अष्टमः पाठः दयावीर कथा
1. संस्कृतभाषया उत्तरत
(क) पुरुषपरीक्षायाः लेखकः कः ?
उत्तर: पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति।
(ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?
उत्तर: अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्।
(ग) महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्?
उत्तर: महिमासाहिसेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत्।
(घ) हम्मीरदेव: यवनसेनानिनं प्रति किमवदत् ?
उत्तर: मम शरणागतं मयि जीवति यत्रोऽपि त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः।
(ङ) हम्मीरदेवेन निर्भर्सिते दूते यवनराजः किमकरोत् ?
उत्तर: हम्मीरदेवेन निर्भर्त्सिते दूते यवनराजः कुपित्वा युद्धसमुद्धरो बभूव ।
(च) भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य कौ मिलितौ ?
उत्तर: भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य रायमल्ल रामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ मिलितौ।
(छ) युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसैनिकान् प्रति किमकथयत्?
उत्तर: हम्मीरदेवः स्वसैनिकान् अकथयत्– यत् परिमितबलोऽप्यहं शरणागत करुणया प्रवृद्ध बलेनापि यवनराजेन समं योत्स्यामि ।
(ज) ‘मां परित्यज्य देहि’ इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत् ?
उत्तर: हम्मीरदेवेन अवदत्- मैवं ब्रूहि। “यतः भौतिकेन शरीरेण नश्वरेण चिरस्थितम्। लप्स्यमानं यशः को वा परिहर्तुं समीहते।”
(झ) शरणागतरक्षायै कः वीरगतिमलभत?
उत्तर: शरणागतरक्षायै हम्मीरदेवः वीरगतिमलभत्।
2. अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः
अलावदीन:, रणस्तम्भदुर्गः, योगिनीपुरम्, यवनराजः।
उत्तर:
अलावदीनः – अलाउद्दीन
रणस्तम्भदुर्गः – रणथम्भौर किला
योगिनीपुरम् – जोगिनीपुर
यवनराजः – मुसलमान राजा, बादशाह
3. आशयं स्पष्टीकुरुत
(क) जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत्।
लोकान्तरगतस्येव किं तस्य जीवितेन वा ।।
उत्तर: आशय- जो व्यक्ति अपने जीवन के लिए या प्राणों की रक्षा के लिए अपने कुल को त्यागकर बहुत दूर चला जाये, दुसरे लोक को गये हुये की तरह उसके जीवित रहने से क्या लाभ ? अर्थात् उसका जीवित रहना, न जीवित रहना बराबर है।
(ख) वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः ।
उत्तर: आशय- महाराज हम्मीर सिंह के यह कहने पर मैं यवनराज के साथ युद्ध करूँगा और तुम किले से बाहर चले जाना। सैनिकों ने कहा-महाराज ! हम आपकी जीविका का उपभोग करने वाले हैं, कैसे इस समय आप जैसे स्वामी को छोड़कर कायर पुरुषों के मार्ग का अनुसरण करेंगे अर्थात् ऐसा हम कदापि नहीं करेंगे।
4. प्रकृतिप्रत्ययविभागः क्रियताम्
ज्ञात्वा, दृष्ट्वा, हत्वा, परित्यज्य पुरस्कृत्य, अलङ्कृत्य, घातयन्, पलायमानः ।
उत्तर:
प्रकृतिः | प्रत्ययः |
ज्ञात्वा – | ज्ञा + क्त्वा |
दृष्ट्वा – | दृश् + क्त्वा |
हत्वा – | हन् + क्त्वा |
परित्यज्य – | परि + त्यज् + क्त्वा, ल्यप्। |
पुरस्कृत्य – | पुरः + कृ + क्त्वा, ल्यप्। |
अलङ्कृत्य – | अलम् + कृ + क्त्वा, ल्यप्। |
घातयन् – | हन् + णिच् + शतृ, पुल्लिङ्ग प्रथमा एकवचनम् |
पलायमानः – | पलाय् + शानच् पुल्लिङ्ग प्रथमा एकवचनम् |
5. प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत
विद् + क्त्वा, परा + मृश् + ल्यप्, निर् + सृ + ल्यप्, पत् + णिच् + (इ) + शतृ, कृ + शानच्, रक्ष् + तुमुन् ।
उत्तर:
विद्+क्त्वा – | विदित्वा |
परा+मृश्+ल्यप् – | परामृश्य |
निर्+सृ+ल्यप् – | निःसृत्य |
पत्+णिच्+(इ)+शतृ – | पातयन् |
कृ + शानच् – | कुर्वाणः |
रक्ष् + तुमुन् – | रक्षितुम् |
6. अधोलिखितशब्दान् आश्रित्य वाक्यरचनां कुरुत
कुपित्वा, परामृश्य, अलङ्कृत्य, नर्तयन्, कुर्वाणः, गन्तव्यम्, पलायमानः, रक्षितुम्, लब्धवान् ।
उत्तर:
कुपित्वा – | सः कुपित्वा युद्धाय तत्परो अभवत् । |
परामृश्य – | मया सह परामृश्य सः ग्रामं गतवान् । |
अलङ्कृत्य – | वीराः रक्तेन धरित्रीम् अलंकृत्य अति प्रसन्नाः अभवन् । |
नर्तयन् – | हम्मीरदेवः समराङ्गणे कबन्धान् नर्तयन् प्राणान् तत्याज। |
कुर्वाणः – | कार्यं कुर्वाणः सः सुप्तः । |
गन्तव्यम् – | युद्धभूमौ वीरैः गन्तव्यम्। |
पलायमानः – | सिंहं दृष्ट्वा पलायमानः सः न जाने कुत्र गतः । |
रक्षितुम् – | यदि मां रक्षितुं शक्नोषि तर्हि वचनं देहि । |
लब्धवान् – | यवनराजः युद्धे जयं न लब्धवान् । |
7. सन्धिविच्छेदः क्रियताम्
सामर्षः, भग्नोद्यमम्, ममैकस्य, यमोऽपि गतस्येव, मयैव तुरगारूढः, इहैव, चूर्णाविशेषम्।
उत्तर:
सामर्षः – | स + अमर्षः |
भग्नोद्यमम् – | भग्न + उद्यसम् |
ममैकस्य – | मम + एकस्य |
यमोऽपि – | यमः + अपि |
गतस्येव – | गतस्य + इव |
मयैव – | मया + एव |
तुरगारूढः – | तुरग + आरूढः |
इहैव – | इह + एव |
चूर्णावशेषम् – | चूर्ण + अवशेषम् |
8. अधोलिखिताव्ययपदान्याधृत्य संस्कृते वाक्यरचनां कुरुत
तत्र, यतः, इह, तदा, ततः, च, यदि, श्वः, परश्वः ।
उत्तर:
तत्र – | त्वं तत्र गच्छ। |
यतः | अहम् अद्य विद्यालयं न गमिष्यामि, यतः मम गृहे आवश्यकं कार्यमस्ति । |
इह | इह एव जीवनं मरणं च । |
तदा | यदा सुर्यं उदेति तदा पुष्पाणि विकसन्ति । |
ततः | ततः प्रभाते युद्धं प्रारब्धम्। |
च | रामः मोहनश्च तत्र गतवन्तौ । |
यदि | यदि मां रक्षितुं शक्नोषि तर्हि विश्वासं देहि । |
श्वः | अहं श्वः जयपुरं गमिष्यामि। |
परश्वः | परश्वः विद्यालये अवकाशः वर्तते । |