Chapter 3 परोपकाराय सतां विभूतयः

Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरत – 
(क) जातकमालायाः लेखकः कः? 
उत्तरम् :
जातकमालायाः लेखकः आर्यशूरः वर्तते। 

(ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव? 
उत्तरम् : 
कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव।

(ग) महासत्त्वः मीनानाम् कैः परमनुग्रहम् अकरोत्?
उत्तरम् : 
महासत्त्वः मीनानाम् स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्।

(घ) सरः लघुपल्वलमिव कथमभवत्? 
उत्तरम् : 
उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारुतेन पिपासा वशादिव प्रत्यहम् आपीयमानः तद् सरः लघुपल्वलमिवाभवत्। 

(ङ) बोधिसत्त्वः किमर्थं चिन्तामकरोत्? 
उत्तरम् : 
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानः चिन्तामापेदे। 

(च) तोयं प्रतिदिनं केन स्पर्धमानं क्षीयते स्म? 
उत्तरम् : 
तोयं आयुषा स्पर्धमानभिव प्रत्यहं क्षीयते स्म। 

(छ) आकाशे अकाला अपि के प्रादुर्भवन्? 
उत्तरम् : 
आकाशे अकाला अपि कालमेघाः प्रादुर्भवन्।

(ज) कया आशङ्कया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान्? 
उत्तरम् : 
वर्षानिवृत्ति आशंकया बोधिसत्त्वः पुनः पुनः पर्जन्यं प्रार्थितवान्।

(झ) शक्रः केषां राजा आसीत्? 
उत्तरम् : 
शक्रः देवानाम् राजा आसीत्। 

(ञ) अस्माभिः कुत्र प्रयतितव्यम्? 
उत्तरम् : 
अस्माभिः शीलविशुद्धौ प्रयतितव्यम्। 

प्रश्नः 2. 
रिक्त स्थानानि पूरयत 
(क) बोधिसत्त्वः परहितसुखसाधने…….अभवत्। 
उत्तरम् : 
बोधिसत्त्वः परहितसुखसाधने व्याप्तः अभवत्। 

(ख) तत्रस्थिताः मीनाः जलाभावात्…इव संजाताः। 
उत्तरम् : 
तत्रस्थिताः मीनाः जलाभावात् मृतप्रायाः इव संजाताः। 

(ग) विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः ………. आपेदे। 
उत्तरम् : 
विषाददैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानम् चिन्ताम् आपेदे। 

(घ) स महात्मा स्वकीय सत्यतपोबलमेव तेषां……..”अमन्यत। 
उत्तरम् : 
स महात्मा स्वकीय सत्यतपोबलमेव तेषां रक्षणोपायं अमन्यत। 

(ङ) तत्. .तोयसमृद्धिमवाप। उत्तरम् : तत् सरः तोयसमृद्धिमवाप। 

प्रश्न: 3. 
सप्रसङ्ग व्याख्या कार्या 
(क) बहुषु जन्मान्तरेषु परोपकार-अभ्यासवशात् तत्रस्थः अपि परहितसुखसाधने व्यापृतः अभवत्। 
उत्तरम् : 
प्रसङ्गः – पंक्तिरियं अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ इति पाठात् उद्धृतः। मूलतः अयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः। अत्र लेखकः बोधिसत्त्वस्य परहित दयार्द्रतां वर्णयति 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। मूलतः यह पाठ आर्यशूर विरचित ‘जातकमाला’ कथाग्रन्थ से संकलित किया गया है। यहाँ लेखक बोधिसत्त्व की परहित दयार्द्रता का वर्णन करता है –

संस्कृत-व्याख्या – बहुषु जन्मान्तरेषु = अनेकेषु पूर्वजन्मसु, परोपकार अभ्यासवशात् = परहित कार्याणि अनवरतमेव सम्पादनात् अभ्यस्तोऽयं बोधिसत्त्वः, तत्रस्थः अपि = तस्मिन्नेवजन्मनि (मत्स्याधिपतिः रूपे) एव स्थितः, परहितसुखसाधने व्यापृतः अभवत् = परोपकाररतः संजातः, तेषां मीनानाम् सुखसाधने संलग्नोऽभवत्। 
(अनेक पूर्व जन्मों में परहित कार्य अनवरत रूप से सम्पादित करने के कारण अभ्यस्त हुये ये बोधिसत्त्व, उस जन्म में अर्थात् मत्स्याधिपति के जन्म में रहकर परोपकाररत हो गये तथा उनके (मछलियों के) सुख साधन जुटने में संलग्न हो गये।) 

(ख) अस्मद् व्यसनसकृष्टाः समायान्ति नो द्विषः।। 
उत्तरम् : 
प्रसङ्गः – पंक्तिरियं अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ पाठात् अवतरितः। मूलतोऽयं पाठः आर्यशूर विरचितात् ‘जातकमाला’ इति कथाग्रन्थात् संकलितः। अस्मिन् वाक्ये बोधिसत्त्वः कथयति यत् मानवः स्वकर्मणां फलं अवश्यमेव भुङ्क्ते। 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। मूल रूप से यह पाठ आर्यशूर विरचित ‘जातकमाला’ कथाग्रन्थ से संकलित है। इस वाक्य में बोधिसत्व कहता है कि मनुष्य अपने कर्मों के फल अवश्य भोगता है।) 

व्याख्या – अस्माकं पापाचारैः एव आकृष्टाः अस्माकं शत्रवः ईतिभीत्यादयः समन्ततः आगच्छन्ति। अर्थात् मानवः स्वकर्मणामेव फलं भुङ्क्ते।। 
(हमारे पापकर्मों से ही खींचे हुये हमारे शत्रु इति भीति आदि (दु:ख) सभी ओर से आते हैं। अर्थात् मानव अपने किये हुये कर्मों का फल अवश्य भोगता है।) 

(ग) शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति। 
उत्तरम् : 
प्रसङ्गः – इयं पंक्तिः अस्माकं पाठ्यपुस्तकस्य ‘परोपकाराय सतां विभूतयः’ पाठात् अवतरिता। अस्यां पंक्तौ बोधिसत्वः मानवेभ्यः उपदिशति 
(यह पंक्ति हमारी पाठ्यपुस्तक के ‘परोपकाराय सतां विभूतयः’ पाठ से ली गई है। इस पंक्ति में बोधिसत्त्व मनुष्यों को उपदेश दे रहे हैं।) 

व्याख्या – ये मानवाः शीलवन्तः सदाचारशालिनः वर्तन्ते, ते अस्मिन् संसारे एव भद्राणि मनोरथाः वृद्धिमायान्ति। भावोऽयं यत् मानवः स्वकर्मणां फलं अत्रैव अस्मिन्नेव जन्मनि अस्मिन्नेव च लोके भुङ्क्ते। 
(जो मनुष्य चरित्रवान् हैं, सदाचारशील हैं, वे इस संसार में ही कल्याणकारी मनोरथों की वृद्धि को प्राप्त करते हैं। भाव यह है कि मानव अपने कर्मों का फल यहीं पर इसी जन्म में तथा इसी लोक में प्राप्त करता है।) 

प्रश्न: 4. 
अधोलिखित शब्दानां ल्यबन्तेषु शतृ प्रत्ययान्तेषु शानच प्रत्ययान्तेषु च विभज्य लिखत 
आपीयमानम्, अवेक्ष्य, स्पर्धमानम्, समापीड्यमानम्, नि:श्वस्य, रत्नायमानानि, अभिगम्य, संराधयन्, विमृशन्, समुल्लोकयन्। 
उत्तरम् : 
ल्यबन्त –

शतृ प्रत्ययान्त –

शानच् प्रत्ययान्त –

प्रश्नः 5. 
विशेषणानि विशेष्यै सह योजयत 
(क) सरसि – इष्टानाम् 
(ख) धरण्या – कदम्बकुसुमभारेण 
(ग) अपत्यानाम् – हंसचक्रवाकादि शोभिते 
(घ) नवसलिलेन – अभितप्तया 
(ङ) पक्षिणः – ज्वालानुगतेन
(च) बोधिसत्त्वः – तत्रस्थाः 
(छ) मीनाः – सलिलतीरवासिनः 
(ज) मारुतेन – करुणायमानः 
उत्तरम् :  
(क) सरसि – हंसचक्रवाकादि शोभिते 
(ख) धरण्या – अभितप्तया 
(ग) अपत्यानाम् – इष्टानाम् 
(घ) नवसलिलेन – कदम्बकुसुमगौरेण 
(ङ) पक्षिणः – सलिलतीरवासिनः 
(च) बोधिसत्त्वः – करुणायमानः 
(छ) मीनाः – तत्रस्थाः 
(ज) मारुतेन – ज्वालानुगतेन 

प्रश्नः 6. 
अधोलिखित पदानि संस्कृत वाक्येषु प्रयुध्वम् – 
कस्मिंश्चित्, भाग्यवैकल्यात्, आपीयमानम्, लक्ष्यते, विमृशन्, अभिगम्य, प्रयतितव्यम्। 
उत्तरम् :  

  1. कस्मिंश्चित् वने एकः सिंहः वसति स्म। 
  2. प्राणिनाम् भाग्यवैकल्यात् देवो न ववर्ष। 
  3. प्रत्यहम् आपीयमानम् तत् सरः शुष्कमभवत्। 
  4. अस्मात् स्थानात् तत् चित्रं न लक्ष्यते। 
  5. अस्मिन् विषये विमृशन् सः सुप्तः। 
  6. देवराजः साक्षात् अभिगम्य बोधिसत्त्वं उवाच। 
  7. अस्माभिः अस्मिन् विषये प्रयतितव्यम्।

प्रश्नः 7. 
पर्यायवाचकं लिखत मीनः, पक्षी, प्रत्यहम्, आपद्, पजेन्यः।
उत्तरम् :  
शब्द – पर्याय 

प्रश्नः 8. 
अधोलिखित वाक्येषु उपमानानि योजयत –
(क) ………. इव मीनानां परमानुग्रहं चकार। 
(ख) ……….. इव तोयं प्रत्यहं क्षीयते। 
(ग) …………. इव इमे पयोदाः क्षरन्ति। 
(घ) ………. इव नवसलिलेन सरः प जातम्। 
(ङ) सरः ग्रीष्मकाले …………… इव सञ्जातम्। 
उत्तरम् : 
(क) इष्टानाम् 
(ख) आयुषा 
(ग) आवर्जिताः कलशाः 
(घ) कदम्बकुसुमगौरेण 
(ङ) लघुपल्वलम्।

Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् –

प्रश्न: 1. 
जातककथाः मूलतः कस्यां भाषायां सन्ति? 
उत्तरम् : 
जातककथा: मूलतः पालिभाषायां सन्ति। 

प्रश्नः 2. 
‘परोपकाराय सतां विभूतयः पाठः कस्य जातकस्य संक्षेपः वर्तते? 
उत्तरम् :
‘परोपकाराय सतां विभूतयः पाठः ‘मत्स्यजातकस्य’ संक्षेपः वर्तते। 

प्रश्न: 3. 
बोधिसत्त्वस्य जीवनं कीदृशं अस्ति? 
उत्तरम् : 
बोधिसत्त्वस्य जीवनं अलौकिकं आदर्शश्चास्ति। 

प्रश्न: 4. 
सत्त्वानां भाग्यवैकल्यात् किं अभवत्? 
उत्तरम् : 
सत्त्वानां भाग्यवैकल्यात् प्रमादाच्च देवो सम्यक् न ववर्ष। 

प्रश्नः 5. 
जलाभावात् तत्रस्थिताः मीनाः कथं संजाता? 
उत्तरम् : 
जलाभावात् तत्रस्थिताः मीनाः मृतप्रायाः इव संजाताः। 

प्रश्नः 6.
सः महात्मा तेषां मीनानां रक्षणोपायं किं अमन्यत? 
उत्तरम् : 
सः महात्मा तेषां मीनानां रक्षणोपायं स्वकीयसत्यतपोबलमेव अमन्यत। 

प्रश्नः 7. 
सत्त्वगुणैः परिपूर्णं आचरणं कान् अपि वशीकर्तुम् शक्यते? 
उत्तरम् : 
सत्त्वगुणैः परिपूर्णं आचरणं देवान् अपि वशीकर्तुं शक्यते। 

प्रश्न: 8. 
बोधिसत्त्वस्य प्रार्थनां श्रुत्वा तत्र को आगतवान्? 
उत्तरम् : 
बोधिसत्त्वस्य प्रार्थनां श्रुत्वा तत्र देवानां इन्द्रः शक्रः आगतवान्। 

प्रश्नः 9. 
प्रियवचनैः संराध्य तत्रैव को अन्तर्दधे? 
उत्तरम् : 
प्रियवचनैः संराध्य तत्रैव इन्द्रः अन्तर्दधे। 

प्रश्न: 10.
केषां इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति? 
उत्तरम् : 
शीलवताम् इह एव कल्याणा: अभिप्रायाः वृद्धिम् आप्नुवन्ति। 

प्रश्न: 11. 
विषाद दैन्यवशगं मीनकुलमवेक्ष्य कः चिन्तामापेदे? 
उत्तरम् : 
विषाद दैन्यवशगं मीनकुलमवेक्ष्य बोधिसत्त्वः करुणायमानः चिन्तामापेदे।

प्रश्न: 12. 
संस्कृतसाहित्ये कासां विशेषमहत्त्वमस्ति? 
उत्तरम् : 
संस्कृतसाहित्ये जातककथानां विशेषमहत्त्वमस्ति। 

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00