Chapter 3 गोदोहनम्

पाठ-परिचय – यह नाट्यांश कृष्णचन्द्र त्रिपाठी महोदय द्वारा रचित ‘चतुर्म्यहम्’ नामक पुस्तक से संक्षिप्त करके और सम्पादित करके उद्धृत किया गया है। इस नाटक में एक ऐसे व्यक्ति का कथानक है जो धनवान् और सुखी बनने की इच्छा से अपनी गाय से एक महीने तक दूध निकालना बन्द कर देता है, जिससे महीने के अन्त में गाय के शरीर में एकत्रित हुए पर्याप्त दूध को एक बार में ही बेचकर धनवान् बन सके। 

परन्तु महीने के अन्त में जब वह गाय को दुहने का प्रयास करता है तब उसे दूध की एक बून्द भी प्राप्त नहीं होती है। एक साथ दूध के स्थान पर वह गाय के प्रहारों से रक्तरञ्जित हो जाता है, और वह समझ जाता है कि दैनिक कार्य को यदि महीनेभर तक इकट्ठा करके किया जाता है तो उससे लाभ के स्थान पर हानि ही होती है। 
अतः हमें सदैव अपने सभी कार्य यथासमय करने के लिए प्रयत्नशील रहना चाहिए। 

 1. (प्रथमं दृश्यम्) 
(मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति) 
(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।) 

चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति) 
मल्लिका – (सक्रोधम् ) विरम। विरम। मा स्पृश! एतानि मोदकानि। 
चन्दनः – किमर्थ क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां 
नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्? 
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति। 

कठिन-शब्दार्थ :

हिन्दी-अनुवाद :

(पहला दृश्य) (मल्लिका लड्डू बनाती हुई धीमी आवाज में भगवान् शिव की स्तुति कर रही है।) 
(उसके पश्चात् लड्डुओं की सुगन्ध का अनुभव करता हुआ प्रसन्नचित्त चन्दन प्रवेश करता है।) 

चन्दन – अरे! सुगन्ध तो मनमोहक है। (देखकर) अरे लड्डू बनाये जा रहे हैं? (प्रसन्न होकर) तब तो स्वाद लेता हूँ। (लड्डू को लेना चाहता है।) 
मल्लिका – (क्रोधपूर्वक) रुको। रुको। इन लड्डुओं को मत छुओ (स्पर्श करो)। 
चन्दन – किसलिए क्रोध कर रही हो? तुम्हारे हाथ से बनाये हुए लड्डुओं को देखकर मैं जीभ के लालच को नियन्त्रित करने में असहाय हूँ, क्या तुम यह नहीं जानती हो? 
मल्लिका – हे स्वामि! अच्छी तरह से जानती हूँ। परन्तु ये लड्डू पूजा के लिए हैं। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। मूलतः,पाठोऽयं ‘चतुर्दूहम्’ इति पुस्तकात् संकलितः। अंशेऽस्मिन् मल्लिकायाः चन्दनस्य च मोदकविषये वार्तालापं वर्तते –

संस्कृत-व्याख्या :

(प्रथमं दृश्यम्) (मल्लिका मोदकानां निर्माणं कुर्वन्ती निम्नस्वरेण भगवतः शिवस्य प्रार्थनां करोति) 
(तदनन्तरं मोदकानां गन्धस्य आस्वाद्येन प्रसन्नहृदयः चन्दनः प्रवेशं करोति।) 

चन्दनः – अहो! सुगन्धः तु आकर्षक: वर्तते, (दृष्ट्वा) अरे! अत्र तु मोदकानां निर्माणं प्रचलति? (हर्षितः भूत्वा) अत एव आस्वादनं करोमि। (मोदकं गृहणाय वाञ्छति) 
मल्लिका – (क्रोधसहितम्) तिष्ठ, तिष्ठ। ऐतेषां मोदकानां स्पर्श न कुरु। 
चन्दनः – केन कारणेन क्रोधं करोषि! भवत्याः हस्तनिर्मितानि मोदकानि अवलोक्य अहं रसनालोभं वशीकर्तुं 
समर्थो नास्मि, भवती एतत् जानाति एव। 
मल्लिका – पूर्णतया अवगच्छामि स्वामि! किन्तु इमानि मोदकानि पूजाकार्याय सन्ति। 

व्याकरणात्मक-टिप्पणी :

2. चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि। 
मल्लिका – भो! अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः। 
चन्दनः – सखिभिः सह! न मया सह! (विषादं नाटयति) 
मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय। 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

चन्दन – तब तो शीघ्र ही पूजन सम्पन्न करो। और प्रसाद दीजिए।
मल्लिका – अरे, इसमें पूजन नहीं होगा। मैं अपनी सहेलियों के साथ कल सुबह काशी-विश्वनाथ के मन्दिर जाऊँगी, वहाँ हम सब गङ्गा में स्नान और धार्मिक यात्रा करेंगी। 
चन्दन – सहेलियों के साथ! मेरे साथ नहीं! (दुःख प्रकट करता है)। 
मल्लिका – हाँ! चम्पा, गौरी, माया, मोहिनी, कपिला आदि सभी जा रही हैं। इसलिए मेरे साथ तुम्हारे आने का औचित्य नहीं है। हम सब एक सप्ताह के अन्त में लौट आयेंगी। तब तक घर की व्यवस्था और गाय के दूध दुहने की व्यवस्था का ठीक से पालन करना। 

सप्रसङ्गसस्कृत-व्याख्या 

प्रसंङ्ग: – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य मल्लिकायाश्च धर्मयात्राविषये वार्तालापं वर्तते। चन्दनः शीघ्र प्रसादं गृहीतुमिच्छति, मल्लिका स्वसखिभिः सह गङ्गास्नानं धर्मयात्राञ्च कर्तुं गच्छतीति वर्णितम्। 

संस्कृत-व्याख्या 

चन्दनः – तदा तु, त्वरितमेव पूजाकार्यं कुरु। मह्यम् प्रसादं (मोदकं) च यच्छ। 
मल्लिका – भो! अत्र पूजाकार्यं नहि भविष्यति। अहं स्वसखिभिः साकं श्वः प्रात:काले काशीविश्वनाथस्य देवालयं प्रति गमिष्यामि, तत्र काश्यां गङ्गानद्यां स्नानम् तथा तीर्थयात्राञ्च वयं करिष्यामः। 
चन्दनः – किं सखिभिः साकं गमिष्यसि, न तु मया साकम्? (दुःखं प्रकटयति) 
मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः नामधेयाः सर्वाः सख्यः यान्ति। अस्मात् मया साकं भवतः आगमनस्य औचित्यं न वर्तते। वयं सर्वाः सप्ताहानन्तरं ततः प्रत्यायास्यामः। तावत् कालं भवान् गृहकार्याणां व्यवस्थां, गोः पयदोहनस्य व्यवस्थां च करोतु। 

व्याकरणात्मक-टिप्पणी : 

(द्वितीयं दृश्यम्) 
चन्दनः। – अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।
चन्दनः – मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। (स्त्रीवेषं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति) 
उमा – मातुलानि! मातुलानि!
चन्दनः – उमे! अहं तु मातुलाः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय! किं ते प्रियं करवाणि? 
उमा – मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया। 
चन्दनः – (प्रसन्नमनसा) त्रिशत-सेटकपरिमितं दुग्धम्! शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्। 
उमा – धन्यवादः मातुल! याम्यधुना। (सा निर्गता) 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :
(दूसरा दृश्य) 

चन्दन – ठीक है। जाओ। और अपनी सहेलियों के साथ धार्मिक यात्रा से आनन्दित होओ। मैं सबकुछ कर लूँगा। तुम्हारा मार्ग कल्याणकारी होवे। 
चन्दन – मल्लिका तो धार्मिक यात्रा के लिए चली गई है। ठीक है। दूध-दोहन करके उसके बाद सुबह के नाश्ते का प्रबन्ध करूँगा। (स्त्री वेष को धारण करके व दूध का पात्र हाथ में लेकर नन्दिनी (गाय) के पास जाता है।) 
उमा – मामीजी! मामीजी! 
चन्दन – उमा ! मैं तो मामा हूँ। तुम्हारी मामी तो गङ्गा-स्नान के लिए काशी गई है। कहो! तुम्हारा क्या प्रिय (कार्य) करूँ? 
उमा – मामाजी! दादाजी कहते हैं कि एक महीने के बाद हमारे घर में एक बड़ा उत्सव होगा। उसमें तीन सौ लीटर दूध की आवश्यकता है। यह व्यवस्था आपके द्वारा की जानी है। 
चन्दन – (प्रसन्न मन से) तीन सौ लीटर दूध। सुन्दर है, दूध की व्यवस्था हो जायेगी, ऐसा दादाजी से तुम कह देना। 
उमा – धन्यवाद मामाजी! अब मैं जाती हूँ। (वह निकल जाती है।) 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसंङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य उमायाश्च दुग्धविषये वार्तालापमस्ति।

 
संस्कृत-व्याख्या 
(द्वितीयं दृश्यम्) 

चन्दनः – भवतु। यातु। सखिभिः साकं तीर्थयात्रया प्रसन्ना च भवतु। अहं गृहकार्य सम्पूर्ण सम्यक्तया करिष्यामि। तव मार्गाः कल्याणप्रदाः भवन्तु। 
चन्दनः – (मनसि विचारयति) मम पत्नी मल्लिका तु तीर्थयात्रायै निर्गता। भवतु। दुग्धस्य दोहनकार्य विधाय तदनन्तरं निजप्रातराशस्य व्यवस्थां विधास्यामि। (नारीवेषं धारणं कृत्वा, हस्ते दुग्धभाजनं गृहीत्वा नन्दिन्याः धेनोः समीपं याति।) 
उमा – मातुलानि! = मातुलस्य भार्या ! मातुलानि! 
चन्दनः – उमे! अहं तु मातुलः = मातुः भ्राता! ते मातुलानि तु गङ्गानद्यां स्नानाय काशीनगरी याता। वद! भवत्या किं प्रियकार्यं विधेयम्? 
उमा – मातुल ! = मातुः भ्रातः! पितामहः = पितुः पिता वदति यत् मासैकपश्चात् अस्माकं गृहे महान् उत्सवः भविष्यति। तस्मिन् उत्सवे त्रिशतलीटरमितं दुग्धं = पयः आवश्यकमस्ति। दुग्धस्य व्यवस्था भवद्भिः कर्त्तव्या। 
चन्दनः – (सहर्षम्) त्रिशतलीटरमितं (300 लीटर) पयः! सुन्दरम्। पयसः व्यवस्था भविष्यति एव, एवं स्व पितामहं (पितुः पितरं) भवत्या कथनीयम्। 
उमा – धन्यवादः मातुलः! सम्प्रति गच्छामि। (उमा निर्गच्छति) 

व्याकरणात्मक-टिप्पणी – 

4. (तृतीयं दृश्यम्) 

चन्दनः – (प्रसन्नो भूत्वा, अङ्गुलिषु गणयन्) अहो! सेटक-त्रिशतकानि पयांसि! अनेन तु बहुधनं लप्स्ये। (नन्दिनीं दृष्ट्वा) भो नन्दिनि! तव कृपया तु अहं धनिकः भविष्यामि। (प्रसन्नः सः धेनोः बहुसेवां करोति।) 
चन्दनः – (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि। 
(एवं क्रमेण सप्त दिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति।) 
मल्लिका – (प्रविश्य) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्। 
(चन्दनः मोदकानि खादति वदति च।) 
चन्दनः – मल्लिके! तव यात्रा तु सम्यक् सफला जाता? काशीविश्वनाथस्य कृपया प्रियं निवेदयामि। 
मल्लिका – (साश्चर्यम्) एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्? 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

(तीसरा दृश्य) 

चन्दन – (प्रसन्न होकर, अँगुलियों पर गिनता हुआ) अहा ! तीन सौ लीटर दूध ! इससे तो बहुत धन प्राप्त करूँगा। (नन्दिनी को देखकर) हे नन्दिनी! तुम्हारी कृपा से तो मैं धनवान हो जाऊँगा। (प्रसन्न हुआ वह गाय की बहुत सेवा करता है।) 
चन्दन – (विचार करता है) महीने के अन्त में ही दूध की आवश्यकता है। यदि प्रतिदिन दोहन (दूध निकालना) करता हूँ तो दूध सुरक्षित नहीं रहता है। अब क्या करूँ? ठीक है, महीने के अन्त में ही पूर्ण रूप से दूध का दोहन करता हूँ। (इस प्रकार क्रम से सात दिन बीत गये। एक सप्ताह के बाद मल्लिका लौट आती है।)
मल्लिका – (प्रवेश करके) स्वामी! मैं लौट आई। प्रसाद चखो (ग्रहण करो)। (चन्दन लड्डू खाता है और कहता है।) 
चन्दन – मल्लिका! तुम्हारी यात्रा तो अच्छी प्रकार से सफल हो गई? काशी विश्वनाथ की कृपा से प्रिय समाचार सुनाता हूँ।
मल्लिका – (हैरानी से) ऐसा है। धर्मयात्रा के अलावा और क्या प्रिय है? 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसंङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् तृतीयदृश्यस्य वर्णनमस्ति। अस्मिन् दृश्ये चन्दनः धनिकः भवितुं धेनोः दुग्धं मासान्ते एव सम्पूर्णतया दोहनं कर्तुमिच्छति। सप्ताहान्ते तस्य पत्नी मल्लिका प्रत्यागच्छति। तयोः वार्तालापं भवति। 

संस्कृत-व्याख्या – 

(तृतीयं दृश्यम्) 

चन्दनः – (हर्षितो भूत्वा, अङ्गुलिषु गणनां कृत्वा) आश्चर्यम् ! त्रिशतं (300) लीटरमितं दुग्धम् ! अनेन दुग्धविक्रयेणतु अत्यधिकं वित्तं प्राप्स्यामि। (नन्दिनीं धेनुम् अवलोक्य) हे नन्दिनि! भवत्याः कृपया तु अहं धनवान् भविष्यामि। (सः चन्दनः हर्षितो भूत्वा गो: अत्यधिक सेवां विदधाति ) 
चन्दनः – (विचारयति) मासस्यान्ते एव पयसः आवश्यकता अस्ति। चेत् प्रतिदिवसं दोहनं करोमि तदा तु पयः सुरक्षितं नहि भवति। सम्प्रति अहं किं करवाणि? साधु, तदा तु मया मासस्यान्ते एव सकलं पयोदोहनं क्रियते। (इत्थं क्रमेण सप्तदिवसाः निर्गताः। सप्तदिवसानन्तरं मल्लिका प्रत्यायाति) 
मल्लिका – (प्रवेशं कृत्वा) नाथ! प्रत्यायाता अहम्। प्रसादस्य आस्वादनं करोतु भवान्। (चन्दनः मोदकानि खादति कथयति च) 
चन्दनः – मल्लिके! भवदीया तीर्थयात्रा तु सम्यक्तया सफला अभवत्? काशीविश्वनाथस्य (शिवस्य) कृपया प्रियवृत्तान्तं कथयामि। 
मल्लिका – (आश्चर्यपूर्वकम्) इत्थम्। तीर्थयात्राभिन्नं किं प्रियतरं वृत्तान्तम्? 

व्याकरणात्मक-टिप्पणी 

5. चन्दनः – ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशत-सेटकमितं दुग्धम् अस्माभिः दातव्यम् अस्ति। 
मल्लिका – किन्तु एतावन्मानं दुग्धं कुतः प्राप्स्यामः। 
चन्दनः – विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः। 
मल्लिका – स्वामिन्! त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः। (द्वावेव धेनोः सेवायां निरतौ भवतः। अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः रात्रौ नीराजनेनापि तोषयतः) 
चन्दनः – मल्लिके! आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थ पात्रप्रबन्धोऽपि करणीयः। (द्वावेव निर्गतौ) 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

चन्दन – गाँव के मुखिया के घर महीने के अन्त में महोत्सव होगा। उसमें तीन सौ लीटर दूध हमारे द्वारा दिया जाना है। 
मल्लिका – किन्तु इतना दूध कहाँ से प्राप्त करेंगे? 
चन्दन – विचार करो मल्लिका! प्रतिदिन दूध का दोहन करके यदि एकत्रित करेंगे तो वह सुरक्षित नहीं रहेगा। इसलिए रोजाना दूध का दोहन नहीं करते हैं। उत्सव के दिन ही सम्पूर्ण दूध का दोहन करेंगे। 
मल्लिका – स्वामी! तुम तो सबसे अधिक चतुर हो। अति उत्तम विचार है। अब दूध का दोहन छोड़कर केवल नन्दिनी की सेवा ही करेंगे। इससे अधिक से अधिक दूध महीने के अन्त में प्राप्त करेंगे। (दोनों ही गाय की सेवा में संलग्न हो जाते हैं। इस क्रम में घास आदि और गुड़ आदि खिलाते हैं। कभी-कभी दोनों सींगों पर तेल का लेप करते हैं, तिलक धारण करते हैं और रात में प्रज्ज्वलित दीपक से अर्चना (प्रार्थना) करके उसे प्रसन्न करते हैं।) 
चन्दन – मल्लिका! आओ। कुम्हार के पास चलते हैं। दूध के लिए पात्रों का प्रबन्ध भी करना है। (दोनों निकल जाते हैं।) 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसंङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः त्रिशतसेटकमितं दुग्धं मासान्ते विक्रयं कृत्वा धनिको भवितुं च धेनोः प्रतिदिनं दुग्धदोहनं विहाय तस्याः सेवायां सपत्नीकः संलग्नो भवतीति वर्णितम्। अस्मिन् विषये चन्दनस्य मल्लिकायाश्च वार्तालापम् एवं भवति – 

संस्कृत-व्याख्या –

चन्दनः – ग्रामप्रमुखस्य आवासे मासस्यान्ते महान् उत्सवः भविष्यति। तस्मिन् उत्सवे त्रिशतलीटरमितं पयः अस्माभिः देयम् वर्तते। 
मल्लिका – परन्तु, एतावन्मानं पयः वयं कुत्रतः आनेष्यामः? 
चन्दनः – चिन्तय. मल्लिके! यदि वयं प्रतिदिवसं दुग्धदोहनं विधाय संग्रहं करिष्यामः, तदा तु तत् दुग्धं सुरक्षितं नहि भविष्यति। अस्मादेव पयोदोहनं नहि करिष्यावः। महोत्सवदिवसे एव सम्पूर्ण दुग्धदोहनं करिष्यावः। 
मल्लिका – स्वामिन्! भवान् तु चतुरतमः वर्तते। अतिश्रेष्ठः विचारः भवतः। इदानीं पयोदोहनं त्यक्त्वा केवलं नन्दिन्याः धेनोः आवां सेवां विधास्यायः। अनेन अत्यधिकं पयः मासस्यान्ते आवां प्राप्त करिष्यावः।
(चन्दनः मल्लिका च द्वावेव गोः सेवायां संलग्नौ भवतः। अस्मिन् सेवाक्रमे तौ तृणादिकं गुडादिकं च धेनुं भोजयतः। कदाचित् विषाणयोः = शृङ्गयोः (सींगों पर) स्नेहं (तैलं) लेपनं कुरुतः, तिलकं कुरुतः, निशायां च निराजनेन = मक्षिकादिदूरीकृत्येन, अपि प्रसन्नां कुरुतः।) 
चन्दनः – मल्लिके! आगच्छ। कुम्भकारं = घटनिर्मातारं प्रति गच्छावः। पयसे भाजनव्यवस्थाऽपि कर्त्तव्या। (द्वावेव निर्गच्छतः) 

व्याकरणात्मक-टिप्पणी – 

6. (चतुर्थं दृश्यम्) 
कुम्भकारः – (घटरचनायां लीनः गायति) 
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्। 
जीवनं भङ्गुरं सर्वं यथेष मृत्तिकाघटः॥ 
श्लोकान्वयः – यथा एष मृत्तिकाघटः (तथा) सर्वं जीवनं भगुरं ज्ञात्वा अपि अहं जीविकाहेतोः घटान् रचयामि।
 
कठिन-शब्दार्थ :

हिन्दी-अनुवाद :
(चतुर्थ दृश्य) कुम्भकार – (घड़ा बनाने में संलग्न हुआ गाता है) 

जिस प्रकार यह घड़ा टूटकर नष्ट होने वाला है, उसी प्रकार सभी का जीवन नष्ट होने वाला है, यह जानकर भी मैं आजीविका के लिए घड़ों का निर्माण करता हूँ। 

सप्रसङ्ग-संस्कृत-व्याख्या – 

श्लोकस्य अन्वयः – यथा एष मृत्तिकाघटः (तथा) सर्वं जीवनं भगुरं ज्ञात्वा अपि अहं घटान् रचयामि। 
प्रसङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् कुम्भकारः घटनिर्माणं कुर्वन् गायति – 

संस्कृत-व्याख्या – 
(चतुर्थं दृश्यम्) 
कुम्भकारः – (कुम्भनिर्माणे संलग्नः गानं करोति) 
येन प्रकारेण अयं मृत्तिकायाः कुम्भः वर्तते, तथैव सकलं जीवनं क्षणिकं विनाशशीलं वा विज्ञाय अपि अहं = कुम्भकारः कुम्भानां निर्माणं करोमि। अर्थात् जीवनं नश्वरं वर्तते तथैव मृत्तिकाघटोऽपि नश्वरः। 

व्याकरणात्मक-टिप्पणी-

7. चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि? 
देवेशः – कथं न? विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तर-रूप्यकाणि च देहि। 
चन्दनः – साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते। 
देवेशः – क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि। 
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनेव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्। 
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलवितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।। 
उभौ – धन्योऽसि तात! धन्योऽसि।

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

चन्दन – नमस्कार करता हूँ तात! मैं पन्द्रह घड़े चाहता हूँ। क्या दोगे? 
देवेश – क्यों नहीं? ये (घड़े) बेचने के लिए ही हैं। घड़ों को लीजिए और पाँच सौ रुपये दीजिए। 
चन्दन – उचित है। परन्तु मूल्य तो दूध बेचकर ही दिया जा सकता है। 
देवेश – क्षमा कीजिए पुत्र! मूल्य के बिना तो एक घड़ा भी नहीं दूंगा। 
मल्लिका – (अपना आभूषण देना चाहती है) तात! यदि अभी मूल्य देना आवश्यक है तो यह आभूषण ग्रहण कीजिए। 
‘देवेश – पुत्री! मैं पाप कर्म नहीं करता हूँ। मैं किसी भी प्रकार से तुमको आभूषणों से रहित नहीं करना चाहता हूँ। अपनी इच्छानुसार घड़े ले जाओ। दूध बेचकर ही मूल्य दे देना। दोनों – धन्य हो तात! धन्य हो। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्ग: – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः दुग्धार्थं घटान् क्रेतुं कुम्भकारस्य देवेशस्य गृहं गत्वा तद्विषये तत्र तयोः यत् वार्तालापं भवति तस्य वर्णनमस्ति – 

संस्कृत-व्याख्या – 

चन्दनः – तात! अहं नमामि। पञ्चदश (15) कुम्भान् क्रेतुम् वाञ्छामि। किं भवान् घटान् दास्यति? 
देवेशः – किमर्थं नहि दास्यामि? इमे घटाः विक्रेतुमेव सन्ति। कुम्भान् नय। पञ्चशतोत्तररूप्यकाणि (500 रूप्यकाणि) च भवान् मह्यम् ददातु। 
चन्दनः – समीचीनम्। किन्तु घटानां मूल्यं तु पयसः विक्रयं कृत्वा एव दातुं शक्नोमि। 
देवेशः – क्षमां कुरु सुत! घटानां मूल्यदानं विना तु एकमपि कुम्भं नहि दास्यामि। 
मल्लिका – (चन्दनस्य पत्नी स्वस्य आभूषणं मूल्यरूपेण दानाय वाञ्छति) तात! चेत् सम्प्रति एव घटमूल्यं दानस्य अनिवार्यता वर्तते तर्हि इदम् आभूषणं गृहाण। 
देवेशः – हे पुत्रि! अहं पापकार्यं नहि करोमि। भवतीम् भूषणहीनां विधातुम् अहं केनापि प्रकारेण नहि वाञ्छामि। यथाऽभिलषितान् कुम्भान् नयतु। पयसः विक्रयं कृत्वा एव कुम्भानां मूल्यं यच्छतु। 
उभौ – हे तात! भवान् धन्योऽस्ति। धन्यवादा)ऽस्ति। 

व्याकरणात्मक-टिप्पणी :

8. (पञ्चमं दृश्यम्) 
(मासानन्तरं सन्ध्याकालः। एकत्र रिक्ता: नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः) 
चन्दनः – (धेनुं प्रणम्य, मङ्गलाचरणं विधाय, मल्लिकाम् आह्वयति) मल्लिके! सत्वरम् आगच्छ। 
मल्लिका – आयामि नाथ! दोहनम् आरभस्व तावत्। 
चन्दनः – (यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति, तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति) नन्दिनि! दुग्धं देहि। किं जातं ते? (पुनः प्रयासं करोति) (नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञ्जितं करोति) हा! हतोऽस्मि। (चीत्कारं कुर्वन् पतति)(सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति) 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

(पञ्चम दृश्य) (एक महीने के बाद सायंकाल (का दृश्य)। एक ओर खाली नये घड़े हैं, और दूसरी ओर दूध खरीदने वाले अन्य ग्रामवासी बैठे हुए हैं।) 
चन्दन – (गाय को प्रणाम करके, मंगलाचरण करके, मल्लिका को बुलाता है।) मल्लिका! शीघ्र आओ। 
मल्लिका – आ रही हूँ स्वामी! तब तक दूध का दोहन प्रारम्भ करो। 
चन्दन – (जब गाय के पास जाकर दूध दुहना चाहता है, तब गाय पीछे के पैर से प्रहार करती है और चन्दन पात्र (बर्तन) के साथ ही गिर जाता है।) नन्दिनी! दूध दीजिए। तुमको क्या हो गया है? (फिर से प्रयास करता है) हाय! मारा गया हूँ। (चीत्कार करता हुआ गिर जाता है) (सभी आश्चर्य से चन्दन को और आपस में देखते हैं।) 

सप्रसङ्गसंस्कृत-व्याख्या – 

प्रसङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनः यदा मासान्ते धेनोः वारम्वारं दुग्धदोहनं कर्तुमिच्छति, तदा सा धेनुः पुनः पुनः पादप्रहारेण ताडयित्वा तं रक्तरञ्जितं करोतीति वर्णितम्। 

संस्कृत-व्याख्या – 
(पञ्चमं दृश्यम्) 
(मासस्यानन्तरं सायंकालः। एकतः रिक्ताः = शून्या: नवीनकुम्भाः स्थापिताः सन्ति। अपरतः पयसः क्रेतारः अपरे च ग्राम्यजनाः तिष्ठन्ति।)
चन्दनः – (धेनवे प्रणामं कृत्वा, मङ्गलकामनां च कृत्वा स्वपत्नी मल्लिकाम् आकारयति) हे मल्लिके! शीघ्रम् आयातु। 
मल्लिका – आगच्छामि स्वामिन् ! तावत् कालं दुग्धदोहनस्य आरम्भं करोतु। 
चन्दनः – (यदा चन्दनः गौः निकटं यात्वा दुग्धदोहनं कर्तुम् वाञ्छति, तदा गौः पृष्ठचरणेन प्रहारं करोति। चन्दनश्च भाजनेन साकं पतति) हे नन्दिनि! पयः यच्छ। भवत्याः किम् अभवत्? (भूयः प्रयत्न विदधाति) (नन्दिनी धेनुः च वारम्वारं चरणप्रहारेण ताडनं कृत्वा चन्दनं शोणिताप्लावितं विदधाति) हाय! मृतोऽस्मि। (चीत्कारं विदधन् पतति) (सर्वेजनाः विस्मयेन चन्दनं परस्परं च अवलोकयन्ति) 

व्याकरणात्मक-टिप्पणी :

9. मल्लिका – (चीत्कारं श्रुत्वा, झटिति प्रविश्य) नाथ! किं जातम्? कथं त्वं रक्तरञ्जितः? 
चन्दनः – धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्। 
(मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु, धेनुः दुग्धहीना एव इति अवगच्छति।) 
मल्लिका – (चन्दनं प्रति) नाथ! अत्यनुचितं कृतम् आवाभ्याम् यत्, मासपर्यन्तं धेनोः दोहनं कृतम्। सा पीडाम् अनुभवति। अत एव ताडयति। 
चन्दनः – देवि! मयापि ज्ञातं यत्, अस्माभिः सर्वथा अनुचितमेव कृतं यत् पूर्णमासपर्यन्तं दोहनं न कृतम्। अत एव दुग्धं शुष्कं जातम्। सत्यमेव उक्तम् – 
कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्। 
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्॥ 

श्लोकान्वयः – यत् अद्यतनीयं कार्यं तत् अद्यैव विधीयताम्। यस्य गतिः विपरीते (अस्ति) सः ध्रुवं कष्टं लभते।

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद :

मल्लिका – (चीत्कार सुनकर, शीघ्र प्रवेश करके) स्वामी! क्या हुआ? किस प्रकार तुम खून से सने हुए हो? 
चन्दन – गाय दूध दुहने की अनुमति ही नहीं दे रही है। दोहन कार्य प्रारम्भ करते ही मुझे प्रताड़ित करती है। (मल्लिका गाय को स्नेह और वात्सल्य से बुलाकर दूध दुहने का प्रयत्न करती है, किन्तु गाय दूध से रहित है ऐसा जानती है।) 
मल्लिका – (चन्दन की ओर) स्वामी! हम दोनों ने अत्यन्त अनुचित किया है कि एक महीने के बाद गाय के दूध का दोहन किया है। वह पीड़ा का अनुभव कर रही है। इसीलिए प्रताड़ित कर रही है। 
चन्दन – देवी! मैंने भी जाना है कि हमारे द्वारा सर्वथा अनुचित ही किया गया है कि पूरे महीने दूध का दोहन ही नहीं किया। इसीलिए दूध सूख गया है। सत्य ही कहा गया है –
जो आज का कार्य है, वह आज ही करना चाहिए। जिसकी गति विपरीत है वह निश्चय ही कष्ट प्राप्त करता है।

सप्रसङ्ग संस्कृत-व्याख्या – 

श्लोकस्य अन्वयः – यत् अद्यतनीयं कार्यं तत् अद्यैव विधीयताम्। यस्य गतिः विपरीते (अस्ति) सः ध्रुवं कष्टं लभते। 
प्रसङ्गः – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् मल्लिकायाः चन्दनस्य च धेनो: पीडायाः कारणं ज्ञात्वा स्वानुचितकार्यस्य पश्चात्तापूर्वकं वार्तालापं वर्तते – 

संस्कृत-व्याख्या – 

मल्लिका – (चन्दनस्य चीत्कारं आकर्ण्य शीघ्रं प्रवेशं कृत्वा) स्वामिन्! किम् अभवत्? केन कारणेन भवान् शोणितप्लावितः जातः?
चन्दनः – गौः दुग्धदोहनाय स्वीकृतिम् एव नहि यच्छति। दुग्धदोहनस्य कार्यस्य प्रारम्भे एव सा मां पीडयति। (मल्लिका गां प्रेम्णा वात्सल्यभावेन च आहूय दुग्धदोहनाय प्रयत्नं करोति। परन्तु गौः पयसः रहिता एव वर्तते इति सा सम्यक् जानाति।) 
मल्लिका – (चन्दनं प्रति) स्वामिन् ! आवाभ्याम् अत्यधिकम् अनुचितं कार्यं विधत्तम् यत् मासकालं यावत् गोः दुग्धदोहनं नहि कृतम्। अनेन सा धेनुः कष्टस्य अनुभवं करोति। पीडाकारणादेव सा ताडनं करोति। 
चन्दनः – हे देवि! अहमपि अवगतवान् यत् अस्माभिः सर्वप्रकारेण अनुचितम् = अकृत्यं कार्यमेव विधत्तम् यत् सम्पूर्णमासे दुग्धदोहनं न कृतवन्तः वयम्। अस्मादेव पयः शुष्कम् = नीरसम् अभवत्। यथार्थमेव कथितम् यत् अद्यतनीयं (अद्य दिवसस्य) कार्यं वर्तते, तत् कार्यम् अद्य एव कर्त्तव्यम्। यः विपरीतं 
करोति अर्थाद् अद्यतनीयं कार्यम् अद्यैव न करोति, सः जनः निश्चयमेव पीडां प्राप्नोति।

व्याकरणात्मक-टिप्पणी – 

10. मल्लिका – आम् भर्तः! सत्यमेव। मयापि पठितं यत – 
(i) सुविचार्य विधातव्यं कार्य कल्याणकाङ्क्षिणा। 
यः करोत्यविचार्यैतत् स विषीदति मानवः॥ 
किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्। 
सर्वे – दिनस्य कार्यं तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्टं लभते ध्रुवम्। 
(जवनिका पतनम्) 
(सर्वे मिलित्वा गायन्ति।) 

(ii) आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः। 
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥ 

श्लोकान्वयः – 
(i) कल्याणकाङ्क्षिणा कार्यं सुविचार्य (एव) विधातव्यम्। यः मानवः एतत् अविचार्य करोति सः विषीदति। 
(ii) क्षिप्रम् अक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः तद्रसं कालः पिबति।। 

कठिन-शब्दार्थ : 

हिन्दी-अनुवाद –

मल्लिका – हाँ स्वामी! सत्य ही है। मेरे द्वारा भी पढ़ा गया है कि कल्याण चाहने वाले के द्वारा कार्य को अच्छी प्रकार से विचार करके ही करना चाहिए। जो मनुष्य यह बिना विचार किये करता है, वह दुःखी होता है। किन्तु प्रत्यक्ष रूप से आज ही यह अनुभव किया है। 
सभी – दिन का कार्य उसी दिन करना चाहिए। जो ऐसा नहीं करता है वह निश्चित रूप से कष्ट प्राप्त करता है। 

(पर्दा गिरता है) 
(सभी मिलकर गाते हैं) 
शीघ्रता से न करने योग्य, आदान, प्रदान और करने योग्य कर्म का महत्त्व समय नष्ट कर देता है। 

सप्रसङ्ग संस्कृत-व्याख्या – 

श्लोकस्य अन्वयः – (i) कल्याणकाङ्क्षिणा कार्यं सुविचार्य (एव) विधातव्यम्। यः मानवः एतत् अविचार्य करोति सः विषीदति। (ii) क्षिप्रम अक्रियमाणस्य आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः तद्रसं कालः पिबति। 
प्रसङ्ग: – प्रस्तुतनाट्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘गोदोहनम्’ इति शीर्षकपाठाद् उद्धृतः। अंशेऽस्मिन् चन्दनस्य पश्चात्तापमाध्यमेन प्रेरणा प्रदत्ता यत् सुविचार्य तथा अद्यतनीयं कार्यम् अद्यैव कार्यम्। 
संस्कृत – व्याख्या –
मल्लिका – आम् स्वामिन् ! यथार्थमेव। मया = मल्लिकया अपि पठितं यत् कल्याणेच्छुकेन सम्यक्तया चिन्तयित्वैव कर्म कर्त्तव्यम्। यः मनुष्यः इदं कार्यं विचारं न कृत्वा विदधाति, सः दुःखम् आप्नोति। 
परन्तु इदं कथनं सम्मुखरूपेण अस्मिन् दिवसे एव अनुभवं कृतवती। सर्वे वस्तुतः दिवसस्य कर्म तस्मिन् एव दिवसे विधातव्यम्। यः जनः एवं प्रकारेण कार्यं न करोति, सः निश्चितं पीड़ां प्राप्नोति। 

(यवनिकापातः भवति) 
(सर्वे जनाः सम्भूय गानं कुर्वन्ति।) 

द्रुतम् अकरणीयस्य आदानस्य प्रकर्षेण दानस्य करणीयस्य च कार्यस्य तस्य रसं = फलं समयः पानं करोति। व्याकरणात्मक टिप्पणी – 

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00

slot siteleri-sahabet-matadorbet-sweet bonanza-deneme bonusu veren siteler 2026-radissonbet-kaçak iddaa-aviator-trwin-deneme bonusu veren yeni siteler-superbahis-matadorbet-sahabet-matadorbet-superbet-deneme bonusu veren yeni siteler-slotday-xslot-kralbet-bahibom-anadoluslot-slotday-radissonbet-casibom-casinofast-cratosroyalbet-asyabahis-asyabahis-betboo-betboo-youwin-youwin-superbahis-oleybet-1xbet-betmatik-artemisbet-bets10-deneme bonusu veren siteler 2026-tarafbet-baywin-superbahis-mersobahis-slotella-yeni slot siteleri-ritzbet-slot siteleri-canlı bahis siteleri-hitbet-celtabet-pusulabet-betano-betano-betewin-1xbet-mariobet-betmatik-betmatik-betenerji-misty-misty-güvenilir casino siteleri-misli-bahis siteleri-dedebet-bahsegel-bahsegel-meritking-holiganbet-holiganbet-bets10-ramadabet-bets10-casibom-casibom-ngsbahis-jojobet-marbahis-marbahis-asyabahis-tarafbet-yeni slot siteleri-superbahis-superbahis-oleybet-oleybet-misli-1xbet-artemisbet-slot siteleri-limanbet-limanbet-piabellacasino-baywin-mersobahis-almanbahis-pincocasino-pincocasino-savoycasino-exonbet-anadoluslot-betano-betano-madridbet-mariobet-mariobet-goldenbahis-betmatik-betenerji-misty-misty-betmatik-mostbet-bettilt-maxwin-meritking-venombet-holiganbet-betturkey-matadorbet-goldenbahis-cratosroyalbet-grandpashabet-casibom-jojobet-jojobet-bahibom-venombet-sahabet-aviator-aviator-bahis siteleri-superbet-grandpashabet-casino siteleri-betkom-palacebet-dedebet-deneme bonusu-spinco-deneme bonusu veren siteler-kaçak bahis-deneme bonusu veren siteler 2026-deneme bonusu veren siteler 2026-betkom-deneme bonusu veren yeni siteler-deneme bonusu veren yeni siteler-casinofast-tipobet-casibom-maxwin-deneme bonusu-spinco-betwild-güvenilir bahis siteleri-sweet bonanza-sweet bonanza-misli-betsin-stake-sweet bonanza-asyabahis-ramadabet-betboo-xslot-superbahis-deneme bonusu veren siteler-oleybet-kaçak iddaa-misli-deneme bonusu veren yeni siteler-damabet-pusulabet-artemisbet-limanbet-piabellacasino-1xbet-betewin-betsin-canlı casino siteleri-betturkey-tokyobet-meritbet-pincocasino-pincocasino-gates of olympus-royalbet-ritzbet-deneme bonusu-pusulabet-pusulabet-betenerji-misty-misty-mostbet-mostbet-bettilt-bahsegel-nerobet-meritking-meritking-trwin-holiganbet-matadorbet-kaçak bahis-canlı bahis siteleri-betwild-jojobet-sahabet-aviator-marsbahis-palacebet-enbet-mariobet-damabet-exonbet-deneme bonusu veren yeni siteler-tokyobet-sweet bonanza-güvenilir casino siteleri-casino siteleri-deneme bonusu veren yeni siteler-kralbet-güvenilir bahis siteleri-slotella-royalbet-aviator-betturkey-canlı casino siteleri-sweet bonanza-slot siteleri-kaçak iddaa-kaçak iddaa-kaçak bahis-güvenilir casino siteleri-güvenilir casino siteleri-güvenilir bahis siteleri-gates of olympus-gates of olympus-deneme bonusu veren yeni siteler-deneme bonusu veren siteler 2026-casino siteleri-canlı casino siteleri-canlı bahis siteleri-bahis siteleri-matadorbet-matadorbet-matadorbet-matadorbet-matadorbet-matadorbet-matadorbet-