शाश्वती भाग 2 दशमः पाठः

(1) संस्कृतभाषाया उत्तराणि लिखत ।

प्रश्न क- श्रीनायार : कुत्र गमनाय इच्छां न प्रकटितवान्?

उत्तर- श्रीनायारः स्वराज्यं केरलं प्रति गमनाय इच्छां न प्रकटितवान्!

प्रश्न ख- विभागस्य विपक्षे केषाम् अभियोगो नास्ति?

उत्तर- विभागस्य विपक्षे उपभोक्तृनाम् अभियोगो नास्ति!

प्रश्न ग- श्रीनायार : स्ववेतनस्य अर्थाधिकं भागं कुत्र प्रेषयति सम ?

उत्तर – श्रीनायारः स्ववेतनस्य अर्थाधिकं भागं केरलं प्रेषयति स्म।

प्रश्न घ- श्रीनायारस्य नेत्रतीराद् विगलिता अश्रुधारा किम् अकरोत् ?

उत्तर – श्रीनायारस्य नेगतीराद् विगलिता अश्रुधारा पत्रस्य अर्थाधिकं भागम् आद्रीकरोति स्म।

प्रश्न ङ- बहुदिनेभ्य: स्थगितानां समस्यानां समाधानं कदा जातम् ?

उत्तर – बहुदिनेभ्य: स्थगितानां विविध समस्यानामपि समाधानं जातम्!

प्रश्न च – श्रीनायारस्य पार्श्वे पत्रं कया प्रेषितम्?

उत्तर – श्रीनायारस्य पार्श्वे पत्रं सुश्री मेरी महोदया प्रेषितम्!

प्रश्न छ – आश्रमे के लालितः पालिताश्च भवन्ति?

एवंउत्तर – आश्रमे अनाथशिशवः लालिता : पालिताश्च भवन्ति

प्रश्न ज – पत्रलेखिका कस्य हस्तयोः अनाथाश्रमं समर्प्य सौ सौप्रस्थानिकीमिच्छति ?

उत्तर – पत्रलेखिका श्रीनायारस्य हस्तयोः अनाथश्रमं समर्प्य सौप्रस्थानिकीमिच्छति ।

3. अधः समस्तपदानां विग्रहाः दत्ताः तानाश्रित्य समस्तपदानि रचयत समासनामापि लिखत।

(क) कालस्य खण्डः तस्मिन्— कालखण्डे ( षष्ठी तत्पुरुष समास)

(क) कर्मसु नैपुण्यम् — कर्मनैपुण्यम्( सप्तमी तत्पुरुष समास)

(ग) द्वि च त्रि च अनयोः तेषाम्— द्वित्राणाम्( द्वन्द्व समास)

(घ) दीर्घ : अवकाशः तम्— दीर्घावकाशम( कर्मधारय समास)

( ङ) धनाय आदेशः तेन— धनादेशेन( चतुर्थी तत्पुरुष समास)

(च) जीवनस्य प्रदीपः— जीवनप्रदीप:( षष्ठी तत्पुरुष समास)

(4) रेखांकित पदानि आधृत्य प्रश्ननिर्माणं कुरुत ।

(क) श्रीनायार : स्वल्पभाषी आसीत् । उत्तरः कीदृशः

(ख) वर्षत्रयस्य आकलनात् ज्ञायते यत् विभागस्य कार्यनैपुण्यं दशगुणै : वर्धितम् ? उत्तर – कस्य

(ग) तस्य राज्येन सह कश्चित् सम्पर्कः नास्ति ? उत्तर – केन

( घ) पत्रस्य अर्धाधिकं भागं अश्रुधारा आर्दीकरोति स्म? उत्तरः का

( ङ) श्रीदासः तत्पत्रमुद्‌घाटितवान्? उत्तर – कः

( च) भगवान् त्वां दीर्घजीवनं कारयतु? उत्तर – कं 

(5) विपरीतार्थक पदानि मेलयत ।

क. आगत्य —- ख. गत्वा

ख. इच्छाम्—- ज. अनिच्छाम्

ग. स्वल्पभाषी—- ङ बहुभाषी

घ. प्रारभ्य—- च. समाप्य

ङ. अधिकीभूतम्—- ग. न्यूनीभूतम्

च. विपक्षे—- घ. पक्षे

छ. स्मृतः—- क. विस्मृतः

ज. दीर्घजीवनम्—- छ. लघुजीवनम्

6. अधोलिखिताना विशेष्यपदानां विशेषपदानि पाठात् चित्वा लिखत ।

विशेष्यपद —-विशेषणपद

वार्तालाप:———– सन्तुलितः

वर्षत्रयस्य———— गतस्य

अश्रुधारा————- विगलिता

समस्यानाम्———– विविधानाम्

व्यवहारः————— रुक्षः

पत्रम्——————– पूर्वतनम्

शिशवः—————– अनाथा:

(7)अधोलिखितेषु पदेषु प्रकृतिप्रत्ययविभागं कुरुत ।

समाप्य—- सम्( उपसर्ग) आप् ( धातु ) ल्यप् ( प्रत्यय)

जातम्—– जन् (धातु) क्त (प्रत्यय )

व्यक्त्वा—– त्यज ( धातु ) कत्वा (प्रत्यय )

धृत्वा——- धृ (धातु) कत्वा ( प्रत्यय )

पठन्—— पठ् ( धातु ) शतृ ( प्रत्यय )

संपोष्य—– सम् ( उपसर्ग ) पुष ( धातु ) ल्यप ( प्रत्यय )

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00