Chapter 1 वेदामृतम्

Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरत। 
(क) सङ्गच्छध्वम्’ इति मन्त्रः कस्मात् वेदात् संकलितः? 
उत्तरम् : 
‘सङ्गच्छध्वम्’ इति मन्त्रः ऋग्वेदात् संकलितः। 

(ख) अस्माकम् आकूतिः कीदृशी स्यात्? 
उत्तरम् : 
अस्माकम् आकूतिः समानी स्यात्। 

(ग) अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने कः शब्दः प्रयुक्तः? 
उत्तरम् : 
अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने ऋतायते शब्दः प्रयुक्तः।

(घ) अस्मभ्यम्’ इति कस्य शब्दस्य अर्थः? 
उत्तरम् : 
‘अस्मभ्यम्’ इति ‘नः’ शब्दस्य अर्थः। 

(ङ) ज्योतिषां ज्योतिः कः कथ्यते? 
उत्तरम् : 
ज्योतिषां ज्योतिः मनः कथ्यते। 

(च) माध्वीः का सन्तु? 
उत्तरम् : 
माध्वीः ओषधयः सन्तु। 

(छ) पृथिवीसूक्तम्’ कस्मिन् वेदे विद्यते? 
उत्तरम् : 
‘पृथिवीसूक्तम्’ अथर्ववेदे विद्यते। 

प्रश्न: 2.
अधोलिखित क्रियापदैः सह कर्तृपदानि योजयत 
(क) ………….. सञ्जानानाः उपासते। 
उत्तरम् : 
देवाः सञ्जानानाः उपासते। 

(ख) ……… मधु क्षरन्ति। 
उत्तरम् : 
सिन्धवः मधु क्षरन्ति। 

(ग) मे…..”शिवसंकल्पम् अस्तु। 
उत्तरम् : 
मे मनः शिवसंकल्पम् अस्तु। 

(घ) …….. शतं शरदः शृणुयाम। 
उत्तरम् : 
वयम् शतं शरदः शृणुयाम। 

प्रश्नः 3. 
शुद्धं विलोमपदं योजयत – 

उत्तरम् :  

प्रश्न: 4. 
अधोलिखितपदानां आशयं हिन्दी-भाषया स्पष्टीकुरुत – 
उपासते, सिन्धवः, सवितः, जाग्रतः, पश्येम। 
उत्तरम् :  
पद – आशय 

प्रश्न 5. 
(क) वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपम् पञ्चवाक्येषु चित्रयत। 
उत्तरम् : 

  1. वेदे सहगमनस्य, समानवाण्याः, समानचिन्तनस्य च अद्वितीयः आदर्शः प्रस्तुतः। 
  2. समाजे सर्वत्र माधुर्यपूर्ण वातावरणं आसीत्। 
  3. वेदकालीन समाजे सर्वे जनाः सुखिनः आसन्। 
  4. अतः ते शतं शरदः वीक्षणस्य, श्रवणस्य, वचनस्य जीवनस्य च प्रार्थनां कुर्वन्ति। 
  5. सर्वे जनाः मनसः शिवसंकल्पं वाञ्छन्ति। 

(ख) मनसः किं वैशिष्ट्यम्? 
उत्तरम् : 
मनसः इदं वैशिष्ट्यम् यत् तत् जागरणकाले, शयनकाले चापि दूरम् उदैति। तदेव ज्योतिषाम् दूरम् गमम् एकं ज्योतिः वर्तते। 

प्रश्नः 6. 
पश्येम, शृणुयाम, प्रब्रवाम इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि? 
उत्तरम् : 
‘पश्येम’ इति नेत्रेण, ‘शृणुयाम’ इति श्रोत्रेण कर्णेन वा, ‘प्रब्रवाम’ इति मुखेन सम्बद्धानि सन्ति। 

प्रश्नः 7. 
अधोलिखित वैदिकक्रियापदानां स्थाने लौकिक क्रियापदानि लिखत – 
असति, उच्चरत्, दुहाम्। 
उत्तरम् :  

Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् – 

प्रश्न 1. 
वेदाः कति सन्ति? 
उत्तरम् : 
वेदाः चत्वारः सन्ति। 

प्रश्न: 2. 
प्राचीनतमः वेदः कः? 
उत्तरम् : 
प्राचीनतमः वेदः ऋग्वेदः अस्ति। 

प्रश्न: 3. 
‘यजाग्रतो दूरमुदति देवं’ मन्त्रः कस्मात् वेदात् संकलितः? 
उत्तरम् : 
अयं मन्त्रः यजुर्वेदात् संकलितः। 

प्रश्न: 4. 
मे मनः कीदृशः भवतु? 
उत्तरम् : 
मे मनः शिवसङ्कल्पमस्तु। 

प्रश्नः 5. 
अस्माकम् हृदयानि कीदृशानि स्युः? 
उत्तरम् : 
अस्माकम् हृदयानि समाना स्युः। 

प्रश्नः 6. 
सिन्धवः किं क्षरन्ति? 
उत्तरम् : 
सिन्धवः मधु क्षरन्ति। 

प्रश्न: 7. 
वयं कति शरदः जीवेम?
उत्तरम् : 
वयं शरदः शतं जीवेम। 

प्रश्नः 8. 
ऋग्वेदः मूलतः किं कथ्यते? 
उत्तरम् :
ऋग्वेदः मूलतः ज्ञानकाण्डं कथ्यते।। 

प्रश्न: 9. 
वयं कति शरदः अदीनाः स्याम? 
उत्तरम् : 
वयं शरदः शतं अदीनाः स्याम। 

प्रश्न: 10. 
द्रविणस्य कति धारा मे दुहाम्?
उत्तरम् : 
द्रविणस्य सहस्रधारा मे दुहाम्। 

प्रश्न: 11. 
पुरस्तात् किं उच्चरत्? 
उत्तरम् : 
पुरस्तात् देवहितं शुक्रं चक्षुः उच्चरत्। 

प्रश्न: 12. 
पूर्वे के सञ्जानाना भागं उपासते? 
उत्तरम् : 
पूर्वे देवाः सञ्जानाना भागं उपासते।

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00