तस्यसदृशी तुल्या एका घटना संवृत्ता = जाता। एतत्कालमेव = अस्मिन् समये एव कयापि नाटकमण्डल्या प्रयुक्तम् = प्रदर्शितम्, नाटकम् = रूपकम्, अवलोकयितुं = दृष्टुम्, पितुः = स्वजनकस्य, अनुज्ञाम् = आज्ञां आदेशं वा; अध्यगच्छम् = प्राप्तवान्। तन्नाटकं = तत् नाट्यम हरिश्चन्द्रचरितात्मकम् = हरिश्चन्द्र-चरित्र सम्बन्धी, आसीत्। तदेतत् = तत् एतत् लोचन आसेचनकम् = नेत्राणि आसेचनकम् शीतलतादायकम् = नेत्रानन्ददायकं तन्नाटकम् = मम = मे, मानसम् = चेतः, अकर्षत् = आकृष्टं अकरोत्। किन्तु, अनुज्ञा = आज्ञाम्, कृतिकत्वः = कतिवारम्, प्राप्य = लब्ध्वा, गन्तुं शक्येत् = गन्तुं शक्नुयात्। तथापि एतत् निमित्तम् = एतत् विषयक, व्यसनम् = आसक्तिः नैव माम् अमुञ्चत् = माम् न त्यक्तवान्। निस्संख्यवारम् = अनेकवारम, इदं नाटकम् = इदं नाट्यम् मया = गांधिना, स्वयं मनसा = चेतसा प्रयुक्तं स्यात् = प्रयुक्तं भवेत्।
हरिश्चन्द्रेणेव = हरिश्चन्द्रवत्, सवैरपि, कस्मात् = कथम् सत्यवद्भिः न भवितव्यम् = अथोत् अवश्यमेव, सत्यवद्भिः भवितव्यम्। इति एषः = एवं अयं प्रश्न: दिवानिशम् = अहर्निशम्, मे मनसि = मम चेतसि, पुनः पुनः भूयः भूयः, अस्फुरत् = स्फुरितवान्। सत्यानुसरणं = सत्यस्य अनुसरणम्, सत्यस्यार्थे = सत्यस्य कृते, हरिश्चन्द्रवत् = हरिश्चन्द्र यथा, निर्विकल्पेन = सत्यनिष्ठया, मनसा = चेतसा, क्लेशानामनुभवः = कष्टानां अनुभवः। इत्येष आदर्श एक एव मे = मम मनसि = चेतसि, आविरभूत् = प्रकटितम्, हरिश्चन्द्रकथायाम् = हरिश्चन्द्रस्य गाथायाम्, अक्षरक्ष: = पूर्णतः सत्यत्वप्रतीति: सत्यत्वस्य विश्वासः आसीत्।
सर्वस्य अस्य = सम्पूर्णस्य अस्य स्मरणम् अनेकशः = अनेकवारम्, मे = मम, नेत्राभ्याम् = लोचनाभ्याम, अणि = अश्रबिन्दवः निस्सारितानि = प्रवाहितानि। हरिश्चन्द्रश्रवणौ = हरिश्चन्द्रः श्रवणश्च उभौ अपि = द्वौ अपि, मम = मे, हृदये नित्यं संनिहितौ = सदैवविद्यमानौ स्तः। अद्यापि = इदानीमपि, तन्नाटकपाठेन = तस्य नाटकस्य पाठेन पूर्ववत् मे = मम, हृदयम् = चेतः, विलीयते = तल्लीनो जायते, इत्यहं जाने = जानामि।
विशेषः –
(i) गद्यांशस्य भाषा सरला सुबोधा चास्ति।
(ii) व्याकरणम् – घटनैका-घटना + एका (वृद्धि सन्धि)। प्रयुक्तम्-प्र + युज् + क्त। किन्त्वनुज्ञाम्-किन्तु + अनुज्ञाम् (यण् सन्धि)। दिवानिशम्-दिवा च निशा च (द्वन्द्व)। स्मरणम्-स्मृ + ल्युट्। श्रवणावुभावपि-श्रवणौ + उभौ + अपि (अयादि सन्धि)। इत्यहम्-इति + अहम् (यण् सन्धि)। सत्यानुसरणम्-सत्यस्य अनुसरणम् (षष्ठी तत्पु.)। भवितव्यम्-भू + तव्यत्। शक्यते-शक् + कर्मवाच्य विधि प्र.पु. एकवचन। सर्वस्यास्य-सर्वस्य + अस्य (दीर्घ सन्धि)।