Day
Night

तृतीयः पाठः परोपकाराय सतां विभूतयः

1. संस्कृतभाषया उत्तरत

(क) जातकमालाया: लेखकः कः ?

उत्तर: जातकमालायाः लेखकः आयूशूरः वर्तते।

(ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ?

उत्तर: कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव ।

(ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत्?

उत्तर: महासत्त्वः मीनानां स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्।

(घ) सर: लघुपल्वलमिव कथमभवत् ?

उत्तर: उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारूतेन पिपासावशादिव प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्।

(ङ) बोधिसत्त्व : किमर्थं चिन्तामकरोत् ?

उत्तर: विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करूणायमानः चिन्तामापेदे ।

(च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म?

उत्तर: तोयम् आयुषा स्पर्धमानमिव प्रत्यहं क्षीयते स्म।

(छ) आकाशे अकाला अपि के प्रादुरभवन्?

उत्तर: आकाशे अकाला अपि कालमेघाः प्रादुरभवन्।

(ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् ?

उत्तर: वर्षानिवृत्ति आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान् ।

(झ) शक्र: केषां राजा आसीत् ?

उत्तर: शक्रः देवानां राजा आसीत्।

(ञ) अस्माभिः कुत्र प्रयतितव्यम् ?

उत्तर: अस्माभिः शीलविशुद्धौ प्रयतितव्यम्।

2. रिक्तस्थानानि पूरयत

(क) बोधिसत्त्वः परहितसुखसाधने …व्यापृत: …..अभवत् ।

(ख) तत्रस्थिता: मीना: जलाभावात् …..मृतप्राया: …..इव संजाताः ।

(ग) विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्व: ..करूणायमानं चिन्ताम् …..आपेदे।

(घ) स महात्मा स्वकीयसत्यतपोबलमेव तेषां ..रक्षणोपायम् …अमन्यत ।

(ङ) तत् ….सर: …… तोयसमृद्धिमवाप।

3. सप्रसङ्ग व्याख्या कार्या

(क) बहुषु जन्मान्तरेषु परोपकार – अभ्यासवशात् तत्रस्थः अपि परहितसुखसाधने

      व्यापृतः अभवत् ।

उत्तर: प्रसङ्गः

पंक्तिरियं अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः इति पाठात् उद्धृतः। मूलतः अयं पाठः आर्यशूर- विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः । अत्र लेखकः बोधिसत्त्वस्य परहित- दयार्द्रतां वर्णयति-

व्याख्या

बहुषु जन्मान्तरेषु = अनेकेषु पूर्वजन्मसु, परोपकार- अभ्यासवशात् = परहित-कार्याणि अनवरतमेव सम्पादनात् अभ्यस्तोऽयं बोधिसत्त्वः, तत्रस्थः अपि= तस्मिन्नेवजन्मनि (मत्स्याधिपतिः रूपे) एव स्थितः, परहितसुखसाधने व्यापृतः अभवत्= परोपकाररतः संजातः, तेषां मीनानां सुखसाधने, संलग्नोऽभवत्।

(ख) अस्मद्व्यसनसङ्कृष्टाः समायान्ति नो द्विषः ।

उत्तर: प्रसङ्गः

पंक्तिरियं अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः पाठात् उद्धृतः । मूलतोऽयं पाठः आर्यशूर-विरचितात् जातकमाला इति कथाग्रन्थात् संकलितः। अस्मिन् वाक्ये बोधिसत्त्वः कथयति-यत् मानवः स्वकर्मणां फलं अवश्यमेव भुङ्क्ते

व्याख्या

अस्माकं पापाचारैः एव आकृष्टाः अस्माकं शत्रवः ईतिभीत्यादयः समन्ततः आगच्छन्ति । अर्थात् मानवः स्वकर्मणामेव फलं भुङ्क्ते ।

(ग) शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति ।

उत्तर: प्रसङ्गः

इयं पंक्तिः अस्माकं शाश्वती पाठयपुस्तकस्य परोपकाराय सतां विभूतयः इति पाठात् उद्धृतः । मूलतोऽयं पाठः आर्यशूर-विरचितात् जातकमाला इति कथाग्रन्थात् संकलितः । अस्मिन् वाक्ये बोधिसत्त्वः मानवेभ्यः उपदिशति-

व्याख्या

ये मानवाः शीलवन्तः सदाचारशालिनः वर्तन्ते, ते अस्मिन् संसारे एव भद्राणि मनोरथान् वृद्धिञ्च प्राप्नुवन्ति । भावोऽयं यत् मानवः स्वकर्मणां फलं अत्रैव अस्मिन् एव जन्मनि अस्मिन् एव लोके च भुङक्ते ।

4. अधोलिखितशब्दान् ल्यबन्तेषु शतृप्रत्ययान्तेषु शानच्प्रत्ययान्तेषु च विभज्य लिखत

आपीयमानम्, अवेक्ष्य, स्पर्धमानम्, समापीड्यमानम्, निःश्वस्य, रत्नायमानानि, अभिगम्य, संराधयन्, विमृशन्, समुल्लोकयन् ।

उत्तर:

ल्यबन्त :-

अवेक्ष्य – अव + ईक्ष् + ल्यप्

निःश्वस्य – निः + श्वस् + ल्यप्

अभिगम्य – अभि + गम् + ल्यप् ।

शतृ प्रत्ययान्त-

संराधयन् – सम् + राध् + शतृ ।

विमृशन् – वि + मृश् + शतृ।

समुल्लोकयन् – सम् + उत् + लोक् + शतृ।

शानच् प्रत्ययान्त-

आपीयमानम् – आ + पा + शानच् ।

स्पर्धमानम् – स्पर्ध + शानच् ।

समापीड्यमानम् – सम् + आङ् + पीड्

रत्नायमानानि – रत्नाय + शानच् ।

5. विशेषणानि विशेष्यैः सह योजयत

(क) सरसि                      इष्टानाम्

(ख) धरण्या                     कदम्बकुसुमगौरेण

(ग) अपत्यानाम्                हंसचक्रवाकादिशोभिते

(घ) नवसलिलेन               अभितप्तया

(ङ) पक्षिण:                     ज्वालानुगतेन

(च) बोधिसत्त्व:                  तंत्रस्थाः

(छ) मीन:                        सलिलतीरवासिनः

(ज) मारुतेन                     करुणायमानः

उत्तर:

(क) सरसि                   हंसचचक्रवाकादि शोभिते

(ख) धरण्या                  अभितप्तया

(ग) अपत्यानाम्              इष्टानाम्

(घ) नवसलिलेन             कदम्बकुसुमगौरेण

(ङ) पक्षिण:                  सलिलतीरवासिनः

(च) बोधिसत्त्व:               करुणायमानः

(छ) मीन:                      तत्रस्थाः

(ज) मारुतेन                  ज्वालानुगतेन

6. अधोलिखितपदानि संस्कृतवाक्येषु प्रयुध्वम्

कस्मिंश्चित्, भाग्यवैकल्यात्, आपीयमानम्, लक्ष्यते, विमृशन्, अभिगम्य, प्रयतितव्यम्।

उत्तर:

1. कस्मिंश्चित् वने एकः सिंहः वसति स्म ।

2. प्राणिनाम् भाग्यवैकल्यात् देवो न ववर्ष।

3. प्रत्यहम् आपीयमानम् तत् सरः शुष्कमभवत्।

4. अस्मात् स्थानात् तत् चित्रं न लक्ष्यते।

5. अस्मिन् विषये विमृशन् सः सुप्तः।

6. देवराजः साक्षात् अभिगम्य बोधिसत्वम् उवाच ।

7. अस्माभिः अस्मिन् विषये प्रयतितव्यम् ।

7. पर्यायवाचकं चिनुत

मीन:, पक्षी, प्रत्यहम्, आपद्, पर्जन्यः ।

उत्तर:

शब्दःपर्यायम्
मीन: =मत्स्यः, झषः
पक्षी =खगः, शकुन्तः।
प्रत्यहम् =प्रतिदिनम्।
आपद् =विपद्, विपत्तिः।
पर्जन्यः =मेघः वारिधरः वारिदः ।

8. अधोलिखितवाक्येषु उपमानानि योजयत

(क) …..इष्टानाम् …. इव मीनानां परमनुग्रहं चकार ।

(ख) …..आयुषा …. इव तोयं प्रत्यहं क्षीयते ।

(ग) …आवर्जिता: करना: …. इव इमे पयोदाः क्षरन्ति ।

(घ) …कदम्बकुसुमगौरेण … इव नवसलिलेन सर: परिपूर्णं न जातम् ।

(ङ) सर: ग्रीष्मकाले …..लघुपल्वलम् …… इव सञ्जातम् ।

0:00
0:00