तृतीयः पाठः गोदोहनम्

(गाय का दूध दुहना)

(1)

(प्रथमं दृश्यम्)

(मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति)

(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।)

चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)

मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।

चन्दनः – किमर्थ क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां

नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?

मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।

कठिन-शब्दार्थ-मोदकानि = लड्डू। रचयन्ती = बनाती हुई। मन्दस्वरेण = धीमी आवाज में (निम्नस्वरेण)। मनोहरः = मनमोहक (आकर्षक:)। विलोक्य = देखकर (दृष्ट्वा) । रच्यन्ते = बनाये जा रहे हैं (निर्मियन्ते)। विरम = रुको (तिष्ठ)। जिह्वालोलुपताम् = जीभ का लालच (रसनालोभम्) । अक्षमः = असमर्थ/असहाय (असमर्थः)।

हिन्दी-अनुवाद

पहला दृश्य

(मल्लिका लड्डू बनाती हुई धीमी आवाज में भगवान् शिव की स्तुति कर रही है।)

(उसके पश्चात् लड्डुओं की सुगन्ध का अनुभव करता हुआ प्रसन्नचित्त चन्दन प्रवेश करता है।)

चन्दन – अरे! सुगन्ध तो मनमोहक है। (देखकर) अरे लड्डू बनाये जा रहे हैं? (प्रसन्न होकर) तब तो

स्वाद लेता हूँ। (लड्डू को लेना चाहता है।)

मल्लिका – (क्रोधपूर्वक) रुको। रुको। इन लड्डुओं को मत छुओ (स्पर्श करो)।

चन्दन – किसलिए क्रोध कर रही हो? तुम्हारे हाथ से बनाये हुए लड्डुओं को देखकर मैं जीभ के

लालच को नियन्त्रित करने में असहाय हूँ, क्या तुम यह नहीं जानती हो?

मल्लिका – हे स्वामि! अच्छी तरह से जानती हूँ। परन्तु ये लड्डू पूजा के लिए हैं।

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्ग:- प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। मूलतः पाठोऽयं ‘चतुव्यूहम्’ इति पुस्तकात् संकलितः। अंशेऽस्मिन् मल्लिकायाः चन्दनस्य च मोदकविषये वार्तालापं वर्तते

संस्कृत-व्याख्या

प्रथमं दृश्यम्

(मल्लिका मोदकानां निर्माणं कुर्वन्ती निम्नस्वरेण भगवतः शिवस्य प्रार्थनां करोति)

(तदनन्तरं मोदकानां गन्धस्य आस्वाद्येन प्रसन्नहृदयः चन्दनः प्रवेशं करोति।)

चन्दनः – अहो! सुगन्धः तु आकर्षक: वर्तते, (दृष्ट्वा ) अरे! अत्र तु मोदकानां निर्माणं प्रचलति? (हर्षितः

आर भूत्वा) अत एव आस्वादनं करोमि। (मोदकं गृहणाय वाञ्छति)

मल्लिका – (क्रोधसहितम्) तिष्ठ, तिष्ठ। ऐतेषां मोदकानां स्पर्श न कुरु।

चन्दनः – केन कारणेन क्रोधं करोषि ! भवत्याः हस्तनिर्मितानि मोदकानि अवलोक्य अहं रसनालोभं वशीकर्तुं समर्थो नास्मि. भवती एतत जानाति एव।

मल्लिका – पूर्णतया अवगच्छामि स्वामि! किन्तु इमानि मोदकानि पूजाकार्याय सन्ति।

व्याकरणात्मक-टिप्पणी-

  1. मोदकानि-मोदक शब्द, प्रथमा/द्वितीया विभक्ति, बहुवचन।
  2. विलोक्य-वि + लोक् + ल्यप् ।
  3. रच्यन्ते-रच् धातु, आत्मनेपद, लट्लकार, प्रथम पुरुष, बहुवचन।
  4. भूत्वा-भू + क्त्वा।
  5. अक्षमः-न क्षमः इति, नञ्तत्पुरुष समास।

(2)

चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।

मल्लिका – भो! अत्र पूजनं न भविष्यति । अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं

प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।

चन्दनः – सखिभिः सह! न मया सह! (विषादं नाटयति)

मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति । अतः, मया सह

तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्थां,

धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

कठिन-शब्दार्थ-सम्पादय = सम्पन्न करो (सम्पन्नं कुरु) । देहि = दीजिए (यच्छ) । श्वः = कल (आने वाला)। धर्मयात्रां = धार्मिक यात्रा। (तीर्थ-यात्राम्) । तवागमनस्य = तुम्हारे आने का (तव आगतस्य)। प्रत्यागमिष्यामः = लौट आयेंगी। धेनोः = गाय का (गवेः) । दुग्धदोहनम् = दूध दुहना (पयोदोहनम्) । परिपालय = पालन करो (सम्यक् पालनं कुरु)।

हिन्दी-अनुवाद

चन्दन – तब तो शीघ्र ही पूजन सम्पन्न करो। और प्रसाद दीजिए।

मल्लिका – अरे, इसमें पूजन नहीं होगा। मैं अपनी सहेलियों के साथ कल सुबह काशी-विश्वनाथ के

मन्दिर जाऊँगी, वहाँ हम सब गङ्गा में स्नान और धार्मिक यात्रा करेंगी।

चन्दन – सहेलियों के साथ! मेरे साथ नहीं! (दु:ख प्रकट करता है)

मल्लिका – हाँ! चम्पा, गौरी, माया, मोहिनी, कपिला आदि सभी जा रही हैं। इसलिए मेरे साथ तुम्हारे

आने का औचित्य नहीं है। हम सब एक सप्ताह के अन्त में लौट आयेंगी। तब तक घर की

व्यवस्था और गाय के दूध दुहने की व्यवस्था का ठीक से पालन करना।

सप्रसङ्ग संस्कृत-व्याख्या

प्रसंङ्गः- प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य मल्लिकायाश्च धर्मयात्राविषये वार्तालापं वर्तते । चन्दनः शीघ्रं प्रसादं गृहीतुमिच्छति, मल्लिका स्वसखिभिः सह गङ्गास्नानं धर्मयात्राञ्च कर्तुं गच्छतीति वर्णितम्।

संस्कृत-व्याख्या

चन्दनः – तदा तु, त्वरितमेव पूजाकार्यं कुरु। मह्यम् प्रसादं (मोदकं) च यच्छ।

मल्लिका – भो! अत्र पूजाकार्यं नहि भविष्यति । अहं स्वसखिभिः साकं श्वः प्रातःकाले काशीविश्वनाथस्य

देवालयं प्रति गमिष्यामि, तत्र काश्यां गङ्गानद्यां स्नानम् तथा तीर्थयात्राञ्च वयं करिष्यामः।

चन्दनः – किं सखिभिः साकं गमिष्यसि, न तु मया साकम्? (दु:खं प्रकटयति)

मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलायाः नामधेयाः सर्वाः सख्यः यान्ति। अस्मात् मया

साकं भवतः आगमनस्य औचित्यं न वर्तते। वयं सर्वाः सप्ताहानन्तरं ततः प्रत्यायास्यामः । तावत्

कालं भवान् गृहकार्याणां व्यवस्थां, गोः पयदोहनस्य व्यवस्थां च करोतु।

व्याकरणात्मक-टिप्पणी

(i) सखिभिः-सखि शब्द, तृतीया विभक्ति, एकवचन। मनमा मान

(iii) तवागमनस्य-तव + आगमनस्य, दीर्घ सन्धि। तिमीशाचा

(iii) सप्ताहान्ते-सप्ताह + अन्ते, दीर्घ सन्धि । किन लागी

(iv) प्रत्यागमिष्यामः-प्रति + आगमिष्यामः, यण सन्धि ।

(v) परिपालय-परि उपसर्ग, पाल् धातु, लोट् लकार, मध्यम पुरुष, एकवचन।

(3)

द्वितीयं दृश्यम्

चन्दनः – अस्तु । गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि

परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।

चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति)

उमा – मातुलानि! मातुलानि!

चन्दनः – उमे! अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय!

किं ते प्रियं करवाणि?

उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र

त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।

चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटकपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति

एव इति पितामहं प्रति त्वया वक्तव्यम्।

उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता)

कठिन-शब्दार्थ-अस्तु = ठीक है। शिवाः = कल्याणकारी (मङ्गलमयः)। ते = तुम्हारे (तव)। पन्थानः = मार्ग (मार्गा:)। प्रातराशस्य = सुबह के नाश्ते का। मातुलानि = मामी। मातुलः = मामा। पितामहः = दादाजी। त्रिशत-सेटकमितम् = तीन सौ लीटर (त्रिशतलीटरमितम्)।

हिन्दी-अनुवाद (दूसरा दृश्य)

चन्दन – ठीक है। जाओ। और अपनी सहेलियों के साथ धार्मिक यात्रा से आनन्दित होओ। मैं सबकुछ

कर लूँगा। तुम्हारा मार्ग कल्याणकारी होवे।

चन्दन – मल्लिका तो धार्मिक यात्रा के लिए चली गई है। ठीक है। दूध-दोहन करके उसके बाद सुबह के नाश्ते का प्रबन्ध करूँगा। (स्त्री वेष को धारण करके व दूध का पात्र हाथ में लेकर नन्दिनी

(गाय) के पास जाता है।)

उमा – मामीजी! मामीजी!

चन्दन — उमा ! मैं तो मामा हूँ। तुम्हारी मामी तो गङ्गा-स्नान के लिए काशी गई है। कहो! तुम्हारा क्या प्रिय (कार्य) करूँ?

उमा – मामाजी! दादाजी कहते हैं कि एक महीने के बाद हमारे घर में एक बड़ा उत्सव होगा। उसमें

तीन सौ लीटर दूध की आवश्यकता है। यह व्यवस्था आपके द्वारा की जानी है।

चन्दन – (प्रसन्न मन से) तीन सौ लीटर दूध । सुन्दर है, दूध की व्यवस्था हो जायेगी, ऐसा दादाजी से

तुम कह देना।

उमा – धन्यवाद मामाजी! अब मैं जाती हूँ। (वह निकल जाती है।)

सप्रसङ्ग संस्कृत-व्याख्या

प्रसंङ्गः-प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य उमायाश्च दुग्धविषये वार्तालापमस्ति।

संस्कृत-व्याख्या-

द्वितीयं दृश्यम्

चन्दनः – भवतु। यातु। सखिभिः साकं तीर्थयात्रया प्रसन्ना च भवतु । अहं गृहकार्य सम्पूर्ण सम्यक्तया

करिष्यामि। तव मार्गा: कल्याणप्रदाः भवन्तु।

चन्दनः – (मनसि विचारयति) मम पत्नी मल्लिका त तीर्थयात्रायै निर्गता। भवत । दुग्धस्य दोहनकार्य

विधाय तदनन्तरं निजप्रातराशस्य व्यवस्थां विधास्यामि । (नारीवेषं धारणं कृत्वा, हस्ते दुग्धभाजनं

गृहीत्वा नन्दिन्याः धेनोः समीपं याति।)

उमा – मातुलानि ! = मातुलस्य भार्या ! मातुलानि!

चन्दनः – उमे! अहं तु मातुलः = मातुः भ्राता! ते मातुलानि तु गङ्गानद्यां स्नानाय काशीनगरी याता। वद ! भवत्या किं प्रियकार्यं विधेयम्?

उमा – मातुल! = मातुः भ्रातः! पितामहः = पितुः पिता वदति यत् मासैकपश्चात् अस्माकं गृहे महान्

उत्सवः भविष्यति। तस्मिन् उत्सवे त्रिशतलीटरमितं दुग्धं = पयः आवश्यकमस्ति। दुग्धस्य

व्यवस्था भवद्भिः कर्त्तव्या।

चन्दनः ही – (सहर्षम्) त्रिशतलीटरमितं (300 लीटर) पयः! सुन्दरम् । पयस: व्यवस्था भविष्यति एव, एवं

स्व पितामहं (पितुः पितरं) भवत्या कथनीयम्।

उमा – धन्यवादः मातुलः! सम्प्रति गच्छामि। (उमा निर्गच्छति)

व्याकरणात्मक-टिप्पणी

  1. शिवास्ते-शिवाः + ते, विसर्ग (सत्व) सन्धि ।

(ii) कृत्वा -कृ + क्त्वा ।

(iii) करवाणि-कृ धातु, लोट् लकार, उत्तम पुरुष, एकवचन। तर

(iv) मासानन्तरम्-मास + अनन्तरम्, दीर्घ सन्धि। कीरण का

  1. महोत्सवः-महा + उत्सवः, गुण सन्धि ।

(vi) वक्तव्यम्-वच् + तव्यत्।

(vii) याम्यधुना-यामि + अधुना, यण् सन्धि ।

(4)

तृतीयं दृश्यम्

चन्दनः – (प्रसन्नो भूत्वा, अङ्गुलिषु गणयन् ) अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लप्स्ये। (नन्दिनीं दृष्ट्वा ) भो नन्दिनि! तव कृपया तु अहं धनिकः भविष्यामि। (प्रसन्नः सः धेनोः बहुसेवां करोति।)

चन्दनः – (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।

(एवं क्रमेण सप्त दिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति।)

मल्लिका – (प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।

(चन्दनः मोदकानि खादति वदति च।)

चन्दनः – मल्लिके! तव यात्रा तु सम्यक् सफला जाता? काशीविश्वनाथस्य कृपया प्रियं निवेदयामि। मल्लिका – (साश्चर्यम् ) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्?

कठिन-शब्दार्थ- गुणयन् = गिनता हुआ। पयांसि = दूध (दुग्धम्) । लप्स्ये = प्राप्त करूँगा। चिन्तयति = विचार करता है (विचारयति)। व्यतीतानि = बीत गए। प्रत्यागच्छति = लौट आती है (प्रत्यायाति)। साश्चर्यम् = हैरानी (विस्मय) से (सविस्मयम्)।

हिन्दी-अनुवाद तीसरा दृश्य

चन्दन – (प्रसन्न होकर, अँगुलियों पर गिनता हुआ) अहा! तीन सौ लीटर दूध ! इससे तो बहुत धन प्राप्त

करूँगा। (नन्दिनी को देखकर) हे नन्दिनी ! तुम्हारी कृपा से तो मैं धनवान हो जाऊँगा। (प्रसन्न हुआ वह गाय की बहुत सेवा करता है।)

चन्दन – (विचार करता है) महीने के अन्त में ही दूध की आवश्यकता है। यदि प्रतिदिन दोहन (दूध निकालना) करता हूँ तो दूध सुरक्षित नहीं रहता है। अब क्या करूँ? ठीक है, महीने के अन्त में ही पूर्ण रूप से दूध का दोहन करता हूँ।

(इस प्रकार क्रम से सात दिन बीत गये। एक सप्ताह के बाद मल्लिका लौट आती है।)

मल्लिका – (प्रवेश करके) स्वामी! मैं लौट आई । प्रसाद चखो (ग्रहण करो)। ।

(चन्दन लड्डू खाता है और कहता है।)

चन्दन – मल्लिका ! तुम्हारी यात्रा तो अच्छी प्रकार से सफल हो गई? काशी-विश्वनाथ की कृपा से

प्रिय समाचार सुनाता हूँ।

मल्लिका – (हैरानी से) ऐसा है। धर्मयात्रा के अलावा और क्या प्रिय है?

सप्रसङ्ग संस्कृत-व्याख्या

प्रसंङ्गः- प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् तृतीयदृश्यस्य वर्णनमस्ति। अस्मिन् दृश्ये चन्दनः धनिकः भवितुं धेनोः दुग्धं मासान्ते एव सम्पूर्णतया दोहनं कर्तुमिच्छति। सप्ताहान्ते तस्य पत्नी मल्लिका प्रत्यागच्छति। तयोः वार्तालापं भवति।

संस्कृत-व्याख्या

तृतीयं दृश्यम्

चन्दनः – (हर्षितो भूत्वा, अङ्गुलिषु गणनां कृत्वा) आश्चर्यम्! त्रिशतं (300) लीटरमितं दुग्धम् ! अनेन

दुग्धविक्रयेणतु अत्यधिकं वित्तं प्राप्स्यामि। (नन्दिनीं धेनुम् अवलोक्य) हे नन्दिनि! भवत्याः कृपया तु अहं धनवान् भविष्यामि। (सः चन्दनः हर्षितो भूत्वा गो: अत्यधिक सेवां विदधाति )

चन्दनः – (विचारयति) मासस्यान्ते एव पयसः आवश्यकता अस्ति। चेत् प्रतिदिवसं दोहनं करोमि तदा तु

पयः सुरक्षितं नहि भवति। सम्प्रति अहं किं करवाणि? साधु, तदा तु मया मासस्यान्ते एव सकलं पयोदोहनं क्रियते।

(इत्थं क्रमेण सप्तदिवसा: निर्गताः। सप्तदिवसानन्तरं मल्लिका प्रत्यायाति)

मल्लिका – (प्रवेशं कृत्वा) नाथ! प्रत्यायाता अहम् । प्रसादस्य आस्वादनं करोतु भवान्। (चन्दनः मोदकानि

खादति कथयति च)

चन्दनः – मल्लिके! भवदीया तीर्थयात्रा तु सम्यक्तया सफला अभवत्? काशीविश्वनाथस्य (शिवस्य) कृपया प्रियवृत्तान्तं कथयामि।

मल्लिका – (आश्चर्यपूर्वकम्) इत्थम् । तीर्थयात्राभिन्नं किं प्रियतरं वृत्तान्तम्?

व्याकरणात्मक-टिप्पणी

  1. भूत्वा = भू + क्त्वा।
  2. धेनोः = धेनु शब्द, षष्ठी विभक्ति, एकवचन।
  3. मासान्ते = मास + अन्ते, दीर्घ सन्धि ।
  4. प्रतिदिनम् = दिनं दिनं प्रति, अव्ययीभाव समास।
  5. सप्ताहान्ते = सप्ताह + अन्ते, दीर्घ सन्धि ।
  6. प्रत्यागच्छति = प्रति + आगच्छति, यण सन्धि ।
  7. प्रियतरम् = प्रिय + तरप् प्रत्यय।

(5)

चन्दनः – ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम्

अस्माभिः दातव्यम् अस्ति।

मल्लिका – किन्तु एतावन्मानं दुग्धं कुतः प्राप्स्यामः।

चन्दनः – विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।

मल्लिका – स्वामिन्! त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः। (द्वावेव धेनोः सेवायां निरतौ भवतः। अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः रात्रौ नीराजनेनापि तोषयतः)

चन्दनः – मल्लिके! आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थ पात्रप्रबन्धोऽपि करणीयः। (द्वावेव निर्गतौ) कठिन-शब्दार्थ-

प्राप्स्यामः = प्राप्त करेंगे। धोक्ष्यावः = हम दोनों दूध का दोहन करेंगे। विहाय = छोड़कर (त्यक्त्वा)। विषाणयोः = दोनों सींगों पर। नीराजनेन = प्रज्वलित दीपक द्वारा अर्चना (प्रार्थना) करने से। तोषयतः = प्रसन्न करते हैं। कुम्भकारम् = कुम्हार, घड़ा बनाने वाला। बाइक

हिन्दी-अनुवाद

चन्दन – गाँव के मुखिया के घर महीने के अन्त में महोत्सव होगा। उसमें तीन सौ लीटर दूध हमारे द्वारा

दिया जाना है।

मल्लिका – किन्तु इतना दूध कहाँ से प्राप्त करेंगे?

चन्दन- विचार करो मल्लिका ! प्रतिदिन दूध का दोहन करके यदि एकत्रित करेंगे तो वह सुरक्षित नहीं

रहेगा। इसलिए रोजाना दूध का दोहन नहीं करते हैं। उत्सव के दिन ही सम्पूर्ण दूध का दोहन

करेंगे।

मल्लिका- स्वामी! तुम तो सबसे अधिक चतुर हो। अति उत्तम विचार है। अब दूध का दोहन छोड़कर

केवल नन्दिनी की सेवा ही करेंगे। इससे अधिक से अधिक दूध महीने के अन्त में प्राप्त करेंगे। (दोनों ही गाय की सेवा में संलग्न हो जाते हैं । इस क्रम में घास आदि और गुड़ आदि खिलाते हैं। कभी-कभी दोनों सींगों पर तेल का लेप करते हैं, तिलक धारण करते हैं और रात में प्रज्ज्वलित दीपक से अर्चना (प्रार्थना) करके उसे प्रसन्न करते हैं।)

चन्दन – मल्लिका! आओ। कुम्हार के पास चलते हैं। दूध के लिए पात्रों का प्रबन्ध भी करना है।

(दोनों निकल जाते है )

सप्रसङ्ग संस्कृत-व्याख्या

प्रसंङ्गः- प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः त्रिशतसेटकमितं दुग्धं मासान्ते विक्रयं कृत्वा धनिको भवितुं च धेनोः प्रतिदिनं दुग्धदोहनं विहाय तस्याः सेवायां सपत्नीकः संलग्नो भवतीति वर्णितम् । अस्मिन् विषये चन्दनस्य मल्लिकायाश्च वार्तालापम् एवं भवति

संस्कृत-व्याख्या

चन्दनः – ग्रामप्रमुखस्य आवासे मासस्यान्ते महान् उत्सवः भविष्यति। तस्मिन् उत्सवे त्रिशतलीटरमितं

. पयः अस्माभिः देयम् वर्तते।

मल्लिका – परन्तु, एतावन्मानं पयः वयं कुत्रतः आनेष्यामः?

चन्दनः – चिन्तय मल्लिके! यदि वयं प्रतिदिवसं दुग्धदोहनं विधाय संग्रहं करिष्यामः, तदा तु तत् दुग्धं

सुरक्षितं नहि भविष्यति। अस्मादेव पयोदोहनं नहि करिष्यावः। महोत्सवदिवसे एव सम्पूर्ण

दुग्धदोहनं करिष्यावः।

मल्लिका- स्वामिन्! भवान् तु चतुरतमः वर्तते। अतिश्रेष्ठः विचारः भवतः। इदानीं पयोदोहनं त्यक्त्वा केवलं नन्दिन्याः धेनोः आवां सेवां विधास्यायः। अनेन अत्यधिकं पयः मासस्यान्ते आवां प्राप्त करिष्यावः। (चन्दनः मल्लिका च द्वावेव गोः सेवायां संलग्नौ भवतः। अस्मिन् सेवाक्रमे तौ तृणादिकं गुडादिकं च धेनुं भोजयतः। कदाचित् विषाणयोः = शृङ्गयोः (सींगों पर) स्नेहं (तैलं) लेपनं कुरुतः, तिलकं कुरुतः, निशायां च निराजनेन = मक्षिकादिदूरीकृत्येन, अपि प्रसन्नां कुरुतः।)

चन्दनः- मल्लिके! आगच्छ। कुम्भकारं = घटनिर्मातारं प्रति गच्छावः। पयसे भाजनव्यवस्थाऽपि कर्त्तव्या।

(द्वावेव निर्गच्छतः)

व्याकरणात्मक-टिप्पणी

  1. दातव्यम् = दा धातु + तव्यत् प्रत्यय।
  2. प्राप्स्यामः = प्र + आप् धातु, लृट् लकार, उत्तम पुरुष, बहुवर
  3. चतुरतमः = चतुर + तमप् प्रत्यय।
  4. अत्युत्तमः = अति + उत्तमः, यण सन्धि। थाय लग : शाकार
  5. विहाय = वि + हा + ल्यप् ।
  6. अधिकाधिकम् = अधिक + अधिकम्, दीर्घ सन्धि। कालमा
  7. द्वावेव = द्वौ + एव, अयादि सन्धि।

(6)

चतुर्थ द्रश्यम

कुम्भकारः – (घटरचनायां लीनः गायति)

ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम।

जीवनं भगुरं सर्वं यथैष मृत्तिकाघटः॥”

श्लोकान्वयः-यथा एष मृत्तिकाघटः (तथा) सर्वं जीवनं भगुरं ज्ञात्वा अपि अहं जीविकाहेतोः घटान् रचयामि।

कठिन-शब्दार्थ-घटरचनायाम् = घड़े बनाने में । लीनः = संलग्न। मृत्तिकाघटः = मिट्टी का घड़ा। भगुरम् = टूटकर समाप्त होने वाला। जीविकाहेतोः = आजीविका के लिए। रचयामि = निर्माण करता हूँ।

हिन्दी-अनुवाद

चतुर्थ दृश्य

कुम्भकार – (घड़ा बनाने में संलग्न हुआ गाता है)

जिस प्रकार यह घड़ा टूटकर नष्ट होने वाला है, उसी प्रकार सभी का जीवन नष्ट होने वाला है,

यह जानकर भी मैं आजीविका के लिए घड़ों का निर्माण करता हूँ।

सप्रसङ्गसंस्कृत-व्याख्या

श्लोकस्य अन्वयः- यथा एष मृत्तिकाघटः (तथा) सर्वं जीवनं भङ्गुरं ज्ञात्वा अपि अहं घटान् रचयामि।

प्रसङ्ग:-प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् कुम्भकारः घटनिर्माणं कुर्वन् गायति

कपाटील की।

संस्कृत-व्याख्या

चतुर्थं दृश्यम्

कुम्भकारः – (कुम्भनिर्माणे संलग्नः गानं करोति)

येन प्रकारेण अयं मृत्तिकायाः कुम्भः वर्तते, तथैव सकलं जीवनं क्षणिकं विनाशशीलं वा विज्ञाय अपि अहं = कुम्भकारः कुम्भानां निर्माणं करोमि। अर्थात् जीवनं नश्वरं वर्तते तथैव मृत्तिकाघटोऽपि

नश्वरः।

व्याकरणात्मक-टिप्पणी

  1. ज्ञात्वा-ज्ञा + क्त्वा ।
  2. यथैषः-यथा + एषः, वृद्धि सन्धि।
  3. मृत्तिकाघट:-मृत्तिकायाः घटः इति, ष. तत्पुरुष समास। मायोकाशित

(7)

चन्दनःश – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?

देवेशः कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि।

चन्दनः – साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।।

देवेशः क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि।

मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनेव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।

देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।

उभौ – धन्योऽसि तात! धन्योऽसि।

कठिन-शब्दार्थ-

पञ्चदश = पन्द्रह (15)। विक्रयणाय = बेचने के लिए। देहि = दीजिए (यच्छ)। विक्रीय = बेचकर। (विक्रयं कृत्वा)। स्वाभूषणम् = अपना आभूषण। नेच्छामि = नहीं चाहता हूँ (न इच्छामि)। (i)

हिन्दी-अनुवाद

चन्दन – नमस्कार करता हूँ तात! मैं पन्द्रह घड़े चाहता हूँ। क्या दोगे?

देवेश – क्यों नहीं? ये (घड़े) बेचने के लिए ही हैं। घड़ों को लीजिए और पाँच सौ रुपये दीजिए। चन्दन – उचित है। परन्तु मूल्य तो दूध बेचकर ही दिया जा सकता है।

देवेश – क्षमा कीजिए पुत्र ! मूल्य के बिना तो एक घड़ा भी नहीं दूंगा।

मल्लिका – (अपना आभूषण देना चाहती है) तात! यदि अभी मूल्य देना आवश्यक है तो यह आभूषण

ग्रहण कीजिए।

देवेश – पुत्री! मैं पाप कर्म नहीं करता हूँ। मैं किसी भी प्रकार से तुमको आभूषणों से रहित नहीं करना

चाहता हूँ। अपनी इच्छानुसार घड़े ले जाओ। दूध बेचकर ही मूल्य दे देना।

दोनों – धन्य हो तात | धन्य हो |

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः-प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः दुग्धार्थं घटान् क्रेतुं कुम्भकारस्य देवेशस्य गृहं गत्वा तद्विषये तत्र तयोः यत् वार्तालापं भवति तस्य वर्णनमस्ति

संस्कृत-व्याख्या

चन्दनः – तात! अहं नमामि। पञ्चदश (15) कुम्भान् केतुम् वाञ्छामि । किं भवान् घटान् दास्यति?

देवेशः – किमर्थं नहि दास्यामि? इमे घटाः विक्रेतुमेव सन्ति । कुम्भान् नय। पञ्चशतोत्तररूप्यकाणि (500

रूप्यकाणि) च भवान् मह्यम् ददातु।

चन्दनः – समीचीनम्। किन्तु घटानां मूल्यं तु पयसः विक्रयं कृत्वा एव दातुं शक्नोमि।

देवेशः – क्षमां कुरु सुत! घटानां मूल्यदानं विना तु एकमपि कुम्भं नहि दास्यामि।

मल्लिका – (चन्दनस्य पत्नी स्वस्य आभूषणं मूल्यरूपेण दानाय वाञ्छति) तात! चेत् सम्प्रति एव घटमूल्यं दानस्य अनिवार्यता वर्तते तर्हि इदम् आभूषणं गृहाण। पर )

देवेशः – हे पुत्रि! अहं पापकार्यं नहि करोमि। भवतीम् भूषणहीनां विधातुम् अहं केनापि प्रकारेण नहि

वाञ्छामि। यथाऽभिलषितान् कुम्भान् नयतु । पयसः विक्रयं कृत्वा एव कुम्भानां मूल्यं यच्छतु ।

उभौ – हे तात! भवान् धन्योऽस्ति। धन्यवादा)ऽस्ति।

व्याकरणात्मक-टिप्पणी

  1. नमस्करोमि-नमः + करोमि, विसर्ग (सत्व) सन्धि। कोही
  2. विक्रीय-वि + क्री + ल्यप्।
  3. अधुनैव-अधुना + एव, वृद्धि सन्धि
  4. नाहम्-न + अहम्, दीर्घ सन्धि ।
  5. नेच्छामि-न + इच्छामि, गुण सन्धि
  6. कर्तुम्-कृ + तुमुन्।

(8)

(पञ्चमं दृश्यम्)

(मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च

ग्रामवासिनः अपरत्र आसीनाः)

चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ।

मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्।

चन्दनः (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति) सिक (नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति.) हा! हतोऽस्मि । (चीत्कारं कुर्वन् पतति )(सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति)

कठिन-शब्दार्थ-

मासानन्तरम् = एक महीने के बाद। दुग्धक्रेतारः = दूध खरीदने वाले । अपरत्र = दूसरी ओर। आसीनाः = बैठे हए हैं। प्रणम्य = प्रणाम करके (प्रणामं कृत्वा)। विधाय = करके। आह्वयति = बुलाता है। सत्वरम् = शीघ्र (शीघ्रम्)। आयामि = आती हूँ (आगच्छामि)। आरभस्व = आरम्भ करो। पष्ठपादेन = पीछे के पैर से। रक्तरञ्जितम् = खून से सना (शोणिताप्लावितम्)। अन्योन्यम् = आपस में (परस्परम्)। ।

हिन्दी-अनुवाद

पञ्चम दृश्य

(एक महीने के बाद सायंकाल (का दृश्य)। एक ओर खाली नये घड़े हैं, और दूसरी ओर दूध खरीदने वाले अन्य ग्रामवासी बैठे हुए हैं।)

चन्दन – (गाय को प्रणाम करके, मंगलाचरण करके, मल्लिका को बुलाता है।) मल्लिका! शीघ्र आओ।

मल्लिका – आ रही हूँ स्वामी ! तब तक दूध का दोहन प्रारम्भ करो।

चन्दन – (जब गाय के पास जाकर दूध दुहना चाहता है, तब गाय पीछे के पैर से प्रहार करती है और

चन्दन पात्र (बर्तन) के साथ ही गिर जाता है।) नन्दिनी ! दूध दीजिए। तुमको क्या हो गया है? (फिर से प्रयास करता है) हाय! मारा गया हूँ। (चीत्कार करता हुआ गिर जाता है) (सभी आश्चर्य से चन्दन को और आपस में देखते हैं।)

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः-

प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः यदा मासान्ते धेनोः वारम्वारं दुग्धदोहनं कर्तुमिच्छति, तदा सा धेनुः पुनः पुनः पादप्रहारेण ताडयित्वा तं रक्तरञ्जितं करोतीति वर्णितम्।

संस्कृत-व्याख्या-

पञ्चमं दृश्यम्

(मासस्यानन्तरं सायंकालः। एकतः रिक्ताः = शून्याः नवीनकुम्भाः स्थापिताः सन्ति। अपरत: पयस: क्रेतारः अपरे च ग्राम्यजनाः तिष्ठन्ति।)

चन्दनः – (धेनवे प्रणामं कृत्वा, मङ्गलकामनां च कृत्वा स्वपत्नी मल्लिकाम् आकारयति) हे मल्लिके!

शीघ्रम् आयातु।

मल्लिका- आगच्छामि स्वामिन् ! तावत् कालं दुग्धदोहनस्य आरम्भं करोतु ।

चन्दनः – (यदा चन्दनः गौः निकटं यात्वा दुग्धदोहनं कर्तुम् वाञ्छति, तदा गौः पृष्ठचरणेन प्रहारं करोति ।

चन्दनश्च भाजनेन साकं पतति) हे नन्दिनि! पयः यच्छ । भवत्याः किम् अभवत्? (भूयः प्रयत्न विदधाति) (नन्दिनी धेनुः च वारम्वारं चरणप्रहारेण ताडनं कृत्वा चन्दनं शोणिताप्लावितं विदधाति) हाय! मृतोऽस्मि । (चीत्कारं विदधन् पतति) (सर्वेजनाः विस्मयेन चन्दनं परस्परं च अवलोकयन्ति)

व्याकरणात्मक-टिप्पणी

  1. मासानन्तरम्-मास + अनन्तरम्, दीर्घ सन्धि ।
  2. प्रणम्य-प्र + नम् + ल्यप् ।
  3. विधाय-वि + धा + ल्यप्।
  4. गत्वा-गम् + क्त्वा।
  5. ताडयित्वा-ताड़ + क्त्वा।

(9)

मल्लिका – (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः?

चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।

( मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इतिअवगच्छति।) मल्लिका – (चन्दनं प्रति) नाथ! अत्यनुचितं कृतम् आवाभ्याम् यत्, मासपर्यन्तं धेनोः दोहनं

कृतम्। सा पीडाम् अनुभवति। अत एव ताडयति।

चन्दनः – देवि! मयापि ज्ञातं यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत् पूर्णमासपर्यन्तं दोहनं न कृतम्। अत एव दुग्धं शुष्कं जातम्। सत्यमेव उक्तम्

कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।

विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्॥

श्लोकान्वयः-यत् अद्यतनीयं कार्यं तत् अद्यैव विधीयताम्। यस्य गतिः विपरीते (अस्ति) सः ध्रुवं कष्टं लभते।

कठिन-शब्दार्थ-

श्रुत्वा = सुनकर (आकर्ण्य)। झटिति = शीघ्र (शीघ्रम्) । अनुमतिम् = आज्ञा/अनुमति (आज्ञाम्) । ताडयति = प्रताड़ित करती है। आकार्य = बुलाकर । प्रयतते = प्रयत्न करती है (प्रयत्नं करोति)। अवगच्छति = जानती है (जानाति) । अद्यतनीयम् = आज का। विधीयताम् = करना चाहिए (कर्त्तव्यम्) । ध्रुवम् = निश्चय ही (निश्चयेन)।

हिन्दी-अनुवाद

मल्लिका , – (चीत्कार सुनकर, शीघ्र प्रवेश करके) स्वामी! क्या हुआ? किस प्रकार तुम खून से सने हुए हो? चन्दन – गाय दूध दुहने की अनुमति ही नहीं दे रही है। दोहन कार्य प्रारम्भ करते ही मुझे प्रताड़ित

करती है।

(मल्लिका गाय को स्नेह और वात्सल्य से बुलाकर दूध दुहने का प्रयत्न करती है, किन्तु गाय दूध से रहित है ऐसा जानती है।)

मल्लिका – (चन्दन की ओर) स्वामी! हम दोनों ने अत्यन्त अनुचित किया है कि एक महीने के बाद गाय के दूध का दोहन किया है। वह पीड़ा का अनुभव कर रही है। इसीलिए प्रताड़ित कर रही है।

चन्दन – देवी ! मैंने भी जाना है कि हमारे द्वारा सर्वथा अनुचित ही किया गया है कि पूरे महीने दूध का

दोहन ही नहीं किया। इसीलिए दूध सूख गया है। सत्य ही कहा गया है जो आज का कार्य है, वह आज ही करना चाहिए। जिसकी गति विपरीत है वह निश्चय ही

कष्ट प्राप्त करता है।

सप्रसङ्गसंस्कृत-व्याख्या

श्लोकस्य अन्वयः-यत् अद्यतनीयं कार्यं तत् अद्यैव विधीयताम् । यस्य गतिः विपरीते (अस्ति) सः ध्रुवं कष्टं लभते।

. प्रसङ्गः-प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् मल्लिकायाः चन्दनस्य च धेनोः पीडायाः कारणं ज्ञात्वा स्वानुचितकार्यस्य पश्चात्तापूर्वकं वार्तालाप वर्तते

संस्कृत-व्याख्या

मल्लिका – (चन्दनस्य चीत्कारं आकर्ण्य शीघ्रं प्रवेशं कृत्वा) स्वामिन् ! किम् अभवत्? केन कारणेन भवान्

शोणितप्लावितः जातः?

चन्दनः – गौः दुग्धदोहनाय स्वीकृतिम् एव नहि यच्छति। दुग्धदोहनस्य कार्यस्य प्रारम्भे एव सा मां

पीडयति।

(मल्लिका गां प्रेम्णा वात्सल्यभावेन च आहूय दुग्धदोहनाय प्रयत्नं करोति। परन्तु गौः पयसः

रहिता एव वर्तते इति सा सम्यक् जानाति।)

मल्लिका- (चन्दनं प्रति) स्वामिन् ! आवाभ्याम् अत्यधिकम् अनुचितं कार्यं विधत्तम् यत् मासकालं यावत्

गो: दुग्धदोहनं नहि कृतम्। अनेन सा धेनुः कष्टस्य अनुभवं करोति । पीडाकारणादेव सा ताडनं

करोति।

चन्दनः- हे देवि! अहमपि अवगतवान् यत् अस्माभिः सर्वप्रकारेण अनुचितम् = अकृत्यं कार्यमेव

विधत्तम् यत् सम्पूर्णमासे दुग्धदोहनं न कृतवन्तः वयम् । अस्मादेव पयः शुष्कम् = नीरसम्

अभवत् । यथार्थमेव कथितम् यत् अद्यतनीयं (अद्य दिवसस्य) कार्यं वर्तते, तत् कार्यम् अद्य एव कर्त्तव्यम्। यः विपरीतं करोति अर्थाद् अद्यतनीयं कार्यम् अद्यैव न करोति, सः जनः निश्चयमेव पीडां प्राप्नोति। व्याकरणात्मक-टिप्पणी

  1. श्रुत्वा-श्रु + क्त्वा।
  2. प्रविश्य-प्र + विश् + ल्यप्।
  3. अत्यनचितम-अति + अनचितम. यण सन्धिमा
  4. मयापि-मया + अपि, दीर्घ सन्धि ।
  5. अद्यैव-अद्य + एव, वृद्धि सन्धि ।

(10)

मल्लिका – आम् भर्तः! सत्यमेव। मयापि पठितं यत

(i) सविचार्य विधातव्यं कार्य कल्याणकाङिक्षणा।

यः करोत्यविचार्यैतत् स विषीदति मानवः॥

किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्।

सर्वे – दिनस्य कार्यं तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्टं लभते ध्रुवम्।

(जवनिका पतनम्)

(सर्वे मिलित्वा गायन्ति।)

(ii) आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।

क्षिप्रमक्रियमाणस्य कालः पिबति तदसम्॥

श्लोकान्वयः-(i) कल्याणकाङ्क्षिणा कार्यं सुविचार्य (एव) विधातव्यम् । यः मानवः एतत् अविचार्य करोति सः

तिकीए गली विषीदति।

(ii) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तद्रसं कालः पिबति।

कठिन-शब्दार्थ-

कल्याणकाक्षिणा = कल्याण चाहने वाले के द्वारा (कल्याणेच्छुकेन)। विधातव्यम् = करना चाहिए (कर्त्तव्यम्) । विषीदति = दु:खी होता है (दुःखम् आप्नोति)। जवनिका = पर्दा (यवनिका)। क्षिप्रम् = शीघ्रता सें (द्रुतम्) । काल: = समय (समयः)।

हिन्दी-अनुवाद

मल्लिका – हाँ स्वामी ! सत्य ही है। मेरे द्वारा भी पढ़ा गया है कि

कल्याण चाहने वाले के द्वारा कार्य को अच्छी प्रकार से विचार करके ही करना चाहिए। जो मनुष्य यह बिना विचार किये करता है, वह दु:खी होता है।

किन्तु प्रत्यक्ष रूप से आज ही यह अनुभव किया है।

सभी – दिन का कार्य उसी दिन करना चाहिए। जो ऐसा नहीं करता है वह निश्चित रूप से कष्ट प्राप्त

करता है।

(पर्दा गिरता है)

(सभी मिलकर गाते हैं)

शीघ्रता से न करने योग्य, आदान, प्रदान और करने योग्य कर्म का महत्त्व समय नष्ट कर देता है। सप्रसङ्ग संस्कृत-व्याख्या

श्लोकस्य अन्वयः-(i) कल्याणकाङ्क्षिणा कार्य सुविचार्य (एव) विधातव्यम् । यः मानवः एतत् अविचार्य करोति सः विषीदति।

(ii) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः तद्रसं कालः पिबति।

प्रसङ्गः-

प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य पश्चात्तापमाध्यमेन प्रेरणा प्रदत्ता यत् सुविचार्य तथा अद्यतनीयं कार्यम् अद्यैव कार्यम्।

संस्कृत-व्याख्या

मल्लिका – आम् स्वामिन्! यथार्थमेव। मया = मल्लिकया अपि पठितं यत्

कल्याणेच्छुकेन सम्यक्तया चिन्तयित्वैव कर्म कर्त्तव्यम् । यः मनुष्यः इदं कार्यं विचारं न कृत्वा विदधाति, सः दुःखम् आप्नोति।

परन्तु इदं कथनं सम्मुखरूपेण अस्मिन् दिवसे एव अनुभवं कृतवती।

सर्व- वस्तुतः दिवसस्य कर्म तस्मिन् एव दिवसे विधातव्यम् । यः जनः एवं प्रकारेण कार्यं न करोति, सः निश्चितं पीड़ां प्राप्नोति।

(यवनिकापातः भवति)

(सर्वे जनाः सम्भूय गानं कुर्वन्ति।)

द्रुतम् अकरणीयस्य आदानस्य प्रकर्षेण दानस्य करणीयस्य च कार्यस्य तस्य रसं = फलं समयः पानं करोति ।

व्याकरणात्मक-टिप्पणी

  1. मयापि-मया + अपि, दीर्घ सन्धि।
  2. सुविचार्य-सु + वि + चर् + ल्यप्।।
  3. विशातल्यम – वि + धा+ तव्यत|

(iv) करोत्यविचार्यैतत् + करोति + विचार्य + एतत्, यण् एवं वृद्धि सन्धि।

  1. अनुभूतम्- अनु + भू + क्त।
  2. मिलित्वा- मिल् + क्त्वा। करन कारण

पाठ्यपुस्तक के प्रश्न

प्रश्न 1. एकपदेन उत्तरं लिखत- बीएल

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? माजाला

(ग) कुम्भकारः घटान् किमर्थं रचयति?

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?

उत्तराणि-(क) काशीविश्वनाथमन्दिरम् ।

(ख) त्रिशत-सेटकमितम् ।

(ग) जीविकाहेतोः।

(घ) मोदकानि।

(ङ) चन्दनः।

प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत

  1. मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?

उत्तरम्-मल्लिका चन्दनश्च मासपर्यन्तं धेनोः दुग्धदोहनं विहाय तस्याः सेवाम् अकुरुताम्। )

(ख) कालः कस्य रसं पिबति?

उत्तरम्-कालः क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः रसं पिबति। हारक

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?

उत्तरम्-घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः वदति यत् “पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम् । नयतु यथाभिलषितान् घटान् । दुग्धं विक्रीय एव घटमूल्यं ददातु।”

, (घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्? हो।

उत्तरम-मल्लिकया दृष्टम् यत् ताभ्यां मासपर्यन्तं धेनोः दोहनं न कृतम्, येन सा पीडाम् अनुभवति, अत एव सा ताडयति।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?

उत्तरम्-मासान्ते त्रिशत-सेटकपरिमितं दुग्धं प्राप्तुं तेन च विक्रीय धनिकः भवितुं चन्दनः मासपर्यन्तं धेनो: दोहनं न करोति।

प्रश्न 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) मल्लिका सखिभिः सह धर्मयात्रायै गच्छति स्म।

(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।

(घ) मल्लिका स्वपति चतुरतमं मन्यते ।

(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

उत्तरम्-प्रश्ननिर्माणम्

(क) मल्लिका काभि सह धर्मयात्रायै गच्छति स्म?

(ख) चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?

(ग) कानि पूजानिमित्तानि रचितानि आसन्?

(घ) मल्लिका स्वपतिं कीदृशं मन्यते?

(ङ) का पादाभ्यां ताडयित्वाचन्दनं रक्तरञ्जितं करोति?

प्रश्न 4. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत-

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः

यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति .विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी

……… कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ….. कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् . भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न . एतेन सिध्यति यत्

चन्दनः नारीस्वतन्त्रतायाः ………… आसीत्।

उत्तरम्-यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति धर्मयात्रायाः विषये जानाति तदा सः क्रोधितः न भवति यत् तस्याः पत्नी तं गृहव्यवस्थायै कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते मङ्गलकामनाम् कुर्वन् कथयति यत् तव मार्गाः शिवा: अर्थात् कल्याणकारिणः भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न उत्पादयेत्। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः समर्थकः आसीत् ।

प्रश्न 5. घटनाक्रमानुसारं लिखत

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति। ।

(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्या: पादप्रहारेण अवगच्छति।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति। वाम

(ज) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।

उत्तरम-घटनाकमानसारं वाक्यानि-

(क) मल्लिका पूजार्थं मोदकानि रचयति।

(ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति। मागा कार

(ङ) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।

(च) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।

(छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

प्रश्न 6. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत

उदाहरणम् कः/का कं/काम्

स्वामिन्! प्रत्यागता अहम् । आस्वादय प्रसादम्। मल्लिका चन्दनं प्रति

(क) धन्यवाद मातुल! याम्यधुना। ………….. ………….

(ख) त्रिसेटकमितं दुग्धम् । शोभनम् । व्यवस्था भविष्यति। …….. …………..

(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। …………….. …………

(घ) पुत्रिके! नाहं पापकर्म करोमि। ………………. ………….

(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। …………. ……………

उत्तरम्-

(क) उमा चन्दनं प्रति।

(ख) चन्दनः उमां प्रति।

(ग) चन्दनः देवेशं प्रति/कुम्भकारं प्रति।

(घ) देवेशः मल्लिका प्रति।

(ङ) चन्दनः मल्लिका प्रति।

प्रश्न 7. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिच्छेदं वा कुरुत

(क) शिवास्ते = …………… + ……………….

(ख) मनः हरः = ……………+ ………………..

(ग) सप्ताहान्ते = ………………+ ……………..

(घ) नेच्छामि = ………………+ …………….

(ङ) अत्युत्तमः = ……………….+………….

उत्तरम्-

(क) शिवाः + ते (ख) मनोहरः (ग) सप्ताह + अन्ते (घ) न + इच्छामि (ङ) अति + उत्तमः।

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत-

(क) करणीयम् = ……………+ ………………..

(ख) वि + क्री + ल्पय् = ……………………..

(ग) पठितम् = ………………+ …………..

(घ) ताडय् + क्त्वा = ………………………

(ङ) दोग्धुम् = …………+……………..

उत्तरम्-

(क) कृ + अनीयर् (ख) विक्रीय (ग) पठ् + क्त (घ) ताडयित्वा (ङ) दुह् + तुमुन्।

तृतीयः पाठः गोदोहनम्