Chapter 2 ऋतुचित्रणम्

Textbook Questions and Answers

प्रश्न: 1.
संस्कृतेन उत्तरं दीयताम् – 
(क) अयं पाठः कस्मात् ग्रन्थात् संकलितः? 
उत्तरम् : 
अयं पाठः महर्षिः वाल्मीके: रामायणात् संकलितः।

(ख) वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति? 
उत्तरम् : 
वसन्ते समन्ततः गिरिशिखराणि पुष्पभारसमृद्धानि भवन्ति। 

(ग) मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते? 
उत्तरम् : 
मारुतः पतितैः पतमानैश्च पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते। 

(घ) प्रकीर्णाम्बुधरं नभः कथं विभाति? 
उत्तरम् : 
प्रकीर्णाम्बुधरं नभः क्वचित् प्रकाशं क्वचिद प्रकाशं विभाति। 

(ङ) कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति? 
उत्तरम् :
सलिलातिभारं समुद्वहन्तः वारिधराः प्रयान्ति। 

(च) वर्षौं मत्तगजाः किं कुर्वन्ति?
उत्तरम् : 
वर्षों मत्तगजाः नदन्ति। 

(छ) शरदृतौ चन्द्रः कीदृशो भवति? 
उत्तरम् :
शरदृतौ चन्द्रः विमल: भवति। 

(ज) कानि पूरयित्वा तोयधराः प्रयाताः? 
उत्तरम् : 
नदी: तटाकानि च पूरयित्वा तोयधराः प्रयाताः। 

(झ) अस्मिन् पाठे ‘तोयधराः’ इत्यस्य के के पर्यायाः प्रयुक्ताः? 
उत्तरम् : 
अस्मिन् पाठे ‘तोयधराः’ इत्यस्य अंबुधराः, वारिधराः, घनाः च एते पर्यायाः प्रयुक्ताः।

(ञ) कीदृशः आदर्शः न प्रकाशते? 
उत्तरम् : 
निःश्वासान्धः आदर्श: न प्रकाशते। 

(ट) शिशिरौ सरितः कैः भान्ति? 
उत्तरम् : 
शिशिरौ सरितः हिमाद्रबालुकास्तीरैः भान्ति। 

प्रश्नः 2. 
रिक्तस्थानानि पुरयत – 
(क) समन्ततः ………….. शिखराणि सन्ति। 
उत्तरम् :
समन्ततः पुष्यभारसमृद्धानि शिखराणि सन्ति।

(ख) नभः ………………….”विभाति। 
उत्तरम् : 
नभः प्रकीर्णाम्बुधरम् विभाति। 

(ग) वारिधराः महीधराणां शृङ्गेषु. प्रयान्ति। 
उत्तरम् : 
वारिधराः महीधराणां शृङ्गेषु विश्रम्य पुनः प्रयान्ति।

(घ) तोयधरा:……….प्रयाताः। 
उत्तरम् : 
तोयधराः नभः त्यक्त्वा प्रयाताः।

(ङ) नि:श्वासान्धः आदर्श इव ………………….. ‘न प्रकाशते। 
उत्तरम् : 
निःश्वासान्धः आदर्श इव चन्द्रमा न प्रकाशते। 

प्रश्न: 3. 
अधोलिखितानां सप्रसङ्ग व्याख्या कार्या – 
(क) मारुतः कुसुमैः पश्य सौमित्रे ! क्रीडन्निव समन्ततः। 
अन्वयः – श्लोकांशोऽयं अस्माकं पाठ्यपुस्तकस्य ‘ऋतुचित्रणम्’ इति पाठात् उद्धृतः। मूलतः एषः पाठः वाल्मीकि विरचितात् रामायण महाकाव्यात् संकलितोऽस्ति। अस्यां पंक्तौ सीता वियुक्तः श्रीरामः लक्ष्मणं वसन्तऋतोः दृश्यं वर्णयन् कथयति 

व्याख्या – सौमित्रे! = हे सुमित्रानन्दन! पश्य = इत:वीक्ष मारुतः = अयं वायुः, समन्ततः = सर्वतः, कुसुमैः = पुष्पैः सह, क्रीडन् इव = क्रीडति यथा प्रतीयते। इदं दृश्य इत्थं शोभते यत् पवनः पुष्पैः सार्द्ध क्रीडतीव। 

(हे लक्ष्मण! इधर देखो, यह वायु सभी ओर से फूलों के साथ जैसे खेल रही है, ऐसा प्रतीत होता है। यह दृश्य ऐसा सुशोभित हो रहा है कि हवा पुष्पों के साथ मानो खेल खेल रही है।) 
विशेषः – क्रीडन्निव-इत्यत्र उपमाऽलंकारः। 

(ख) निःश्वासान्धः इवादर्शश्चन्द्रमा न प्रकाशते। 

अन्वयः – अयं श्लोकांशः अस्माकं पाठ्यपुस्तकस्य ‘ऋतुचित्रणम्’ इति पाठात् उद्धृतः। अस्यां पंक्तौ गोदावरी रीति नद्यास्तरे पञ्चवट्यां रामानुजः लक्ष्मणः स्वाग्रज हेमन्त ऋतोः वर्णनं करोति –

व्याख्या – नि:श्वासान्धः दीर्घ निःश्वासेन, अन्धः = मलिनः, आदर्श इव = दर्पणवत्, चन्द्रमा = शशिः, न प्रकाशते = न शोभते। भावोऽयं यत् यथा दीर्घ निःश्वासेन निसतेन वाष्पेण अन्धः मलिनः दर्पणः न शोभते तथैव शशिः अपि सूर्येण आक्रान्तः हिमकणैः च मलिनः न शोभते। 

(दीर्घ निःश्वास से मलीन दर्पण के समान चन्द्रमा सुशोभित नहीं हो रहा है। भाव यह है कि जैसे लम्बी साँस से निकली हुई भाप से अन्धा (मलिन) हुआ दर्पण शोभा नहीं देता, उसी प्रकार सूर्य द्वारा आक्रान्त हुआ तथा हिमकणों से मलिन हुआ चन्द्रमा शोभा नहीं देता।)। 

प्रश्न: 4. 
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत – 
कृ + क्त्वा (त्वा), क्रीड्+शतृ, गन्ध+मतुप्, सम्+नि+रुध् क्त। 
उत्तरम् : 
कृ + क्त्वा = कृत्वा। भोजनं कृत्वा अहं आपणं गमिष्यामि। क्रीड् + शतृ = क्रीडन्। क्रीडन् बालकः अपतत्। गन्ध + मतुप् = गन्धवान्। गन्धवान् अयं काल: वसन्त मासः वर्तते। सम् + नि + रुध् + क्त = सन्निरुद्धम्। शान्तमहार्णवस्य इव पर्वत – सन्निरुद्धं रूपं शोभते। 

प्रश्नः 5. 
प्रकृतिप्रत्ययविभागः क्रियताम् – 
त्यक्त्वा, विश्रम्य, समुद्वहन्तः, पतमानः, हिमवान्। 
उत्तरम् : 

प्रश्नः 6. 
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचनां कुरुत – 
क्रीडन्, गन्धवान्, विश्रम्य, पूरयित्वा, नभः, नदन्तः, त्यक्त्वा, साम्प्रतम्, शिखिनः, प्रयाति। 
उत्तरम् : 

  1. पवनः पुष्पैः क्रीडन् अस्ति। 
  2. गन्धवान् वायुः वाति। 
  3. अत्र विश्रम्य अहं ग्रामं गमिष्यामि।
  4. तव मनोरथं पूरयित्वा सा गता। 
  5. अद्य नभः विमलं वर्तते। 
  6. नदन्तः मेघाः भयं जनयन्ति। 
  7. बालकः स्वजनकं त्यक्त्वा न गमिष्यति। 
  8. साम्प्रतम् अहं अध्ययनं करिष्यामि। 
  9. शिखिनः वर्षाकाले नृत्यन्ति। 
  10. रमा पाठशाला प्रयाति।

प्रश्नः 7. 
सन्धिं/सन्धिविच्छेदं वा कुरुत –
(क) सुख + अनिलः + अयम् = ………………..
(ख) प्रकीर्णाम्बुधरम् = ………….. + …………
(ग) क्रीडन् + इव = …………….
(घ) चन्द्रोऽपि = ……………… + ………….
(ङ) नि:श्वास + अन्धः = …………..
उत्तरम् : 
(क) सुखानिलोऽयम्। 
(ख) प्रकीर्ण + अम्बुधरम्।
(ग) क्रीडन्निव। 
(घ) चन्द्रः + अपि। 
(ङ) निःश्वासान्धः। 

प्रश्न: 8. 
अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत – 
(क) प्लवङ्गाः – नदन्ति 
(ख) वनान्ताः – समाश्वसन्ति 
(ग) शिखिनः – भान्ति 
(घ) नद्यः – ध्यायन्ति 
(ङ) मत्तगजाः – वर्षन्ति 
(च) प्रियाविहीनाः – नृत्यन्ति 
(छ) घनाः – वहन्ति। 
उत्तरम् : 
(क) प्लवङ्गाः – समाश्वसन्ति 
(ख) वनान्ताः – भान्ति 
(ग) शिखिनः – नृत्यन्ति 
(घ) नद्यः – वहन्ति 
(ङ) मत्तगजाः – नदन्ति 
(च) प्रियाविहीनाः – ध्यायन्ति 
(छ) घनाः – वर्षन्ति।

प्रश्नः 9.
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत – 
(क) समुद्वहन्तः सलिलातिभारं ………. प्रयान्ति। 
(ख) हंसो यथा ………… तथाम्बरस्थः। 
उत्तरम् : 
(क) उत्तर के लिए पाठ के पाँचवें श्लोक का अन्वय देखिये। 
(ख) उत्तर के लिए पाठ के ग्यारहवें श्लोक का अन्वय देखिये। 

प्रश्नः 10. 
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत – 
(क) पतितैः पतमानैश्च ………. क्रीडन्निव समन्ततः। 
(ख) वहन्ति वर्षन्ति …………. प्लवङ्गाः। 
(ग) रविसङ्क्रान्तः सौभाग्य: …………… चन्द्रमा न प्रकाशते। 
उत्तरम् : 
(क) ‘प वर्ण’ की आवृत्ति होने से इस श्लोक में अनुप्रास अलंकार है। ‘क्रीडन्निव’ में उत्प्रेक्षा अलंकार 
(ख) इस श्लोक में अनुप्रास तथा यथासंख्य अलंकार हैं। 
(ग) इस श्लोक में उपमा तथा अनुप्रास अलंकार हैं। 

प्रश्नः 11. 
अधोलिखित श्लोकेषु छन्दो निर्देशः कार्य: – 
(क) क्वचित्प्रकाशम् ……… शान्तमहार्णवस्य। 
(ख) हंसो यथा ……………. तथाम्बरस्थः। 
(ग) रविसङ्क्रान्त सौभाग्य: …………… न प्रकाशते। 
उत्तरम् : 
(क) इस श्लोक में ‘उपजाति’ छन्द है।
(ख) इस श्लोक में ‘इन्द्रवज्रा’ छन्द है। 
(ग) इस श्लोक में ‘अनुष्टुप् छन्द है।

Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् –

प्रश्न: 1. 
रामायणस्य रचयिता कः? 
उत्तरम् :
रामायणस्य रचयिता वाल्मीकिः अस्ति। 

प्रश्न: 2. 
संस्कृत साहित्यस्य आदि महाकाव्यं किं मन्यते? 
उत्तरम् : 
संस्कृत साहित्यस्य आदि महाकाव्यं रामायणं मन्यते। 

प्रश्न: 3. 
रामायणे प्रकृतिचित्रणं कीदृशं वर्तते? 
उत्तरम् : 
रामायणे प्रकृतिचित्रणं अतिमनोरम हृदयाकर्षकं चास्ति। 

प्रश्न: 4. 
प्रचुरमन्मथः को मास:? 
उत्तरम् : 
प्रचुरमन्मथः वसन्तमासः अस्ति। 

प्रश्नः 5. 
महीधराणाम् महत्सु शृङ्गेषु विश्रम्य विश्रम्य के प्रयान्ति? 
उत्तरम् :
वारिधराः महीधराणां महत्सु शृङ्गेषु विश्रम्य पुनः प्रयान्ति।

प्रश्नः 6. 
वर्षौ प्रियाविहीनाः किं कुर्वन्ति? 
उत्तरम् : 
वर्षौ प्रियाविहीनाः ध्यायन्ति।

प्रश्नः 7. 
कं परिपोषयित्वा तोयधराः प्रयाता? 
उत्तरम् : 
लोकं सुवृष्ट्या परिपोषयित्वा तोयधराः प्रयाताः। 

प्रश्नः 8. 
चन्द्रोदयस्य मनोहारी वर्णनं कस्मिन् श्लोके कृतम्? 
उत्तरम् :
चन्द्रोदयस्य मनोहारी वर्णनं एकादश श्लोके कृतम्। 

प्रश्न: 9. 
साम्प्रतम् सरितो कथं कैः भान्ति? 
उत्तरम् : 
साम्प्रतम् हिमाबालुकास्तीरैः सरितो भान्ति। 

प्रश्न: 10. 
सिंहो कथं राजते? 
उत्तरम् :
सिंहो मन्दरकन्दरस्य: राजते। 

प्रश्न: 11.
कविषु आदिकविः कः कथ्यते? 
उत्तरम् : 
कविषु आदिकविः वाल्मीकिः कथ्यते। 

प्रश्न: 12. 
वीरो कथं राजते? 
उत्तरम् : 
वीरो गर्वितकुञ्जरस्थः राजते। 

योग्यता विस्तार पर आधारित प्रश्न –

प्रश्नः 1. 
महाकवि कालिदासेन कस्मिन् काव्ये षड् ऋतूनां वर्णनं कृतम्? 
उत्तरम् : 
महाकवि कालिदासेन ‘ऋतुसंहार’ काव्ये षण्णाम् ऋतूनां वर्णनं कृतम्। 

प्रश्नः 2. 
षण्णाम् ऋतूनां क्रमेण नामानि लिखत? 
उत्तरम् : 
ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिर-वसन्ताश्च इमे षड् ऋतवः सन्ति। 

प्रश्न: 3. 
कस्मिन् ऋतौ सूर्यः प्रचण्डः जायते? 
उत्तरम् : 
ग्रीष्म ऋतौ सूर्यः प्रचण्डः जायते। 

प्रश्नः 4.
कास्मन् ऋता शालिः परिपक्व भवति? 
उत्तरम् : 
हेमन्त ऋतौ शालिः परिपक्व भवति। 

प्रश्नः 5. 
कस्मिन् ऋतौ सर्वं चारुतरं प्रतीयते? 
उत्तरम् : 
वसन्तौ सर्वं चारुतरं प्रतीयते।

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00